Rām, 7, 63
Select a line for its word-by-word analysis.
मन्त्रिणो बलमुख्यांश्च निवर्त्य च पुरोधसं । (२।१)
mantriṇo balamukhyāṃśca nivartya ca purodhasaṃ |
स गत्वा गणितान् वासान् सप्ताष्टौ रघुनन्दनः । (३।१)
sa gatvā gaṇitān vāsān saptāṣṭau raghunandanaḥ |
स प्रविश्य पुरीं रम्यां श्रीमान् इक्ष्वाकुनन्दनः । (४।१)
sa praviśya purīṃ ramyāṃ śrīmān ikṣvākunandanaḥ |
सो ऽभिवाद्य महात्मानं ज्वलन्तम् इव तेजसा । (५।१)
so 'bhivādya mahātmānaṃ jvalantam iva tejasā |
उवाच प्राञ्जलिर् भूत्वा रामं सत्यपराक्रमम् ॥ (५।२)
uvāca prāñjalir bhūtvā rāmaṃ satyaparākramam ||
यद् आज्ञप्तं महाराज सर्वं तत् कृतवान् अहम् । (६।१)
yad ājñaptaṃ mahārāja sarvaṃ tat kṛtavān aham |
द्वादशं च गतं वर्षं त्वां विना रघुनन्दन । (७।१)
dvādaśaṃ ca gataṃ varṣaṃ tvāṃ vinā raghunandana |
मातृहीनो यथा वत्सस्त्वां विना प्रवसाम्यहम् ॥ (८।२)
mātṛhīno yathā vatsastvāṃ vinā pravasāmyaham ||
एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदम् अब्रवीत् । (९।१)
evaṃ bruvāṇaṃ śatrughnaṃ pariṣvajyedam abravīt |
मा विषादं कृथा वीर नैतत् क्षत्रियचेष्टितम् ॥ (९।२)
mā viṣādaṃ kṛthā vīra naitat kṣatriyaceṣṭitam ||
प्रजाश्च परिपाल्या हि क्षत्रधर्मेण राघव ॥ (१०।२)
prajāśca paripālyā hi kṣatradharmeṇa rāghava ||
काले काले च मां वीर अयोध्याम् अवलोकितुम् । (११।१)
kāle kāle ca māṃ vīra ayodhyām avalokitum |
आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव ॥ (११।२)
āgaccha tvaṃ naraśreṣṭha gantāsi ca puraṃ tava ||
ममापि त्वं सुदयितः प्राणैर् अपि न संशयः । (१२।१)
mamāpi tvaṃ sudayitaḥ prāṇair api na saṃśayaḥ |
तस्मात् त्वं वस काकुत्स्थ पञ्चरात्रं मया सह । (१३।१)
tasmāt tvaṃ vasa kākutstha pañcarātraṃ mayā saha |
ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः ॥ (१३।२)
ūrdhvaṃ gantāsi madhurāṃ sabhṛtyabalavāhanaḥ ||
रामस्यैतद् वचः श्रुत्वा धर्मयुक्तं मनोऽनुगम् । (१४।१)
rāmasyaitad vacaḥ śrutvā dharmayuktaṃ mano'nugam |
शत्रुघ्नो दीनया वाचा बाढम् इत्येव चाब्रवीत् ॥ (१४।२)
śatrughno dīnayā vācā bāḍham ityeva cābravīt ||
स पञ्चरात्रं काकुत्स्थो राघवस्य यथाज्ञया । (१५।१)
sa pañcarātraṃ kākutstho rāghavasya yathājñayā |
आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम् । (१६।१)
āmantrya tu mahātmānaṃ rāmaṃ satyaparākramam |
दूरं ताभ्याम् अनुगतो लक्ष्मणेन महात्मना । (१७।१)
dūraṃ tābhyām anugato lakṣmaṇena mahātmanā |
Data courtesy of The Digital Corpus of Sanskrit.