Rām, 6, 38
Select a line for its word-by-word analysis.
भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महाबलम् । (१।१)
bhartāraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam |
ते ऽस्य सर्वे हते रामे ऽज्ञानिनो ऽनृतवादिनः ॥ (२।२)
te 'sya sarve hate rāme 'jñānino 'nṛtavādinaḥ ||
यज्वनो महिषीं ये माम् ऊचुः पत्नीं च सत्त्रिणः । (३।१)
yajvano mahiṣīṃ ye mām ūcuḥ patnīṃ ca sattriṇaḥ |
ते ऽद्य सर्वे हते रामे ऽज्ञानिनो ऽनृतवादिनः ॥ (३।२)
te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ ||
वीरपार्थिवपत्नी त्वं ये धन्येति च मां विदुः । (४।१)
vīrapārthivapatnī tvaṃ ye dhanyeti ca māṃ viduḥ |
ते ऽद्य सर्वे हते रामे ऽज्ञानिनो ऽनृतवादिनः ॥ (४।२)
te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ ||
ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम् । (५।१)
ūcuḥ saṃśravaṇe ye māṃ dvijāḥ kārtāntikāḥ śubhām |
ते ऽद्य सर्वे हते रामे ऽज्ञानिनो ऽनृतवादिनः ॥ (५।२)
te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ ||
इमानि खलु पद्मानि पादयोर् यैः किल स्त्रियः । (६।१)
imāni khalu padmāni pādayor yaiḥ kila striyaḥ |
अधिराज्ये ऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह ॥ (६।२)
adhirājye 'bhiṣicyante narendraiḥ patibhiḥ saha ||
वैधव्यं यान्ति यैर् नार्यो ऽलक्षणैर् भाग्यदुर्लभाः । (७।१)
vaidhavyaṃ yānti yair nāryo 'lakṣaṇair bhāgyadurlabhāḥ |
सत्यानीमानि पद्मानि स्त्रीणाम् उक्तानि लक्षणे । (८।१)
satyānīmāni padmāni strīṇām uktāni lakṣaṇe |
केशाः सूक्ष्माः समा नीला भ्रुवौ चासंगते मम । (९।१)
keśāḥ sūkṣmāḥ samā nīlā bhruvau cāsaṃgate mama |
शङ्खे नेत्रे करौ पादौ गुल्फावूरू च मे चितौ । (१०।१)
śaṅkhe netre karau pādau gulphāvūrū ca me citau |
अनुवृत्ता नखाः स्निग्धाः समाश्चाङ्गुलयो मम ॥ (१०।२)
anuvṛttā nakhāḥ snigdhāḥ samāścāṅgulayo mama ||
मग्ना चोत्सङ्गिनी नाभिः पार्श्वोरस्कं च मे चितम् ॥ (११।२)
magnā cotsaṅginī nābhiḥ pārśvoraskaṃ ca me citam ||
प्रतिष्ठितां द्वादशभिर् माम् ऊचुः शुभलक्षणाम् ॥ (१२।२)
pratiṣṭhitāṃ dvādaśabhir mām ūcuḥ śubhalakṣaṇām ||
समग्रयवम् अच्छिद्रं पाणिपादं च वर्णवत् । (१३।१)
samagrayavam acchidraṃ pāṇipādaṃ ca varṇavat |
मन्दस्मितेत्येव च मां कन्यालक्षणिका विदुः ॥ (१३।२)
mandasmitetyeva ca māṃ kanyālakṣaṇikā viduḥ ||
अधिराज्ये ऽभिषेको मे ब्राह्मणैः पतिना सह । (१४।१)
adhirājye 'bhiṣeko me brāhmaṇaiḥ patinā saha |
कृतान्तकुशलैर् उक्तं तत् सर्वं वितथीकृतम् ॥ (१४।२)
kṛtāntakuśalair uktaṃ tat sarvaṃ vitathīkṛtam ||
शोधयित्वा जनस्थानं प्रवृत्तिम् उपलभ्य च । (१५।१)
śodhayitvā janasthānaṃ pravṛttim upalabhya ca |
तीर्त्वा सागरम् अक्षोभ्यं भ्रातरौ गोष्पदे हतौ ॥ (१५।२)
tīrtvā sāgaram akṣobhyaṃ bhrātarau goṣpade hatau ||
ननु वारुणम् आग्नेयम् ऐन्द्रं वायव्यम् एव च । (१६।१)
nanu vāruṇam āgneyam aindraṃ vāyavyam eva ca |
अस्त्रं ब्रह्मशिरश्चैव राघवौ प्रत्यपद्यताम् ॥ (१६।२)
astraṃ brahmaśiraścaiva rāghavau pratyapadyatām ||
न हि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः । (१८।१)
na hi dṛṣṭipathaṃ prāpya rāghavasya raṇe ripuḥ |
जीवन् प्रतिनिवर्तेत यद्यपि स्यान्मनोजवः ॥ (१८।२)
jīvan pratinivarteta yadyapi syānmanojavaḥ ||
न कालस्यातिभारो ऽस्ति कृतान्तश्च सुदुर्जयः । (१९।१)
