रामायणRāmāyaṇa

Rām, 5, 46

370 of 606 · 118 verses

Select a line for its word-by-word analysis.

1.1१.१

ततस्तु रक्षोऽधिपतिर् महात्मा हनूमताक्षे निहते कुमारे । (१।१)

tatastu rakṣo'dhipatir mahātmā hanūmatākṣe nihate kumāre |

1.2१.२

मनः समाधाय तदेन्द्रकल्पं समादिदेशेन्द्रजितं स रोषात् ॥ (१।२)

manaḥ samādhāya tadendrakalpaṃ samādideśendrajitaṃ sa roṣāt ||

2.1२.१

त्वम् अस्त्रविच्छस्त्रभृतां वरिष्ठः सुरासुराणाम् अपि शोकदाता । (२।१)

tvam astravicchastrabhṛtāṃ variṣṭhaḥ surāsurāṇām api śokadātā |

2.2२.२

सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनसंचितास्त्रः ॥ (२।२)

sureṣu sendreṣu ca dṛṣṭakarmā pitāmahārādhanasaṃcitāstraḥ ||

3.1३.१

तवास्त्रबलम् आसाद्य नासुरा न मरुद्गणाः । (३।१)

tavāstrabalam āsādya nāsurā na marudgaṇāḥ |

3.2३.२

न कश्चित् त्रिषु लोकेषु संयुगे न गतश्रमः ॥ (३।२)

na kaścit triṣu lokeṣu saṃyuge na gataśramaḥ ||

4.1४.१

भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः । (४।१)

bhujavīryābhiguptaśca tapasā cābhirakṣitaḥ |

4.2४.२

देशकालविभागज्ञस्त्वम् एव मतिसत्तमः ॥ (४।२)

deśakālavibhāgajñastvam eva matisattamaḥ ||

5.1५.१

न ते ऽस्त्यशक्यं समरेषु कर्मणा न ते ऽस्त्यकार्यं मतिपूर्वमन्त्रणे । (५।१)

na te 'styaśakyaṃ samareṣu karmaṇā na te 'styakāryaṃ matipūrvamantraṇe |

5.2५.२

न सो ऽस्ति कश्चित् त्रिषु संग्रहेषु वै न वेद यस्ते ऽस्त्रबलं बलं च ते ॥ (५।२)

na so 'sti kaścit triṣu saṃgraheṣu vai na veda yaste 'strabalaṃ balaṃ ca te ||

6.1६.१

ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगे । (६।१)

mamānurūpaṃ tapaso balaṃ ca te parākramaścāstrabalaṃ ca saṃyuge |

6.2६.२

न त्वां समासाद्य रणावमर्दे मनः श्रमं गच्छति निश्चितार्थम् ॥ (६।२)

na tvāṃ samāsādya raṇāvamarde manaḥ śramaṃ gacchati niścitārtham ||

7.1७.१

निहताः किंकराः सर्वे जम्बुमाली च राक्षसः । (७।१)

nihatāḥ kiṃkarāḥ sarve jambumālī ca rākṣasaḥ |

7.2७.२

अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः ॥ (७।२)

amātyaputrā vīrāśca pañca senāgrayāyinaḥ ||

8.1८.१

सहोदरस्ते दयितः कुमारो ऽक्षश्च सूदितः । (८।१)

sahodaraste dayitaḥ kumāro 'kṣaśca sūditaḥ |

8.2८.२

न तु तेष्वेव मे सारो यस्त्वय्यरिनिषूदन ॥ (८।२)

na tu teṣveva me sāro yastvayyariniṣūdana ||

9.1९.१

इदं हि दृष्ट्वा मतिमन्महद् बलं कपेः प्रभावं च पराक्रमं च । (९।१)

idaṃ hi dṛṣṭvā matimanmahad balaṃ kapeḥ prabhāvaṃ ca parākramaṃ ca |

9.2९.२

त्वम् आत्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम् ॥ (९।२)

tvam ātmanaścāpi samīkṣya sāraṃ kuruṣva vegaṃ svabalānurūpam ||

10.1१०.१

बलावमर्दस्त्वयि संनिकृष्टे यथा गते शाम्यति शान्तशत्रौ । (१०।१)

balāvamardastvayi saṃnikṛṣṭe yathā gate śāmyati śāntaśatrau |

10.2१०.२

तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रविदां वरिष्ठ ॥ (१०।२)

