Rām, 2, 94
Select a line for its word-by-word analysis.
आघ्राय रामस् तं मूर्ध्नि परिष्वज्य च राघवः । (१।१)
āghrāya rāmas taṃ mūrdhni pariṣvajya ca rāghavaḥ |
क्व नु ते ऽभूत् पिता तात यद् अरण्यं त्वम् आगतः । (२।१)
kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ |
न हि त्वं जीवतस् तस्य वनम् आगन्तुम् अर्हसि ॥ (२।२)
na hi tvaṃ jīvatas tasya vanam āgantum arhasi ||
दुष्प्रतीकम् अरण्ये ऽस्मिन् किं तात वनम् आगतः ॥ (३।२)
duṣpratīkam araṇye 'smin kiṃ tāta vanam āgataḥ ||
स कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः । (५।१)
sa kaccid brāhmaṇo vidvān dharmanityo mahādyutiḥ |
इक्ष्वाकूणाम् उपाध्यायो यथावत् तात पूज्यते ॥ (५।२)
ikṣvākūṇām upādhyāyo yathāvat tāta pūjyate ||
तात कच्चिच् च कौसल्या सुमित्रा च प्रजावती । (६।१)
tāta kaccic ca kausalyā sumitrā ca prajāvatī |
सुखिनी कच्चिद् आर्या च देवी नन्दति कैकयी ॥ (६।२)
sukhinī kaccid āryā ca devī nandati kaikayī ||
कच्चिद् अग्निषु ते युक्तो विधिज्ञो मतिमान् ऋजुः । (८।१)
kaccid agniṣu te yukto vidhijño matimān ṛjuḥ |
सुधन्वानम् उपाध्यायं कच्चित् त्वं तात मन्यसे ॥ (९।२)
sudhanvānam upādhyāyaṃ kaccit tvaṃ tāta manyase ||
कच्चिद् आत्मसमाः शूराः श्रुतवन्तो जितेन्द्रियाः । (१०।१)
kaccid ātmasamāḥ śūrāḥ śrutavanto jitendriyāḥ |
कुलीनाश् चेङ्गितज्ञाश् च कृतास् ते तात मन्त्रिणः ॥ (१०।२)
kulīnāś ceṅgitajñāś ca kṛtās te tāta mantriṇaḥ ||
मन्त्रो विजयमूलं हि राज्ञां भवति राघव । (११।१)
mantro vijayamūlaṃ hi rājñāṃ bhavati rāghava |
सुसंवृतो मन्त्रधरैर् अमात्यैः शास्त्रकोविदैः ॥ (११।२)
susaṃvṛto mantradharair amātyaiḥ śāstrakovidaiḥ ||
कच्चिन् निद्रावशं नैषि कच्चित् काले विबुध्यसे । (१२।१)
kaccin nidrāvaśaṃ naiṣi kaccit kāle vibudhyase |
कच्चिच् चापररात्रिषु चिन्तयस्य् अर्थनैपुणम् ॥ (१२।२)
kaccic cāpararātriṣu cintayasy arthanaipuṇam ||
कच्चिन् मन्त्रयसे नैकः कच्चिन् न बहुभिः सह । (१३।१)
kaccin mantrayase naikaḥ kaccin na bahubhiḥ saha |
कच्चित् ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ॥ (१३।२)
kaccit te mantrito mantro rāṣṭraṃ na paridhāvati ||
कच्चिद् अर्थं विनिश्चित्य लघुमूलं महोदयम् । (१४।१)
kaccid arthaṃ viniścitya laghumūlaṃ mahodayam |
क्षिप्रम् आरभसे कर्तुं न दीर्घयसि राघव ॥ (१४।२)
kṣipram ārabhase kartuṃ na dīrghayasi rāghava ||
कच्चित् तु सुकृतान्य् एव कृतरूपाणि वा पुनः । (१५।१)
kaccit tu sukṛtāny eva kṛtarūpāṇi vā punaḥ |
विदुस् ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः ॥ (१५।२)
vidus te sarvakāryāṇi na kartavyāni pārthivāḥ ||
कच्चिन् न तर्कैर् युक्त्वा वा ये चाप्य् अपरिकीर्तिताः । (१६।१)
kaccin na tarkair yuktvā vā ye cāpy aparikīrtitāḥ |
त्वया वा तव वामात्यैर् बुध्यते तात मन्त्रितम् ॥ (१६।२)
tvayā vā tava vāmātyair budhyate tāta mantritam ||
कच्चित् सहस्रान् मूर्खाणाम् एकम् इच्छसि पण्डितम् । (१७।१)
kaccit sahasrān mūrkhāṇām ekam icchasi paṇḍitam |
