रामायणRāmāyaṇa

Rām, 2, 29

105 of 606 · 57 verses

Select a line for its word-by-word analysis.

1.1१.१

ततः शासनम् आज्ञाय भ्रातुः शुभतरं प्रियम् । (१।१)

tataḥ śāsanam ājñāya bhrātuḥ śubhataraṃ priyam |

1.2१.२

गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् ॥ (१।२)

gatvā sa praviveśāśu suyajñasya niveśanam ||

2.1२.१

तं विप्रम् अग्न्यगारस्थं वन्दित्वा लक्ष्मणो ऽब्रवीत् । (२।१)

taṃ vipram agnyagārasthaṃ vanditvā lakṣmaṇo 'bravīt |

2.2२.२

सखे ऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः ॥ (२।२)

sakhe 'bhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ ||

3.1३.१

ततः संध्याम् उपास्याशु गत्वा सौमित्रिणा सह । (३।१)

tataḥ saṃdhyām upāsyāśu gatvā saumitriṇā saha |

3.2३.२

जुष्टं तत् प्राविशल् लक्ष्म्या रम्यं रामनिवेशनम् ॥ (३।२)

juṣṭaṃ tat prāviśal lakṣmyā ramyaṃ rāmaniveśanam ||

4.1४.१

तम् आगतं वेदविदं प्राञ्जलिः सीतया सह । (४।१)

tam āgataṃ vedavidaṃ prāñjaliḥ sītayā saha |

4.2४.२

सुयज्ञम् अभिचक्राम राघवो ऽग्निम् इवार्चितम् ॥ (४।२)

suyajñam abhicakrāma rāghavo 'gnim ivārcitam ||

5.1५.१

जातरूपमयैर् मुख्यैर् अङ्गदैः कुण्डलैः शुभैः । (५।१)

jātarūpamayair mukhyair aṅgadaiḥ kuṇḍalaiḥ śubhaiḥ |

5.2५.२

सहेमसूत्रैर् मणिभिः केयूरैर् वलयैर् अपि ॥ (५।२)

sahemasūtrair maṇibhiḥ keyūrair valayair api ||

6.1६.१

अन्यैश् च रत्नैर् बहुभिः काकुत्स्थः प्रत्यपूजयत् । (६।१)

anyaiś ca ratnair bahubhiḥ kākutsthaḥ pratyapūjayat |

6.2६.२

सुयज्ञं स तदोवाच रामः सीताप्रचोदितः ॥ (६।२)

suyajñaṃ sa tadovāca rāmaḥ sītāpracoditaḥ ||

7.1७.१

हारं च हेमसूत्रं च भार्यायै सौम्य हारय । (७।१)

hāraṃ ca hemasūtraṃ ca bhāryāyai saumya hāraya |

7.2७.२

रशनां चाधुना सीता दातुम् इच्छति ते सखे ॥ (७।२)

raśanāṃ cādhunā sītā dātum icchati te sakhe ||

8.1८.१

पर्यङ्कम् अग्र्यास्तरणं नानारत्नविभूषितम् । (८।१)

paryaṅkam agryāstaraṇaṃ nānāratnavibhūṣitam |

8.2८.२

तम् अपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि ॥ (८।२)

tam apīcchati vaidehī pratiṣṭhāpayituṃ tvayi ||

9.1९.१

नागः शत्रुंजयो नाम मातुलो यं ददौ मम । (९।१)

nāgaḥ śatruṃjayo nāma mātulo yaṃ dadau mama |

9.2९.२

तं ते गजसहस्रेण ददामि द्विजपुंगव ॥ (९।२)

taṃ te gajasahasreṇa dadāmi dvijapuṃgava ||

10.1१०.१

इत्य् उक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत् । (१०।१)

ity uktaḥ sa hi rāmeṇa suyajñaḥ pratigṛhya tat |

10.2१०.२

रामलक्ष्मणसीतानां प्रयुयोजाशिषः शिवाः ॥ (१०।२)

rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ ||

11.1११.१

अथ भ्रातरम् अव्यग्रं प्रियं रामः प्रियंवदः । (११।१)