tathā samīkṣyātmabalaṃ paraṃ ca samārabhasvāstravidāṃ variṣṭha ||

11.1११.१

न खल्वियं मतिः श्रेष्ठा यत् त्वां संप्रेषयाम्यहम् । (११।१)

na khalviyaṃ matiḥ śreṣṭhā yat tvāṃ saṃpreṣayāmyaham |

11.2११.२

इयं च राजधर्माणां क्षत्रस्य च मतिर् मता ॥ (११।२)

iyaṃ ca rājadharmāṇāṃ kṣatrasya ca matir matā ||

12.1१२.१

नानाशस्त्रैश्च संग्रामे वैशारद्यम् अरिंदम । (१२।१)

nānāśastraiśca saṃgrāme vaiśāradyam ariṃdama |

12.2१२.२

अवश्यम् एव बोद्धव्यं काम्यश्च विजयो रणे ॥ (१२।२)

avaśyam eva boddhavyaṃ kāmyaśca vijayo raṇe ||

13.1१३.१

ततः पितुस्तद् वचनं निशम्य प्रदक्षिणं दक्षसुतप्रभावः । (१३।१)

tataḥ pitustad vacanaṃ niśamya pradakṣiṇaṃ dakṣasutaprabhāvaḥ |

13.2१३.२

चकार भर्तारम् अदीनसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः ॥ (१३।२)

cakāra bhartāram adīnasattvo raṇāya vīraḥ pratipannabuddhiḥ ||

14.1१४.१

ततस्तैः स्वगणैर् इष्टैर् इन्द्रजित् प्रतिपूजितः । (१४।१)

tatastaiḥ svagaṇair iṣṭair indrajit pratipūjitaḥ |

14.2१४.२

युद्धोद्धतकृतोत्साहः संग्रामं प्रतिपद्यत ॥ (१४।२)

yuddhoddhatakṛtotsāhaḥ saṃgrāmaṃ pratipadyata ||

15.1१५.१

श्रीमान् पद्मपलाशाक्षो राक्षसाधिपतेः सुतः । (१५।१)

śrīmān padmapalāśākṣo rākṣasādhipateḥ sutaḥ |

15.2१५.२

निर्जगाम महातेजाः समुद्र इव पर्वसु ॥ (१५।२)

nirjagāma mahātejāḥ samudra iva parvasu ||

16.1१६.१

स पक्षिराजोपमतुल्यवेगैर् व्यालैश्चतुर्भिः सिततीक्ष्णदंष्ट्रैः । (१६।१)

sa pakṣirājopamatulyavegair vyālaiścaturbhiḥ sitatīkṣṇadaṃṣṭraiḥ |

16.2१६.२

रथं समायुक्तम् असंगवेगं समारुरोहेन्द्रजिद् इन्द्रकल्पः ॥ (१६।२)

rathaṃ samāyuktam asaṃgavegaṃ samārurohendrajid indrakalpaḥ ||

17.1१७.१

स रथी धन्विनां श्रेष्ठः शस्त्रज्ञो ऽस्त्रविदां वरः । (१७।१)

sa rathī dhanvināṃ śreṣṭhaḥ śastrajño 'stravidāṃ varaḥ |

17.2१७.२

रथेनाभिययौ क्षिप्रं हनूमान् यत्र सो ऽभवत् ॥ (१७।२)

rathenābhiyayau kṣipraṃ hanūmān yatra so 'bhavat ||

18.1१८.१

स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च । (१८।१)

sa tasya rathanirghoṣaṃ jyāsvanaṃ kārmukasya ca |

18.2१८.२

निशम्य हरिवीरो ऽसौ सम्प्रहृष्टतरो ऽभवत् ॥ (१८।२)

niśamya harivīro 'sau samprahṛṣṭataro 'bhavat ||

19.1१९.१

सुमहच्चापम् आदाय शितशल्यांश्च सायकान् । (१९।१)

sumahaccāpam ādāya śitaśalyāṃśca sāyakān |

19.2१९.२

हनूमन्तम् अभिप्रेत्य जगाम रणपण्डितः ॥ (१९।२)

hanūmantam abhipretya jagāma raṇapaṇḍitaḥ ||

20.1२०.१

तस्मिंस्ततः संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ । (२०।१)

tasmiṃstataḥ saṃyati jātaharṣe raṇāya nirgacchati bāṇapāṇau |

20.2२०.२

दिशश्च सर्वाः कलुषा बभूवुर् मृगाश्च रौद्रा बहुधा विनेदुः ॥ (२०।२)

diśaśca sarvāḥ kaluṣā babhūvur mṛgāśca raudrā bahudhā vineduḥ ||

21.1२१.१

समागतास्तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः । (२१।१)

samāgatāstatra tu nāgayakṣā maharṣayaścakracarāśca siddhāḥ |

21.2२१.२

नभः समावृत्य च पक्षिसंघा विनेदुर् उच्चैः परमप्रहृष्टाः ॥ (२१।२)

nabhaḥ samāvṛtya ca pakṣisaṃghā vinedur uccaiḥ paramaprahṛṣṭāḥ ||

22.1२२.१

आयन्तं सरथं दृष्ट्वा तूर्णम् इन्द्रजितं कपिः । (२२।१)