पण्डितो ह्य् अर्थकृच्छ्रेषु कुर्यान् निःश्रेयसं महत् ॥ (१७।२)
paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ mahat ||
सहस्राण्य् अपि मूर्खाणां यद्य् उपास्ते महीपतिः । (१८।१)
sahasrāṇy api mūrkhāṇāṃ yady upāste mahīpatiḥ |
एको ऽप्य् अमात्यो मेधावी शूरो दक्षो विचक्षणः । (१९।१)
eko 'py amātyo medhāvī śūro dakṣo vicakṣaṇaḥ |
राजानं राजमात्रं वा प्रापयेन् महतीं श्रियम् ॥ (१९।२)
rājānaṃ rājamātraṃ vā prāpayen mahatīṃ śriyam ||
कच्चिन् मुख्या महत्स्व् एव मध्यमेषु च मध्यमाः । (२०।१)
kaccin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ |
जघन्याश् च जघन्येषु भृत्याः कर्मसु योजिताः ॥ (२०।२)
jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ ||
अमात्यान् उपधातीतान् पितृपैतामहाञ् शुचीन् । (२१।१)
amātyān upadhātītān pitṛpaitāmahāñ śucīn |
श्रेष्ठाञ् श्रेष्ठेषु कच्चित् त्वं नियोजयसि कर्मसु ॥ (२१।२)
śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu ||
कच्चित् त्वां नावजानन्ति याजकाः पतितं यथा । (२२।१)
kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā |
उग्रप्रतिग्रहीतारं कामयानम् इव स्त्रियः ॥ (२२।२)
ugrapratigrahītāraṃ kāmayānam iva striyaḥ ||
शूरम् ऐश्वर्यकामं च यो न हन्ति स वध्यते ॥ (२३।२)
śūram aiśvaryakāmaṃ ca yo na hanti sa vadhyate ||
कच्चिद् धृष्टश् च शूरश् च धृतिमान् मतिमाञ् शुचिः । (२४।१)
kaccid dhṛṣṭaś ca śūraś ca dhṛtimān matimāñ śuciḥ |
कुलीनश् चानुरक्तश् च दक्षः सेनापतिः कृतः ॥ (२४।२)
kulīnaś cānuraktaś ca dakṣaḥ senāpatiḥ kṛtaḥ ||
बलवन्तश् च कच्चित् ते मुख्या युद्धविशारदाः । (२५।१)
balavantaś ca kaccit te mukhyā yuddhaviśāradāḥ |
दृष्टापदाना विक्रान्तास् त्वया सत्कृत्य मानिताः ॥ (२५।२)
dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ ||
कच्चिद् बलस्य भक्तं च वेतनं च यथोचितम् । (२६।१)
kaccid balasya bhaktaṃ ca vetanaṃ ca yathocitam |
सम्प्राप्तकालं दातव्यं ददासि न विलम्बसे ॥ (२६।२)
samprāptakālaṃ dātavyaṃ dadāsi na vilambase ||
कालातिक्रमणे ह्य् एव भक्तवेतनयोर् भृताः । (२७।१)
kālātikramaṇe hy eva bhaktavetanayor bhṛtāḥ |
भर्तुः कुप्यन्ति दुष्यन्ति सो ऽनर्थः सुमहान् स्मृतः ॥ (२७।२)
bhartuḥ kupyanti duṣyanti so 'narthaḥ sumahān smṛtaḥ ||
कच्चित् सर्वे ऽनुरक्तास् त्वां कुलपुत्राः प्रधानतः । (२८।१)
kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ |
कच्चित् प्राणांस् तवार्थेषु संत्यजन्ति समाहिताः ॥ (२८।२)
kaccit prāṇāṃs tavārtheṣu saṃtyajanti samāhitāḥ ||
कच्चिज् जानपदो विद्वान् दक्षिणः प्रतिभानवान् । (२९।१)
kaccij jānapado vidvān dakṣiṇaḥ pratibhānavān |
कच्चिद् अष्टादशान्य् एषु स्वपक्षे दश पञ्च च । (३०।१)
kaccid aṣṭādaśāny eṣu svapakṣe daśa pañca ca |
त्रिभिस् त्रिभिर् अविज्ञातैर् वेत्सि तीर्थानि चारकैः ॥ (३०।२)
tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ ||
कच्चिद् व्यपास्तान् अहितान् प्रतियातांश् च सर्वदा । (३१।१)
kaccid vyapāstān ahitān pratiyātāṃś ca sarvadā |
कच्चिन् न लोकायतिकान् ब्राह्मणांस् तात सेवसे । (३२।१)
