Rām, 2, 37
Select a line for its word-by-word analysis.
यावद् राजा प्रियं पुत्रं पश्यत्य् अत्यन्तधार्मिकम् । (२।१)
yāvad rājā priyaṃ putraṃ paśyaty atyantadhārmikam |
तावद् व्यवर्धतेवास्य धरण्यां पुत्रदर्शने ॥ (२।२)
tāvad vyavardhatevāsya dharaṇyāṃ putradarśane ||
न पश्यति रजो ऽप्य् अस्य यदा रामस्य भूमिपः । (३।१)
na paśyati rajo 'py asya yadā rāmasya bhūmipaḥ |
तस्य दक्षिणम् अन्वगात् कौसल्या बाहुम् अङ्गना । (४।१)
tasya dakṣiṇam anvagāt kausalyā bāhum aṅganā |
वामं चास्यान्वगात् पार्श्वं कैकेयी भरतप्रिया ॥ (४।२)
vāmaṃ cāsyānvagāt pārśvaṃ kaikeyī bharatapriyā ||
उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः ॥ (५।२)
uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ ||
कैकेयि मा ममाङ्गानि स्प्राक्षीस् त्वं दुष्टचारिणी । (६।१)
kaikeyi mā mamāṅgāni sprākṣīs tvaṃ duṣṭacāriṇī |
न हि त्वां द्रष्टुम् इच्छामि न भार्या न च बान्धवी ॥ (६।२)
na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī ||
ये च त्वाम् उपजीवन्ति नाहं तेषां न ते मम । (७।१)
ye ca tvām upajīvanti nāhaṃ teṣāṃ na te mama |
केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्य् अहम् ॥ (७।२)
kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham ||
अगृह्णां यच् च ते पाणिम् अग्निं पर्यणयं च यत् । (८।१)
agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat |
अनुजानामि तत् सर्वम् अस्मिंल् लोके परत्र च ॥ (८।२)
anujānāmi tat sarvam asmiṃl loke paratra ca ||
भरतश् चेत् प्रतीतः स्याद् राज्यं प्राप्येदम् अव्ययम् । (९।१)
bharataś cet pratītaḥ syād rājyaṃ prāpyedam avyayam |
यन् मे स दद्यात् पित्रर्थं मा मा तद् दत्तम् आगमत् ॥ (९।२)
yan me sa dadyāt pitrarthaṃ mā mā tad dattam āgamat ||
अथ रेणुसमुद्ध्वस्तं तम् उत्थाप्य नराधिपम् । (१०।१)
atha reṇusamuddhvastaṃ tam utthāpya narādhipam |
हत्वेव ब्राह्मणं कामात् स्पृष्ट्वाग्निम् इव पाणिना । (११।१)
hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnim iva pāṇinā |
अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य तापसम् ॥ (११।२)
anvatapyata dharmātmā putraṃ saṃcintya tāpasam ||
राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा ॥ (१२।२)
rājño nātibabhau rūpaṃ grastasyāṃśumato yathā ||
विललाप च दुःखार्तः प्रियं पुत्रम् अनुस्मरन् । (१३।१)
vilalāpa ca duḥkhārtaḥ priyaṃ putram anusmaran |
नगरान्तम् अनुप्राप्तं बुद्ध्वा पुत्रम् अथाब्रवीत् ॥ (१३।२)
nagarāntam anuprāptaṃ buddhvā putram athābravīt ||
वाहनानां च मुख्यानां वहतां तं ममात्मजम् । (१४।१)
vāhanānāṃ ca mukhyānāṃ vahatāṃ taṃ mamātmajam |
पदानि पथि दृश्यन्ते स महात्मा न दृश्यते ॥ (१४।२)
padāni pathi dṛśyante sa mahātmā na dṛśyate ||