atha bhrātaram avyagraṃ priyaṃ rāmaḥ priyaṃvadaḥ |

11.2११.२

सौमित्रिं तम् उवाचेदं ब्रह्मेव त्रिदशेश्वरम् ॥ (११।२)

saumitriṃ tam uvācedaṃ brahmeva tridaśeśvaram ||

12.1१२.१

अगस्त्यं कौशिकं चैव ताव् उभौ ब्राह्मणोत्तमौ । (१२।१)

agastyaṃ kauśikaṃ caiva tāv ubhau brāhmaṇottamau |

12.2१२.२

अर्चयाहूय सौमित्रे रत्नैः सस्यम् इवाम्बुभिः ॥ (१२।२)

arcayāhūya saumitre ratnaiḥ sasyam ivāmbubhiḥ ||

13.1१३.१

कौसल्यां च य आशीर्भिर् भक्तः पर्युपतिष्ठति । (१३।१)

kausalyāṃ ca ya āśīrbhir bhaktaḥ paryupatiṣṭhati |

13.2१३.२

आचार्यस् तैत्तिरीयाणाम् अभिरूपश् च वेदवित् ॥ (१३।२)

ācāryas taittirīyāṇām abhirūpaś ca vedavit ||

14.1१४.१

तस्य यानं च दासीश् च सौमित्रे संप्रदापय । (१४।१)

tasya yānaṃ ca dāsīś ca saumitre saṃpradāpaya |

14.2१४.२

कौशेयानि च वस्त्राणि यावत् तुष्यति स द्विजः ॥ (१४।२)

kauśeyāni ca vastrāṇi yāvat tuṣyati sa dvijaḥ ||

15.1१५.१

सूतश् चित्ररथश् चार्यः सचिवः सुचिरोषितः । (१५।१)

sūtaś citrarathaś cāryaḥ sacivaḥ suciroṣitaḥ |

15.2१५.२

तोषयैनं महार्हैश् च रत्नैर् वस्त्रैर् धनैस् तथा ॥ (१५।२)

toṣayainaṃ mahārhaiś ca ratnair vastrair dhanais tathā ||

16.1१६.१

शालिवाहसहस्रं च द्वे शते भद्रकांस् तथा । (१६।१)

śālivāhasahasraṃ ca dve śate bhadrakāṃs tathā |

16.2१६.२

व्यञ्जनार्थं च सौमित्रे गोसहस्रम् उपाकुरु ॥ (१६।२)

vyañjanārthaṃ ca saumitre gosahasram upākuru ||

17.1१७.१

ततः स पुरुषव्याघ्रस् तद् धनं लक्ष्मणः स्वयम् । (१७।१)

tataḥ sa puruṣavyāghras tad dhanaṃ lakṣmaṇaḥ svayam |

17.2१७.२

यथोक्तं ब्राह्मणेन्द्राणाम् अददाद् धनदो यथा ॥ (१७।२)

yathoktaṃ brāhmaṇendrāṇām adadād dhanado yathā ||

18.1१८.१

अथाब्रवीद् बाष्पकलांस् तिष्ठतश् चोपजीविनः । (१८।१)

athābravīd bāṣpakalāṃs tiṣṭhataś copajīvinaḥ |

18.2१८.२

सम्प्रदाय बहु द्रव्यम् एकैकस्योपजीविनः ॥ (१८।२)

sampradāya bahu dravyam ekaikasyopajīvinaḥ ||

19.1१९.१

लक्ष्मणस्य च यद् वेश्म गृहं च यद् इदं मम । (१९।१)

lakṣmaṇasya ca yad veśma gṛhaṃ ca yad idaṃ mama |

19.2१९.२

अशून्यं कार्यम् एकैकं यावदागमनं मम ॥ (१९।२)

aśūnyaṃ kāryam ekaikaṃ yāvadāgamanaṃ mama ||

20.1२०.१

इत्य् उक्त्वा दुःखितं सर्वं जनं तम् उपजीविनम् । (२०।१)

