Rām, 3, 53
Select a line for its word-by-word analysis.
संदिश्य राक्षसान् घोरान् रावणो ऽष्टौ महाबलान् । (१।१)
saṃdiśya rākṣasān ghorān rāvaṇo 'ṣṭau mahābalān |
आत्मानं बुद्धिवैक्लव्यात् कृतकृत्यम् अमन्यत ॥ (१।२)
ātmānaṃ buddhivaiklavyāt kṛtakṛtyam amanyata ||
प्रविवेश गृहं रम्यं सीतां द्रष्टुम् अभित्वरन् ॥ (२।२)
praviveśa gṛhaṃ ramyaṃ sītāṃ draṣṭum abhitvaran ||
स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः । (३।१)
sa praviśya tu tadveśma rāvaṇo rākṣasādhipaḥ |
वायुवेगैर् इवाक्रान्तां मज्जन्तीं नावम् अर्णवे ॥ (४।२)
vāyuvegair ivākrāntāṃ majjantīṃ nāvam arṇave ||
मृगयूथपरिभ्रष्टां मृगीं श्वभिर् इवावृताम् । (५।१)
mṛgayūthaparibhraṣṭāṃ mṛgīṃ śvabhir ivāvṛtām |
हर्म्यप्रासादसम्बाधं स्त्रीसहस्रनिषेवितम् । (७।१)
harmyaprāsādasambādhaṃ strīsahasraniṣevitam |
काञ्चनैस् तापनीयैश् च स्फाटिकै राजतैस् तथा । (८।१)
kāñcanais tāpanīyaiś ca sphāṭikai rājatais tathā |
वज्रवैडूर्यचित्रैश् च स्तम्भैर् दृष्टिमनोहरैः ॥ (८।२)
vajravaiḍūryacitraiś ca stambhair dṛṣṭimanoharaiḥ ||
दान्तका राजताश् चैव गवाक्षाः प्रियदर्शनाः । (१०।१)
dāntakā rājatāś caiva gavākṣāḥ priyadarśanāḥ |
हेमजालावृताश् चासंस् तत्र प्रासादपङ्क्तयः ॥ (१०।२)
hemajālāvṛtāś cāsaṃs tatra prāsādapaṅktayaḥ ||
दशग्रीवः स्वभवने प्रादर्शयत मैथिलीम् ॥ (११।२)
daśagrīvaḥ svabhavane prādarśayata maithilīm ||
दीर्घिकाः पुष्करिण्यश् च नानापुष्पसमावृताः । (१२।१)
dīrghikāḥ puṣkariṇyaś ca nānāpuṣpasamāvṛtāḥ |
दर्शयित्वा तु वैदेहीं कृत्स्नं तद् भवनोत्तमम् । (१३।१)
darśayitvā tu vaidehīṃ kṛtsnaṃ tad bhavanottamam |
वर्जयित्वा जरावृद्धान् बालांश् च रजनीचरान् ॥ (१४।२)
varjayitvā jarāvṛddhān bālāṃś ca rajanīcarān ||
तेषां प्रभुर् अहं सीते सर्वेषां भीमकर्मणाम् । (१५।१)
teṣāṃ prabhur ahaṃ sīte sarveṣāṃ bhīmakarmaṇām |
यद् इदं राज्यतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम् । (१६।१)
yad idaṃ rājyatantraṃ me tvayi sarvaṃ pratiṣṭhitam |
जीवितं च विशालाक्षि त्वं मे प्राणैर् गरीयसी ॥ (१६।२)
jīvitaṃ ca viśālākṣi tvaṃ me prāṇair garīyasī ||
बहूनां स्त्रीसहस्राणां मम यो ऽसौ परिग्रहः । (१७।१)
bahūnāṃ strīsahasrāṇāṃ mama yo 'sau parigrahaḥ |
तासां त्वम् ईश्वरी सीते मम भार्या भव प्रिये ॥ (१७।२)
tāsāṃ tvam īśvarī sīte mama bhāryā bhava priye ||
साधु किं ते ऽन्यया बुद्ध्या रोचयस्व वचो मम । (१८।१)
sādhu kiṃ te 'nyayā buddhyā rocayasva vaco mama |
भजस्व माभितप्तस्य प्रसादं कर्तुम् अर्हसि ॥ (१८।२)
bhajasva mābhitaptasya prasādaṃ kartum arhasi ||
नेयं धर्षयितुं शक्या सेन्द्रैर् अपि सुरासुरैः ॥ (१९।२)
neyaṃ dharṣayituṃ śakyā sendrair api surāsuraiḥ ||
न देवेषु न यक्षेषु न गन्धर्वेषु नर्षिषु । (२०।१)
na deveṣu na yakṣeṣu na gandharveṣu narṣiṣu |
अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत् ॥ (२०।२)
ahaṃ paśyāmi lokeṣu yo me vīryasamo bhavet ||
यौवनं ह्य् अध्रुवं भीरु रमस्वेह मया सह ॥ (२२।२)
yauvanaṃ hy adhruvaṃ bhīru ramasveha mayā saha ||
दर्शने मा कृथा बुद्धिं राघवस्य वरानने । (२३।१)
darśane mā kṛthā buddhiṃ rāghavasya varānane |
कास्य शक्तिर् इहागन्तुम् अपि सीते मनोरथैः ॥ (२३।२)
kāsya śaktir ihāgantum api sīte manorathaiḥ ||
न शक्यो वायुर् आकाशे पाशैर् बद्धं महाजवः । (२४।१)
na śakyo vāyur ākāśe pāśair baddhaṃ mahājavaḥ |
दीप्यमानस्य वाप्य् अग्नेर् ग्रहीतुं विमलां शिखाम् ॥ (२४।२)
dīpyamānasya vāpy agner grahītuṃ vimalāṃ śikhām ||
त्रयाणाम् अपि लोकानां न तं पश्यामि शोभने । (२५।१)
trayāṇām api lokānāṃ na taṃ paśyāmi śobhane |
विक्रमेण नयेद् यस् त्वां मद्बाहुपरिपालिताम् ॥ (२५।२)
vikrameṇa nayed yas tvāṃ madbāhuparipālitām ||
लङ्कायां सुमहद् राज्यम् इदं त्वम् अनुपालय । (२६।१)
laṅkāyāṃ sumahad rājyam idaṃ tvam anupālaya |
दुष्कृतं यत् पुरा कर्म वनवासेन तद् गतम् । (२७।१)
duṣkṛtaṃ yat purā karma vanavāsena tad gatam |
यश् च ते सुकृतो धर्मस् तस्येह फलम् आप्नुहि ॥ (२७।२)
yaś ca te sukṛto dharmas tasyeha phalam āpnuhi ||
इह सर्वाणि माल्यानि दिव्यगन्धानि मैथिलि । (२८।१)
iha sarvāṇi mālyāni divyagandhāni maithili |
पुष्पकं नाम सुश्रोणि भ्रातुर् वैश्रवणस्य मे । (२९।१)
puṣpakaṃ nāma suśroṇi bhrātur vaiśravaṇasya me |
तत्र सीते मया सार्धं विहरस्व यथासुखम् । (३०।१)
tatra sīte mayā sārdhaṃ viharasva yathāsukham |
आर्षो ऽयं दैवनिस्यन्दो यस् त्वाम् अभिगमिष्यति । (३२।१)
ārṣo 'yaṃ daivanisyando yas tvām abhigamiṣyati |
एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ ॥ (३२।२)
etau pādau mayā snigdhau śirobhiḥ paripīḍitau ||
प्रसादं कुरु मे क्षिप्रं वश्यो दासो ऽहम् अस्मि ते । (३३।१)
prasādaṃ kuru me kṣipraṃ vaśyo dāso 'ham asmi te |
नेमाः शून्या मया वाचः शुष्यमाणेन भाषिताः ॥ (३३।२)
nemāḥ śūnyā mayā vācaḥ śuṣyamāṇena bhāṣitāḥ ||
न चापि रावणः कांचिन् मूर्ध्ना स्त्रीं प्रणमेत ह । (३४।१)
na cāpi rāvaṇaḥ kāṃcin mūrdhnā strīṃ praṇameta ha |
एवम् उक्त्वा दशग्रीवो मैथिलीं जनकात्मजाम् ॥ (३४।२)
evam uktvā daśagrīvo maithilīṃ janakātmajām ||
Data courtesy of The Digital Corpus of Sanskrit.