स नूनं क्वचिद् एवाद्य वृक्षमूलम् उपाश्रितः । (१५।१)
sa nūnaṃ kvacid evādya vṛkṣamūlam upāśritaḥ |
काष्ठं वा यदि वाश्मानम् उपधाय शयिष्यते ॥ (१५।२)
kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate ||
उत्थास्यति च मेदिन्याः कृपणः पांशुगुण्ठितः । (१६।१)
utthāsyati ca medinyāḥ kṛpaṇaḥ pāṃśuguṇṭhitaḥ |
विनिःश्वसन् प्रस्रवणात् करेणूनाम् इवर्षभः ॥ (१६।२)
viniḥśvasan prasravaṇāt kareṇūnām ivarṣabhaḥ ||
द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः । (१७।१)
drakṣyanti nūnaṃ puruṣā dīrghabāhuṃ vanecarāḥ |
रामम् उत्थाय गच्छन्तं लोकनाथम् अनाथवत् ॥ (१७।२)
rāmam utthāya gacchantaṃ lokanātham anāthavat ||
न हि तं पुरुषव्याघ्रं विना जीवितुम् उत्सहे ॥ (१८।२)
na hi taṃ puruṣavyāghraṃ vinā jīvitum utsahe ||
क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम् ॥ (२०।२)
klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām ||
ताम् अवेक्ष्य पुरीं सर्वां रामम् एवानुचिन्तयन् । (२१।१)
tām avekṣya purīṃ sarvāṃ rāmam evānucintayan |
विलपन् प्राविशद् राजा गृहं सूर्य इवाम्बुदम् ॥ (२१।२)
vilapan prāviśad rājā gṛhaṃ sūrya ivāmbudam ||
महाह्रदम् इवाक्षोभ्यं सुपर्णेन हृतोरगम् । (२२।१)
mahāhradam ivākṣobhyaṃ suparṇena hṛtoragam |
रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च ॥ (२२।२)
rāmeṇa rahitaṃ veśma vaidehyā lakṣmaṇena ca ||
कौसल्याया गृहं शीघ्रं राममातुर् नयन्तु माम् । (२३।१)
kausalyāyā gṛhaṃ śīghraṃ rāmamātur nayantu mām |
इति ब्रुवन्तं राजानम् अनयन् द्वारदर्शिनः ॥ (२३।२)
iti bruvantaṃ rājānam anayan dvāradarśinaḥ ||
ततस् तत्र प्रविष्टस्य कौसल्याया निवेशनम् । (२४।१)
tatas tatra praviṣṭasya kausalyāyā niveśanam |
तच् च दृष्ट्वा महाराजो भुजम् उद्यम्य वीर्यवान् । (२५।१)
tac ca dṛṣṭvā mahārājo bhujam udyamya vīryavān |
उच्चैः स्वरेण चुक्रोश हा राघव जहासि माम् ॥ (२५।२)
uccaiḥ svareṇa cukrośa hā rāghava jahāsi mām ||
सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः । (२६।१)
sukhitā bata taṃ kālaṃ jīviṣyanti narottamāḥ |
परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनर् आगतम् ॥ (२६।२)
pariṣvajanto ye rāmaṃ drakṣyanti punar āgatam ||
न त्वां पश्यामि कौसल्ये साधु मां पाणिना स्पृश । (२७।१)
na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa |
रामं मे ऽनुगता दृष्टिर् अद्यापि न निवर्तते ॥ (२७।२)
rāmaṃ me 'nugatā dṛṣṭir adyāpi na nivartate ||
तं रामम् एवानुविचिन्तयन्तं समीक्ष्य देवी शयने नरेन्द्रम् । (२८।१)
taṃ rāmam evānuvicintayantaṃ samīkṣya devī śayane narendram |
उपोपविश्याधिकम् आर्तरूपा विनिःश्वसन्ती विललाप कृच्छ्रम् ॥ (२८।२)
upopaviśyādhikam ārtarūpā viniḥśvasantī vilalāpa kṛcchram ||
Data courtesy of The Digital Corpus of Sanskrit.