āyantaṃ sarathaṃ dṛṣṭvā tūrṇam indrajitaṃ kapiḥ |

22.2२२.२

विननाद महानादं व्यवर्धत च वेगवान् ॥ (२२।२)

vinanāda mahānādaṃ vyavardhata ca vegavān ||

23.1२३.१

इन्द्रजित् तु रथं दिव्यम् आस्थितश्चित्रकार्मुकः । (२३।१)

indrajit tu rathaṃ divyam āsthitaścitrakārmukaḥ |

23.2२३.२

धनुर् विस्फारयामास तडिदूर्जितनिःस्वनम् ॥ (२३।२)

dhanur visphārayāmāsa taḍidūrjitaniḥsvanam ||

24.1२४.१

ततः समेतावतितीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्कौ । (२४।१)

tataḥ sametāvatitīkṣṇavegau mahābalau tau raṇanirviśaṅkau |

24.2२४.२

कपिश्च रक्षोऽधिपतेश्च पुत्रः सुरासुरेन्द्राविव बद्धवैरौ ॥ (२४।२)

kapiśca rakṣo'dhipateśca putraḥ surāsurendrāviva baddhavairau ||

25.1२५.१

स तस्य वीरस्य महारथस्य धनुष्मतः संयति संमतस्य । (२५।१)

sa tasya vīrasya mahārathasya dhanuṣmataḥ saṃyati saṃmatasya |

25.2२५.२

शरप्रवेगं व्यहनत् प्रवृद्धश् चचार मार्गे पितुर् अप्रमेयः ॥ (२५।२)

śarapravegaṃ vyahanat pravṛddhaś cacāra mārge pitur aprameyaḥ ||

26.1२६.१

ततः शरान् आयततीक्ष्णशल्यान् सुपत्रिणः काञ्चनचित्रपुङ्खान् । (२६।१)

tataḥ śarān āyatatīkṣṇaśalyān supatriṇaḥ kāñcanacitrapuṅkhān |

26.2२६.२

मुमोच वीरः परवीरहन्ता सुसंततान् वज्रनिपातवेगान् ॥ (२६।२)

mumoca vīraḥ paravīrahantā susaṃtatān vajranipātavegān ||

27.1२७.१

स तस्य तत् स्यन्दननिःस्वनं च मृदङ्गभेरीपटहस्वनं च । (२७।१)

sa tasya tat syandananiḥsvanaṃ ca mṛdaṅgabherīpaṭahasvanaṃ ca |

27.2२७.२

विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनर् उत्पपात ॥ (२७।२)

vikṛṣyamāṇasya ca kārmukasya niśamya ghoṣaṃ punar utpapāta ||

28.1२८.१

शराणाम् अन्तरेष्वाशु व्यवर्तत महाकपिः । (२८।१)

śarāṇām antareṣvāśu vyavartata mahākapiḥ |

28.2२८.२

हरिस्तस्याभिलक्षस्य मोक्षयंल् लक्ष्यसंग्रहम् ॥ (२८।२)

haristasyābhilakṣasya mokṣayaṃl lakṣyasaṃgraham ||

29.1२९.१

शराणाम् अग्रतस्तस्य पुनः समभिवर्तत । (२९।१)