ity uktvā duḥkhitaṃ sarvaṃ janaṃ tam upajīvinam |

20.2२०.२

उवाचेदं धनाध्यक्षं धनम् आनीयताम् इति । (२०।२)

uvācedaṃ dhanādhyakṣaṃ dhanam ānīyatām iti |

20.3२०.३

ततो ऽस्य धनम् आजह्रुः सर्वम् एवोपजीविनः ॥ (२०।३)

tato 'sya dhanam ājahruḥ sarvam evopajīvinaḥ ||

21.1२१.१

ततः स पुरुषव्याघ्रस् तद् धनं सहलक्ष्मणः । (२१।१)

tataḥ sa puruṣavyāghras tad dhanaṃ sahalakṣmaṇaḥ |

21.2२१.२

द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्यो ऽभ्यदापयत् ॥ (२१।२)

dvijebhyo bālavṛddhebhyaḥ kṛpaṇebhyo 'bhyadāpayat ||

22.1२२.१

तत्रासीत् पिङ्गलो गार्ग्यस् त्रिजटो नाम वै द्विजः । (२२।१)

tatrāsīt piṅgalo gārgyas trijaṭo nāma vai dvijaḥ |

22.2२२.२

आ पञ्चमायाः कक्ष्याया नैनं कश्चिद् अवारयत् ॥ (२२।२)

ā pañcamāyāḥ kakṣyāyā nainaṃ kaścid avārayat ||

23.1२३.१

स राजपुत्रम् आसाद्य त्रिजटो वाक्यम् अब्रवीत् । (२३।१)

sa rājaputram āsādya trijaṭo vākyam abravīt |

23.2२३.२

निर्धनो बहुपुत्रो ऽस्मि राजपुत्र महायशः । (२३।२)

nirdhano bahuputro 'smi rājaputra mahāyaśaḥ |

23.3२३.३

उञ्छवृत्तिर् वने नित्यं प्रत्यवेक्षस्व माम् इति ॥ (२३।३)

uñchavṛttir vane nityaṃ pratyavekṣasva mām iti ||

24.1२४.१

तम् उवाच ततो रामः परिहाससमन्वितम् । (२४।१)

tam uvāca tato rāmaḥ parihāsasamanvitam |

24.2२४.२

गवां सहस्रम् अप्य् एकं न तु विश्राणितं मया । (२४।२)

gavāṃ sahasram apy ekaṃ na tu viśrāṇitaṃ mayā |

24.3२४.३

परिक्षिपसि दण्डेन यावत् तावद् अवाप्स्यसि ॥ (२४।३)

parikṣipasi daṇḍena yāvat tāvad avāpsyasi ||

25.1२५.१

स शाटीं त्वरितः कट्यां संभ्रान्तः परिवेष्ट्य ताम् । (२५।१)

sa śāṭīṃ tvaritaḥ kaṭyāṃ saṃbhrāntaḥ pariveṣṭya tām |

25.2२५.२

आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः ॥ (२५।२)

āvidhya daṇḍaṃ cikṣepa sarvaprāṇena vegitaḥ ||

26.1२६.१

उवाच च ततो रामस् तं गार्ग्यम् अभिसान्त्वयन् । (२६।१)

uvāca ca tato rāmas taṃ gārgyam abhisāntvayan |

26.2२६.२

मन्युर् न खलु कर्तव्यः परिहासो ह्य् अयं मम ॥ (२६।२)

manyur na khalu kartavyaḥ parihāso hy ayaṃ mama ||

27.1२७.१

ततः सभार्यस् त्रिजटो महामुनिर् गवाम् अनीकं प्रतिगृह्य मोदितः । (२७।१)

tataḥ sabhāryas trijaṭo mahāmunir gavām anīkaṃ pratigṛhya moditaḥ |

27.2२७.२

यशोबलप्रीतिसुखोपबृंहिणीस् तद् आशिषः प्रत्यवदन् महात्मनः ॥ (२७।२)

yaśobalaprītisukhopabṛṃhiṇīs tad āśiṣaḥ pratyavadan mahātmanaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

Rām, 2, 29

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit