Rām, 1, 57
Select a line for its word-by-word analysis.
ततस् त्रिशङ्कोर् वचनं श्रुत्वा क्रोधसमन्वितम् । (१।१)
tatas triśaṅkor vacanaṃ śrutvā krodhasamanvitam |
प्रत्याख्यातो ऽसि दुर्बुद्धे गुरुणा सत्यवादिना । (२।१)
pratyākhyāto 'si durbuddhe guruṇā satyavādinā |
इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः । (३।१)
ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ |
तं वयं वै समाहर्तुं क्रतुं शक्ताः कथं तव ॥ (४।२)
taṃ vayaṃ vai samāhartuṃ kratuṃ śaktāḥ kathaṃ tava ||
बालिशस् त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः । (५।१)
bāliśas tvaṃ naraśreṣṭha gamyatāṃ svapuraṃ punaḥ |
याजने भगवाञ् शक्तस् त्रैलोक्यस्यापि पार्थिव ॥ (५।२)
yājane bhagavāñ śaktas trailokyasyāpi pārthiva ||
तेषां तद्वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम् । (६।१)
teṣāṃ tadvacanaṃ śrutvā krodhaparyākulākṣaram |
प्रत्याख्यातो ऽस्मि गुरुणा गुरुपुत्रैस् तथैव च । (७।१)
pratyākhyāto 'smi guruṇā guruputrais tathaiva ca |
अन्यां गतिं गमिष्यामि स्वस्ति वो ऽस्तु तपोधनाः ॥ (७।२)
anyāṃ gatiṃ gamiṣyāmi svasti vo 'stu tapodhanāḥ ||
ऋषिपुत्रास् तु तच् छ्रुत्वा वाक्यं घोराभिसंहितम् । (८।१)
ṛṣiputrās tu tac chrutvā vākyaṃ ghorābhisaṃhitam |
शेपुः परमसंक्रुद्धाश् चण्डालत्वं गमिष्यसि । (८।२)
śepuḥ paramasaṃkruddhāś caṇḍālatvaṃ gamiṣyasi |
एवम् उक्त्वा महात्मानो विविशुस् ते स्वम् आश्रमम् ॥ (८।३)
evam uktvā mahātmāno viviśus te svam āśramam ||
अथ रात्र्यां व्यतीतायां राजा चण्डालतां गतः । (९।१)
atha rātryāṃ vyatītāyāṃ rājā caṇḍālatāṃ gataḥ |
तं दृष्ट्वा मन्त्रिणः सर्वे त्यक्त्वा चण्डालरूपिणम् । (१०।१)
taṃ dṛṣṭvā mantriṇaḥ sarve tyaktvā caṇḍālarūpiṇam |
प्राद्रवन् सहिता राम पौरा ये ऽस्यानुगामिनः ॥ (१०।२)
prādravan sahitā rāma paurā ye 'syānugāminaḥ ||
दह्यमानो दिवारात्रं विश्वामित्रं तपोधनम् ॥ (११।२)
dahyamāno divārātraṃ viśvāmitraṃ tapodhanam ||
विश्वामित्रस् तु तं दृष्ट्वा राजानं विफलीकृतम् । (१२।१)
viśvāmitras tu taṃ dṛṣṭvā rājānaṃ viphalīkṛtam |
कारुण्यात् स महातेजा वाक्यं परमधार्मिकः । (१३।१)
kāruṇyāt sa mahātejā vākyaṃ paramadhārmikaḥ |
अथ तद् वाक्यम् आकर्ण्य राजा चण्डालतां गतः । (१५।१)
atha tad vākyam ākarṇya rājā caṇḍālatāṃ gataḥ |
अब्रवीत् प्राञ्जलिर् वाक्यं वाक्यज्ञो वाक्यकोविदम् ॥ (१५।२)
abravīt prāñjalir vākyaṃ vākyajño vākyakovidam ||
प्रत्याख्यातो ऽस्मि गुरुणा गुरुपुत्रैस् तथैव च । (१६।१)
pratyākhyāto 'smi guruṇā guruputrais tathaiva ca |
अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः ॥ (१६।२)
anavāpyaiva taṃ kāmaṃ mayā prāpto viparyayaḥ ||
मया चेष्टं क्रतुशतं तच् च नावाप्यते फलम् ॥ (१७।२)
mayā ceṣṭaṃ kratuśataṃ tac ca nāvāpyate phalam ||
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन । (१८।१)
anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana |
कृच्छ्रेष्व् अपि गतः सौम्य क्षत्रधर्मेण ते शपे ॥ (१८।२)
kṛcchreṣv api gataḥ saumya kṣatradharmeṇa te śape ||
यज्ञैर् बहुविधैर् इष्टं प्रजा धर्मेण पालिताः । (१९।१)
yajñair bahuvidhair iṣṭaṃ prajā dharmeṇa pālitāḥ |
धर्मे प्रयतमानस्य यज्ञं चाहर्तुम् इच्छतः । (२०।१)
dharme prayatamānasya yajñaṃ cāhartum icchataḥ |
दैवम् एव परं मन्ये पौरुषं तु निरर्थकम् । (२१।१)
daivam eva paraṃ manye pauruṣaṃ tu nirarthakam |
दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः ॥ (२१।२)
daivenākramyate sarvaṃ daivaṃ hi paramā gatiḥ ||
तस्य मे परमार्तस्य प्रसादम् अभिकाङ्क्षतः । (२२।१)
tasya me paramārtasya prasādam abhikāṅkṣataḥ |
कर्तुम् अर्हसि भद्रं ते दैवोपहतकर्मणः ॥ (२२।२)
kartum arhasi bhadraṃ te daivopahatakarmaṇaḥ ||
नान्यां गतिं गमिष्यामि नान्यः शरणम् अस्ति मे । (२३।१)
nānyāṃ gatiṃ gamiṣyāmi nānyaḥ śaraṇam asti me |
Data courtesy of The Digital Corpus of Sanskrit.