śarāṇām agratastasya punaḥ samabhivartata |

29.2२९.२

प्रसार्य हस्तौ हनुमान् उत्पपातानिलात्मजः ॥ (२९।२)

prasārya hastau hanumān utpapātānilātmajaḥ ||

30.1३०.१

तावुभौ वेगसम्पन्नौ रणकर्मविशारदौ । (३०।१)

tāvubhau vegasampannau raṇakarmaviśāradau |

30.2३०.२

सर्वभूतमनोग्राहि चक्रतुर् युद्धम् उत्तमम् ॥ (३०।२)

sarvabhūtamanogrāhi cakratur yuddham uttamam ||

31.1३१.१

हनूमतो वेद न राक्षसो ऽन्तरं न मारुतिस्तस्य महात्मनो ऽन्तरम् । (३१।१)

hanūmato veda na rākṣaso 'ntaraṃ na mārutistasya mahātmano 'ntaram |

31.2३१.२

परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ ॥ (३१।२)

parasparaṃ nirviṣahau babhūvatuḥ sametya tau devasamānavikramau ||

32.1३२.१

ततस्तु लक्ष्ये स विहन्यमाने शरेषु मोघेषु च संपतत्सु । (३२।१)

tatastu lakṣye sa vihanyamāne śareṣu mogheṣu ca saṃpatatsu |

32.2३२.२

जगाम चिन्तां महतीं महात्मा समाधिसंयोगसमाहितात्मा ॥ (३२।२)

jagāma cintāṃ mahatīṃ mahātmā samādhisaṃyogasamāhitātmā ||

33.1३३.१

ततो मतिं राक्षसराजसूनुश् चकार तस्मिन् हरिवीरमुख्ये । (३३।१)

tato matiṃ rākṣasarājasūnuś cakāra tasmin harivīramukhye |

33.2३३.२

अवध्यतां तस्य कपेः समीक्ष्य कथं निगच्छेद् इति निग्रहार्थम् ॥ (३३।२)

avadhyatāṃ tasya kapeḥ samīkṣya kathaṃ nigacched iti nigrahārtham ||

34.1३४.१

ततः पैतामहं वीरः सो ऽस्त्रम् अस्त्रविदां वरः । (३४।१)

tataḥ paitāmahaṃ vīraḥ so 'stram astravidāṃ varaḥ |

34.2३४.२

संदधे सुमहातेजास्तं हरिप्रवरं प्रति ॥ (३४।२)

saṃdadhe sumahātejāstaṃ haripravaraṃ prati ||

35.1३५.१

अवध्यो ऽयम् इति ज्ञात्वा तम् अस्त्रेणास्त्रतत्त्ववित् । (३५।१)

avadhyo 'yam iti jñātvā tam astreṇāstratattvavit |

35.2३५.२

निजग्राह महाबाहुर् मारुतात्मजम् इन्द्रजित् ॥ (३५।२)

nijagrāha mahābāhur mārutātmajam indrajit ||

36.1३६.१

तेन बद्धस्ततो ऽस्त्रेण राक्षसेन स वानरः । (३६।१)

tena baddhastato 'streṇa rākṣasena sa vānaraḥ |

36.2३६.२

अभवन्निर्विचेष्टश्च पपात च महीतले ॥ (३६।२)

abhavannirviceṣṭaśca papāta ca mahītale ||

37.1३७.१

ततो ऽथ बुद्ध्वा स तदास्त्रबन्धं प्रभोः प्रभावाद् विगताल्पवेगः । (३७।१)

tato 'tha buddhvā sa tadāstrabandhaṃ prabhoḥ prabhāvād vigatālpavegaḥ |

37.2३७.२

पितामहानुग्रहम् आत्मनश्च विचिन्तयामास हरिप्रवीरः ॥ (३७।२)

pitāmahānugraham ātmanaśca vicintayāmāsa haripravīraḥ ||

38.1३८.१

ततः स्वायम्भुवैर् मन्त्रैर् ब्रह्मास्त्रम् अभिमन्त्रितम् । (३८।१)

tataḥ svāyambhuvair mantrair brahmāstram abhimantritam |

38.2३८.२

हनूमांश्चिन्तयामास वरदानं पितामहात् ॥ (३८।२)

hanūmāṃścintayāmāsa varadānaṃ pitāmahāt ||

39.1३९.१

न मे ऽस्त्रबन्धस्य च शक्तिर् अस्ति विमोक्षणे लोकगुरोः प्रभावात् । (३९।१)

na me 'strabandhasya ca śaktir asti vimokṣaṇe lokaguroḥ prabhāvāt |

39.2३९.२

इत्येवम् एवंविहितो ऽस्त्रबन्धो मयात्मयोनेर् अनुवर्तितव्यः ॥ (३९।२)

ityevam evaṃvihito 'strabandho mayātmayoner anuvartitavyaḥ ||

40.1४०.१

स वीर्यम् अस्त्रस्य कपिर् विचार्य पितामहानुग्रहम् आत्मनश्च । (४०।१)

sa vīryam astrasya kapir vicārya pitāmahānugraham ātmanaśca |

40.2४०.२

विमोक्षशक्तिं परिचिन्तयित्वा पितामहाज्ञाम् अनुवर्तते स्म ॥ (४०।२)

vimokṣaśaktiṃ paricintayitvā pitāmahājñām anuvartate sma ||

41.1४१.१

अस्त्रेणापि हि बद्धस्य भयं मम न जायते । (४१।१)

astreṇāpi hi baddhasya bhayaṃ mama na jāyate |

41.2४१.२

पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च ॥ (४१।२)

pitāmahamahendrābhyāṃ rakṣitasyānilena ca ||

42.1४२.१

ग्रहणे चापि रक्षोभिर् महन्मे गुणदर्शनम् । (४२।१)

grahaṇe cāpi rakṣobhir mahanme guṇadarśanam |

42.2४२.२

राक्षसेन्द्रेण संवादस्तस्माद् गृह्णन्तु मां परे ॥ (४२।२)

rākṣasendreṇa saṃvādastasmād gṛhṇantu māṃ pare ||

43.1४३.१

स निश्चितार्थः परवीरहन्ता समीक्ष्यकारी विनिवृत्तचेष्टः । (४३।१)

sa niścitārthaḥ paravīrahantā samīkṣyakārī vinivṛttaceṣṭaḥ |

43.2४३.२

परैः प्रसह्याभिगतैर् निगृह्य ननाद तैस्तैः परिभर्त्स्यमानः ॥ (४३।२)

paraiḥ prasahyābhigatair nigṛhya nanāda taistaiḥ paribhartsyamānaḥ ||

44.1४४.१

ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टम् अरिंदमम् । (४४।१)

tatastaṃ rākṣasā dṛṣṭvā nirviceṣṭam ariṃdamam |

44.2४४.२

बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः ॥ (४४।२)

babandhuḥ śaṇavalkaiśca drumacīraiśca saṃhataiḥ ||

45.1४५.१

स रोचयामास परैश्च बन्धनं प्रसह्य वीरैर् अभिनिग्रहं च । (४५।१)

sa rocayāmāsa paraiśca bandhanaṃ prasahya vīrair abhinigrahaṃ ca |

45.2४५.२

कौतूहलान्मां यदि राक्षसेन्द्रो द्रष्टुं व्यवस्येद् इति निश्चितार्थः ॥ (४५।२)

kautūhalānmāṃ yadi rākṣasendro draṣṭuṃ vyavasyed iti niścitārthaḥ ||

46.1४६.१

स बद्धस्तेन वल्केन विमुक्तो ऽस्त्रेण वीर्यवान् । (४६।१)

sa baddhastena valkena vimukto 'streṇa vīryavān |

46.2४६.२

अस्त्रबन्धः स चान्यं हि न बन्धम् अनुवर्तते ॥ (४६।२)

astrabandhaḥ sa cānyaṃ hi na bandham anuvartate ||

47.1४७.१

अथेन्द्रजित् तं द्रुमचीरबन्धं विचार्य वीरः कपिसत्तमं तम् । (४७।१)

athendrajit taṃ drumacīrabandhaṃ vicārya vīraḥ kapisattamaṃ tam |

47.2४७.२

विमुक्तम् अस्त्रेण जगाम चिन्ताम् अन्येन बद्धो ह्यनुवर्तते ऽस्त्रम् ॥ (४७।२)

vimuktam astreṇa jagāma cintām anyena baddho hyanuvartate 'stram ||

48.1४८.१

अहो महत् कर्म कृतं निरर्थकं न राक्षसैर् मन्त्रगतिर् विमृष्टा । (४८।१)

aho mahat karma kṛtaṃ nirarthakaṃ na rākṣasair mantragatir vimṛṣṭā |

48.2४८.२

पुनश्च नास्त्रे विहते ऽस्त्रम् अन्यत् प्रवर्तते संशयिताः स्म सर्वे ॥ (४८।२)

punaśca nāstre vihate 'stram anyat pravartate saṃśayitāḥ sma sarve ||

49.1४९.१

अस्त्रेण हनुमान्मुक्तो नात्मानम् अवबुध्यते । (४९।१)

astreṇa hanumānmukto nātmānam avabudhyate |

49.2४९.२

कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धैर् निपीडितः ॥ (४९।२)

kṛṣyamāṇastu rakṣobhistaiśca bandhair nipīḍitaḥ ||

50.1५०.१

हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः । (५०।१)