kaccin na lokāyatikān brāhmaṇāṃs tāta sevase |
धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः । (३३।१)
dharmaśāstreṣu mukhyeṣu vidyamāneṣu durbudhāḥ |
बुद्धिमान् वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥ (३३।२)
buddhimān vīkṣikīṃ prāpya nirarthaṃ pravadanti te ||
वीरैर् अध्युषितां पूर्वम् अस्माकं तात पूर्वकैः । (३४।१)
vīrair adhyuṣitāṃ pūrvam asmākaṃ tāta pūrvakaiḥ |
सत्यनामां दृढद्वारां हस्त्यश्वरथसंकुलाम् ॥ (३४।२)
satyanāmāṃ dṛḍhadvārāṃ hastyaśvarathasaṃkulām ||
ब्राह्मणैः क्षत्रियैर् वैश्यैः स्वकर्मनिरतैः सदा । (३५।१)
brāhmaṇaiḥ kṣatriyair vaiśyaiḥ svakarmanirataiḥ sadā |
जितेन्द्रियैर् महोत्साहैर् वृताम् आर्यैः सहस्रशः ॥ (३५।२)
jitendriyair mahotsāhair vṛtām āryaiḥ sahasraśaḥ ||
प्रासादैर् विविधाकारैर् वृतां वैद्यजनाकुलाम् । (३६।१)
prāsādair vividhākārair vṛtāṃ vaidyajanākulām |
कच्चित् समुदितां स्फीताम् अयोध्यां परिरक्षसि ॥ (३६।२)
kaccit samuditāṃ sphītām ayodhyāṃ parirakṣasi ||
कच्चिच् चैत्यशतैर् जुष्टः सुनिविष्टजनाकुलः । (३७।१)
kaccic caityaśatair juṣṭaḥ suniviṣṭajanākulaḥ |
देवस्थानैः प्रपाभिश् च तडागैश् चोपशोभितः ॥ (३७।२)
devasthānaiḥ prapābhiś ca taḍāgaiś copaśobhitaḥ ||
सुकृष्टसीमा पशुमान् हिंसाभिर् परिवर्जितः ॥ (३८।२)
sukṛṣṭasīmā paśumān hiṃsābhir parivarjitaḥ ||
कच्चित् ते दयिताः सर्वे कृषिगोरक्षजीविनः । (४०।१)
kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ |
वार्त्तायां संश्रितस् तात लोको हि सुखम् एधते ॥ (४०।२)
vārttāyāṃ saṃśritas tāta loko hi sukham edhate ||
तेषां गुप्तिपरीहारैः कच्चित् ते भरणं कृतम् । (४१।१)
teṣāṃ guptiparīhāraiḥ kaccit te bharaṇaṃ kṛtam |
रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः ॥ (४१।२)
rakṣyā hi rājñā dharmeṇa sarve viṣayavāsinaḥ ||
कच्चित् स्त्रियः सान्त्वयसि कच्चित् ताश् च सुरक्षिताः । (४२।१)
kaccit striyaḥ sāntvayasi kaccit tāś ca surakṣitāḥ |
कच्चिन् न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे ॥ (४२।२)
kaccin na śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase ||
कच्चिन् नागवनं गुप्तं कुञ्जराणां च तृप्यसि । (४३।१)
kaccin nāgavanaṃ guptaṃ kuñjarāṇāṃ ca tṛpyasi |
कच्चिद् दर्शयसे नित्यं मनुष्याणां विभूषितम् । (४३।२)
kaccid darśayase nityaṃ manuṣyāṇāṃ vibhūṣitam |
उत्थायोत्थाय पूर्वाह्णे राजपुत्रो महापथे ॥ (४३।३)
utthāyotthāya pūrvāhṇe rājaputro mahāpathe ||
कच्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकैः । (४४।१)
kaccit sarvāṇi durgāṇi dhanadhānyāyudhodakaiḥ |
यन्त्रैश् च परिपूर्णानि तथा शिल्पिधनुर्धरैः ॥ (४४।२)
yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ ||
आयस् ते विपुलः कच्चित् कच्चिद् अल्पतरो व्ययः । (४५।१)
āyas te vipulaḥ kaccit kaccid alpataro vyayaḥ |
अपात्रेषु न ते कच्चित् कोशो गच्छति राघव ॥ (४५।२)
apātreṣu na te kaccit kośo gacchati rāghava ||
देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च । (४६।१)