na kālasyātibhāro 'sti kṛtāntaśca sudurjayaḥ |
यत्र रामः सह भ्रात्रा शेते युधि निपातितः ॥ (१९।२)
yatra rāmaḥ saha bhrātrā śete yudhi nipātitaḥ ||
नाहं शोचामि भर्तारं निहतं न च लक्ष्मणम् । (२०।१)
nāhaṃ śocāmi bhartāraṃ nihataṃ na ca lakṣmaṇam |
नात्मानं जननीं चापि यथा श्वश्रूं तपस्विनीम् ॥ (२०।२)
nātmānaṃ jananīṃ cāpi yathā śvaśrūṃ tapasvinīm ||
सा हि चिन्तयते नित्यं समाप्तव्रतम् आगतम् । (२१।१)
sā hi cintayate nityaṃ samāptavratam āgatam |
कदा द्रक्ष्यामि सीतां च रामं च सहलक्ष्मणम् ॥ (२१।२)
kadā drakṣyāmi sītāṃ ca rāmaṃ ca sahalakṣmaṇam ||
यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ ॥ (२३।२)
yathemau jīvato devi bhrātarau rāmalakṣmaṇau ||
भवन्ति युधि योधानां मुखानि निहते पतौ ॥ (२४।२)
bhavanti yudhi yodhānāṃ mukhāni nihate patau ||
दिव्यं त्वां धारयेन्नेदं यद्येतौ गजजीवितौ ॥ (२५।२)
divyaṃ tvāṃ dhārayennedaṃ yadyetau gajajīvitau ||
सेना भ्रमति संख्येषु हतकर्णेव नौर् जले ॥ (२६।२)
senā bhramati saṃkhyeṣu hatakarṇeva naur jale ||
इयं पुनर् असंभ्रान्ता निरुद्विग्ना तरस्विनी । (२७।१)
iyaṃ punar asaṃbhrāntā nirudvignā tarasvinī |
सेना रक्षति काकुत्स्थौ मायया निर्जितौ रणे ॥ (२७।२)
senā rakṣati kākutsthau māyayā nirjitau raṇe ||
सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः । (२८।१)
sā tvaṃ bhava suvisrabdhā anumānaiḥ sukhodayaiḥ |
अहतौ पश्य काकुत्स्थौ स्नेहाद् एतद् ब्रवीमि ते ॥ (२८।२)
ahatau paśya kākutsthau snehād etad bravīmi te ||
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन । (२९।१)
anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana |
नेमौ शक्यौ रणे जेतुं सेन्द्रैर् अपि सुरासुरैः । (३०।१)
nemau śakyau raṇe jetuṃ sendrair api surāsuraiḥ |
इदं च सुमहच्चिह्नं शनैः पश्यस्व मैथिलि । (३१।१)
idaṃ ca sumahaccihnaṃ śanaiḥ paśyasva maithili |
निःसंज्ञावप्युभावेतौ नैव लक्ष्मीर् वियुज्यते ॥ (३१।२)
niḥsaṃjñāvapyubhāvetau naiva lakṣmīr viyujyate ||
प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम् । (३२।१)
prāyeṇa gatasattvānāṃ puruṣāṇāṃ gatāyuṣām |
दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम् ॥ (३२।२)
dṛśyamāneṣu vaktreṣu paraṃ bhavati vaikṛtam ||
त्यज शोकं च दुःखं च मोहं च जनकात्मजे । (३३।१)
tyaja śokaṃ ca duḥkhaṃ ca mohaṃ ca janakātmaje |
रामलक्ष्मणयोर् अर्थे नाद्य शक्यम् अजीवितुम् ॥ (३३।२)
rāmalakṣmaṇayor arthe nādya śakyam ajīvitum ||
श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा । (३४।१)
śrutvā tu vacanaṃ tasyāḥ sītā surasutopamā |
कृताञ्जलिर् उवाचेदम् एवम् अस्त्विति मैथिली ॥ (३४।२)
kṛtāñjalir uvācedam evam astviti maithilī ||
विमानं पुष्पकं तत् तु संनिवर्त्य मनोजवम् । (३५।१)
vimānaṃ puṣpakaṃ tat tu saṃnivartya manojavam |
ततस्त्रिजटया सार्धं पुष्पकाद् अवरुह्य सा । (३६।१)
tatastrijaṭayā sārdhaṃ puṣpakād avaruhya sā |
प्रविश्य सीता बहुवृक्षषण्डां तां राक्षसेन्द्रस्य विहारभूमिम् । (३७।१)
praviśya sītā bahuvṛkṣaṣaṇḍāṃ tāṃ rākṣasendrasya vihārabhūmim |
सम्प्रेक्ष्य संचिन्त्य च राजपुत्रौ परं विषादं समुपाजगाम ॥ (३७।२)
samprekṣya saṃcintya ca rājaputrau paraṃ viṣādaṃ samupājagāma ||
Data courtesy of The Digital Corpus of Sanskrit.