Rām, 2, 108
Select a line for its word-by-word analysis.
लक्षयामास सोद्वेगम् अथौत्सुक्यं तपस्विनाम् ॥ (१।२)
lakṣayāmāsa sodvegam athautsukyaṃ tapasvinām ||
रामम् आश्रित्य निरतास् तान् अलक्षयद् उत्सुकान् ॥ (२।२)
rāmam āśritya niratās tān alakṣayad utsukān ||
नयनैर् भृकुटीभिश् च रामं निर्दिश्य शङ्किताः । (३।१)
nayanair bhṛkuṭībhiś ca rāmaṃ nirdiśya śaṅkitāḥ |
अन्योन्यम् उपजल्पन्तः शनैश् चक्रुर् मिथः कथाः ॥ (३।२)
anyonyam upajalpantaḥ śanaiś cakrur mithaḥ kathāḥ ||
तेषाम् औत्सुक्यम् आलक्ष्य रामस् त्व् आत्मनि शङ्कितः । (४।१)
teṣām autsukyam ālakṣya rāmas tv ātmani śaṅkitaḥ |
न कच्चिद् भगवन् किंचित् पूर्ववृत्तम् इदं मयि । (५।१)
na kaccid bhagavan kiṃcit pūrvavṛttam idaṃ mayi |
प्रमादाच् चरितं कच्चित् किंचिन् नावरजस्य मे । (६।१)
pramādāc caritaṃ kaccit kiṃcin nāvarajasya me |
लक्ष्मणस्यर्षिभिर् दृष्टं नानुरूपम् इवात्मनः ॥ (६।२)
lakṣmaṇasyarṣibhir dṛṣṭaṃ nānurūpam ivātmanaḥ ||
प्रमदाभ्युचितां वृत्तिं सीता युक्तं न वर्तते ॥ (७।२)
pramadābhyucitāṃ vṛttiṃ sītā yuktaṃ na vartate ||
कुतः कल्याणसत्त्वायाः कल्याणाभिरतेस् तथा । (९।१)
kutaḥ kalyāṇasattvāyāḥ kalyāṇābhirates tathā |
त्वन्निमित्तम् इदं तावत् तापसान् प्रति वर्तते । (१०।१)
tvannimittam idaṃ tāvat tāpasān prati vartate |
रक्षोभ्यस् तेन संविग्नाः कथयन्ति मिथः कथाः ॥ (१०।२)
rakṣobhyas tena saṃvignāḥ kathayanti mithaḥ kathāḥ ||
उत्पाट्य तापसान् सर्वाञ्जनस्थाननिकेतनान् ॥ (११।२)
utpāṭya tāpasān sarvāñjanasthānaniketanān ||
अवलिप्तश् च पापश् च त्वां च तात न मृष्यते ॥ (१२।२)
avaliptaś ca pāpaś ca tvāṃ ca tāta na mṛṣyate ||
त्वं यदा प्रभृति ह्य् अस्मिन्न् आश्रमे तात वर्तसे । (१३।१)
tvaṃ yadā prabhṛti hy asminn āśrame tāta vartase |
तदा प्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ॥ (१३।२)
tadā prabhṛti rakṣāṃsi viprakurvanti tāpasān ||
दर्शयन्ति हि बीभत्सैः क्रूरैर् भीषणकैर् अपि । (१४।१)
darśayanti hi bībhatsaiḥ krūrair bhīṣaṇakair api |
नानारूपैर् विरूपैश् च रूपैर् असुखदर्शनैः ॥ (१४।२)
nānārūpair virūpaiś ca rūpair asukhadarśanaiḥ ||
अप्रशस्तैर् अशुचिभिः संप्रयोज्य च तापसान् । (१५।१)
apraśastair aśucibhiḥ saṃprayojya ca tāpasān |
प्रतिघ्नन्त्य् अपरान् क्षिप्रम् अनार्याः पुरतः स्थिताः ॥ (१५।२)
pratighnanty aparān kṣipram anāryāḥ purataḥ sthitāḥ ||
तेषु तेष्व् आश्रमस्थानेष्व् अबुद्धम् अवलीय च । (१६।१)
teṣu teṣv āśramasthāneṣv abuddham avalīya ca |
रमन्ते तापसांस् तत्र नाशयन्तो ऽल्पचेतसः ॥ (१६।२)
ramante tāpasāṃs tatra nāśayanto 'lpacetasaḥ ||
अपक्षिपन्ति स्रुग्भाण्डान् अग्नीन् सिञ्चन्ति वारिणा । (१७।१)
apakṣipanti srugbhāṇḍān agnīn siñcanti vāriṇā |
कलशांश् च प्रमृद्नन्ति हवने समुपस्थिते ॥ (१७।२)
kalaśāṃś ca pramṛdnanti havane samupasthite ||
तैर् दुरात्मभिर् आविष्टान् आश्रमान् प्रजिहासवः । (१८।१)
tair durātmabhir āviṣṭān āśramān prajihāsavaḥ |
गमनायान्यदेशस्य चोदयन्त्य् ऋषयो ऽद्य माम् ॥ (१८।२)
gamanāyānyadeśasya codayanty ṛṣayo 'dya mām ||
दर्शयन्ति हि दुष्टास् ते त्यक्ष्याम इमम् आश्रमम् ॥ (१९।२)
darśayanti hi duṣṭās te tyakṣyāma imam āśramam ||
पुराणाश्रमम् एवाहं श्रयिष्ये सगणः पुनः ॥ (२०।२)
purāṇāśramam evāhaṃ śrayiṣye sagaṇaḥ punaḥ ||
खरस् त्वय्य् अपि चायुक्तं पुरा तात प्रवर्तते । (२१।१)
kharas tvayy api cāyuktaṃ purā tāta pravartate |
सहास्माभिर् इतो गच्छ यदि बुद्धिः प्रवर्तते ॥ (२१।२)
sahāsmābhir ito gaccha yadi buddhiḥ pravartate ||
सकलत्रस्य संदेहो नित्यं यत् तस्य राघव । (२२।१)
sakalatrasya saṃdeho nityaṃ yat tasya rāghava |
समर्थस्यापि हि सतो वासो दुःखम् इहाद्य ते ॥ (२२।२)
samarthasyāpi hi sato vāso duḥkham ihādya te ||
इत्य् उक्तवन्तं रामस् तं राजपुत्रस् तपस्विनम् । (२३।१)
ity uktavantaṃ rāmas taṃ rājaputras tapasvinam |
न शशाकोत्तरैर् वाक्यैर् अवरोद्धुं समुत्सुकम् ॥ (२३।२)
na śaśākottarair vākyair avaroddhuṃ samutsukam ||
स जगामाश्रमं त्यक्त्वा कुलैः कुलपतिः सह ॥ (२४।२)
sa jagāmāśramaṃ tyaktvā kulaiḥ kulapatiḥ saha ||
रामः संसाध्य त्व् ऋषिगणम् अनुगमनाद् देशात् तस्मात् कुलपतिम् अभिवाद्यर्षिम् । (२५।१)
rāmaḥ saṃsādhya tv ṛṣigaṇam anugamanād deśāt tasmāt kulapatim abhivādyarṣim |
सम्यक्प्रीतैस् तैर् अनुमत उपदिष्टार्थः पुण्यं वासाय स्वनिलयम् उपसंपेदे ॥ (२५।२)
samyakprītais tair anumata upadiṣṭārthaḥ puṇyaṃ vāsāya svanilayam upasaṃpede ||
आश्रमं त्व् ऋषिविरहितं प्रभुः क्षणम् अपि न जहौ स राघवः । (२६।१)
āśramaṃ tv ṛṣivirahitaṃ prabhuḥ kṣaṇam api na jahau sa rāghavaḥ |
राघवं हि सततम् अनुगतास् तापसाश् चार्षचरितधृतगुणाः ॥ (२६।२)
rāghavaṃ hi satatam anugatās tāpasāś cārṣacaritadhṛtaguṇāḥ ||
Data courtesy of The Digital Corpus of Sanskrit.