devatārthe ca pitrarthe brāhmaṇābhyāgateṣu ca |
योधेषु मित्रवर्गेषु कच्चिद् गच्छति ते व्ययः ॥ (४६।२)
yodheṣu mitravargeṣu kaccid gacchati te vyayaḥ ||
कच्चिद् आर्यो विशुद्धात्माक्षारितश् चोरकर्मणा । (४७।१)
kaccid āryo viśuddhātmākṣāritaś corakarmaṇā |
अपृष्टः शास्त्रकुशलैर् न लोभाद् बध्यते शुचिः ॥ (४७।२)
apṛṣṭaḥ śāstrakuśalair na lobhād badhyate śuciḥ ||
गृहीतश् चैव पृष्टश् च काले दृष्टः सकारणः । (४८।१)
gṛhītaś caiva pṛṣṭaś ca kāle dṛṣṭaḥ sakāraṇaḥ |
कच्चिन् न मुच्यते चोरो धनलोभान् नरर्षभ ॥ (४८।२)
kaccin na mucyate coro dhanalobhān nararṣabha ||
व्यसने कच्चिद् आढ्यस्य दुर्गतस्य च राघव । (४९।१)
vyasane kaccid āḍhyasya durgatasya ca rāghava |
अर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः ॥ (४९।२)
arthaṃ virāgāḥ paśyanti tavāmātyā bahuśrutāḥ ||
यानि मिथ्याभिशस्तानां पतन्त्य् अस्राणि राघव । (५०।१)
yāni mithyābhiśastānāṃ patanty asrāṇi rāghava |
तानि पुत्रपशून् घ्नन्ति प्रीत्यर्थम् अनुशासतः ॥ (५०।२)
tāni putrapaśūn ghnanti prītyartham anuśāsataḥ ||
कच्चिद् वृद्धांश् च बालांश् च वैद्यमुख्यांश् च राघव । (५१।१)
kaccid vṛddhāṃś ca bālāṃś ca vaidyamukhyāṃś ca rāghava |
दानेन मनसा वाचा त्रिभिर् एतैर् बुभूषसे ॥ (५१।२)
dānena manasā vācā tribhir etair bubhūṣase ||
कच्चिद् गुरूंश् च वृद्धांश् च तापसान् देवतातिथीन् । (५२।१)
kaccid gurūṃś ca vṛddhāṃś ca tāpasān devatātithīn |
चैत्यांश् च सर्वान् सिद्धार्थान् ब्राह्मणांश् च नमस्यसि ॥ (५२।२)
caityāṃś ca sarvān siddhārthān brāhmaṇāṃś ca namasyasi ||
कच्चिद् अर्थेन वा धर्मं धर्मं धर्मेण वा पुनः । (५३।१)
kaccid arthena vā dharmaṃ dharmaṃ dharmeṇa vā punaḥ |
कच्चिद् अर्थं च धर्मं च कामं च जयतां वर । (५४।१)
kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara |
कच्चित् ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदाः । (५५।१)
kaccit te brāhmaṇāḥ śarma sarvaśāstrārthakovidāḥ |
नास्तिक्यम् अनृतं क्रोधं प्रमादं दीर्घसूत्रताम् । (५६।१)
nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām |
अदर्शनं ज्ञानवताम् आलस्यं पञ्चवृत्तिताम् ॥ (५६।२)
adarśanaṃ jñānavatām ālasyaṃ pañcavṛttitām ||
एकचिन्तनम् अर्थानाम् अनर्थज्ञैश् च मन्त्रणम् । (५७।१)
ekacintanam arthānām anarthajñaiś ca mantraṇam |
निश्चितानाम् अनारम्भं मन्त्रस्यापरिरक्षणम् ॥ (५७।२)
niścitānām anārambhaṃ mantrasyāparirakṣaṇam ||
मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वशः । (५८।१)
maṅgalasyāprayogaṃ ca pratyutthānaṃ ca sarvaśaḥ |
कच्चित् त्वं वर्जयस्य् एतान् राजदोषांश् चतुर्दश ॥ (५८।२)
kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa ||
कच्चित् स्वादुकृतं भोज्यम् एको नाश्नासि राघव । (५९।१)
kaccit svādukṛtaṃ bhojyam eko nāśnāsi rāghava |
कच्चिद् आशंसमानेभ्यो मित्रेभ्यः सम्प्रयच्छसि ॥ (५९।२)
kaccid āśaṃsamānebhyo mitrebhyaḥ samprayacchasi ||
Data courtesy of The Digital Corpus of Sanskrit.