hanyamānastataḥ krūrai rākṣasaiḥ kāṣṭhamuṣṭibhiḥ |

50.2५०.२

समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः ॥ (५०।२)

samīpaṃ rākṣasendrasya prākṛṣyata sa vānaraḥ ||

51.1५१.१

अथेन्द्रजित् तं प्रसमीक्ष्य मुक्तम् अस्त्रेण बद्धं द्रुमचीरसूत्रैः । (५१।१)

athendrajit taṃ prasamīkṣya muktam astreṇa baddhaṃ drumacīrasūtraiḥ |

51.2५१.२

व्यदर्शयत् तत्र महाबलं तं हरिप्रवीरं सगणाय राज्ञे ॥ (५१।२)

vyadarśayat tatra mahābalaṃ taṃ haripravīraṃ sagaṇāya rājñe ||

52.1५२.१

तं मत्तम् इव मातङ्गं बद्धं कपिवरोत्तमम् । (५२।१)

taṃ mattam iva mātaṅgaṃ baddhaṃ kapivarottamam |

52.2५२.२

राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥ (५२।२)

rākṣasā rākṣasendrāya rāvaṇāya nyavedayan ||

53.1५३.१

को ऽयं कस्य कुतो वापि किं कार्यं को व्यपाश्रयः । (५३।१)

ko 'yaṃ kasya kuto vāpi kiṃ kāryaṃ ko vyapāśrayaḥ |

53.2५३.२

इति राक्षसवीराणां तत्र संजज्ञिरे कथाः ॥ (५३।२)

iti rākṣasavīrāṇāṃ tatra saṃjajñire kathāḥ ||

54.1५४.१

हन्यतां दह्यतां वापि भक्ष्यताम् इति चापरे । (५४।१)

hanyatāṃ dahyatāṃ vāpi bhakṣyatām iti cāpare |

54.2५४.२

राक्षसास्तत्र संक्रुद्धाः परस्परम् अथाब्रुवन् ॥ (५४।२)

rākṣasāstatra saṃkruddhāḥ parasparam athābruvan ||

55.1५५.१

अतीत्य मार्गं सहसा महात्मा स तत्र रक्षोऽधिपपादमूले । (५५।१)

atītya mārgaṃ sahasā mahātmā sa tatra rakṣo'dhipapādamūle |

55.2५५.२

ददर्श राज्ञः परिचारवृद्धान् गृहं महारत्नविभूषितं च ॥ (५५।२)

dadarśa rājñaḥ paricāravṛddhān gṛhaṃ mahāratnavibhūṣitaṃ ca ||

56.1५६.१

स ददर्श महातेजा रावणः कपिसत्तमम् । (५६।१)

sa dadarśa mahātejā rāvaṇaḥ kapisattamam |

56.2५६.२

रक्षोभिर् विकृताकारैः कृष्यमाणम् इतस्ततः ॥ (५६।२)

rakṣobhir vikṛtākāraiḥ kṛṣyamāṇam itastataḥ ||

57.1५७.१

राक्षसाधिपतिं चापि ददर्श कपिसत्तमः । (५७।१)

rākṣasādhipatiṃ cāpi dadarśa kapisattamaḥ |

57.2५७.२

तेजोबलसमायुक्तं तपन्तम् इव भास्करम् ॥ (५७।२)

tejobalasamāyuktaṃ tapantam iva bhāskaram ||

58.1५८.१

स रोषसंवर्तितताम्रदृष्टिर् दशाननस्तं कपिम् अन्ववेक्ष्य । (५८।१)

sa roṣasaṃvartitatāmradṛṣṭir daśānanastaṃ kapim anvavekṣya |

58.2५८.२

अथोपविष्टान् कुलशीलवृद्धान् समादिशत् तं प्रति मन्त्रमुख्यान् ॥ (५८।२)

athopaviṣṭān kulaśīlavṛddhān samādiśat taṃ prati mantramukhyān ||

59.1५९.१

यथाक्रमं तैः स कपिश्च पृष्टः कार्यार्थम् अर्थस्य च मूलम् आदौ । (५९।१)

yathākramaṃ taiḥ sa kapiśca pṛṣṭaḥ kāryārtham arthasya ca mūlam ādau |

59.2५९.२

निवेदयामास हरीश्वरस्य दूतः सकाशाद् अहम् आगतो ऽस्मि ॥ (५९।२)

nivedayāmāsa harīśvarasya dūtaḥ sakāśād aham āgato 'smi ||

Data courtesy of The Digital Corpus of Sanskrit.

Rām, 5, 46

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit