रामायणRāmāyaṇa

Rām, 2, 85

161 of 606 · 157 verses

Select a line for its word-by-word analysis.

1.1१.१

कृतबुद्धिं निवासाय तथैव स मुनिस् तदा । (१।१)

kṛtabuddhiṃ nivāsāya tathaiva sa munis tadā |

1.2१.२

भरतं कैकयीपुत्रम् आतिथ्येन न्यमन्त्रयत् ॥ (१।२)

bharataṃ kaikayīputram ātithyena nyamantrayat ||

2.1२.१

अब्रवीद् भरतस् त्व् एनं नन्व् इदं भवता कृतम् । (२।१)

abravīd bharatas tv enaṃ nanv idaṃ bhavatā kṛtam |

2.2२.२

पाद्यम् अर्घ्यं तथातिथ्यं वने यद् उपपद्यते ॥ (२।२)

pādyam arghyaṃ tathātithyaṃ vane yad upapadyate ||

3.1३.१

अथोवाच भरद्वाजो भरतं प्रहसन्न् इव । (३।१)

athovāca bharadvājo bharataṃ prahasann iva |

3.2३.२

जाने त्वां प्रीतिसंयुक्तं तुष्येस् त्वं येन केनचित् ॥ (३।२)

jāne tvāṃ prītisaṃyuktaṃ tuṣyes tvaṃ yena kenacit ||

4.1४.१

सेनायास् तु तवैतस्याः कर्तुम् इच्छामि भोजनम् । (४।१)

senāyās tu tavaitasyāḥ kartum icchāmi bhojanam |

4.2४.२

मम प्रीतिर् यथारूपा त्वम् अर्हो मनुजर्षभ ॥ (४।२)

mama prītir yathārūpā tvam arho manujarṣabha ||

5.1५.१

किमर्थं चापि निक्षिप्य दूरे बलम् इहागतः । (५।१)

kimarthaṃ cāpi nikṣipya dūre balam ihāgataḥ |

5.2५.२

कस्मान् नेहोपयातो ऽसि सबलः पुरुषर्षभ ॥ (५।२)

kasmān nehopayāto 'si sabalaḥ puruṣarṣabha ||

6.1६.१

भरतः प्रत्युवाचेदं प्राञ्जलिस् तं तपोधनम् । (६।१)

bharataḥ pratyuvācedaṃ prāñjalis taṃ tapodhanam |

6.2६.२

ससैन्यो नोपयातो ऽस्मि भगवन् भगवद्भयात् ॥ (६।२)

sasainyo nopayāto 'smi bhagavan bhagavadbhayāt ||

7.1७.१

वाजिमुख्या मनुष्याश् च मत्ताश् च वरवारणाः । (७।१)

vājimukhyā manuṣyāś ca mattāś ca varavāraṇāḥ |

7.2७.२

प्रच्छाद्य महतीं भूमिं भगवन्न् अनुयान्ति माम् ॥ (७।२)

pracchādya mahatīṃ bhūmiṃ bhagavann anuyānti mām ||

8.1८.१

ते वृक्षान् उदकं भूमिम् आश्रमेषूटजांस् तथा । (८।१)

te vṛkṣān udakaṃ bhūmim āśrameṣūṭajāṃs tathā |

8.2८.२

न हिंस्युर् इति तेनाहम् एक एवागतस् ततः ॥ (८।२)

na hiṃsyur iti tenāham eka evāgatas tataḥ ||

9.1९.१

आनीयताम् इतः सेनेत्य् आज्ञप्तः परमर्षिणा । (९।१)

ānīyatām itaḥ senety ājñaptaḥ paramarṣiṇā |

9.2९.२

तथा तु चक्रे भरतः सेनायाः समुपागमम् ॥ (९।२)

tathā tu cakre bharataḥ senāyāḥ samupāgamam ||

10.1१०.१

अग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च । (१०।१)

agniśālāṃ praviśyātha pītvāpaḥ parimṛjya ca |

10.2१०.२

आतिथ्यस्य क्रियाहेतोर् विश्वकर्माणम् आह्वयत् ॥ (१०।२)

ātithyasya kriyāhetor viśvakarmāṇam āhvayat ||

11.1११.१

आह्वये विश्वकर्माणम् अहं त्वष्टारम् एव च । (११।१)

āhvaye viśvakarmāṇam ahaṃ tvaṣṭāram eva ca |

11.2११.२

आतिथ्यं कर्तुम् इच्छामि तत्र मे संविधीयताम् ॥ (११।२)

ātithyaṃ kartum icchāmi tatra me saṃvidhīyatām ||

12.1१२.१

स्छ्लरड़्ड़ेन्लन्द्प्राक्स्रोतसश् च या नद्यः प्रत्यक्स्रोतस एव च । (१२।१)

Schlaraffenlandprāksrotasaś ca yā nadyaḥ pratyaksrotasa eva ca |

12.2१२.२

पृथिव्याम् अन्तरिक्षे च समायान्त्व् अद्य सर्वशः ॥ (१२।२)

pṛthivyām antarikṣe ca samāyāntv adya sarvaśaḥ ||

13.1१३.१

अन्याः स्रवन्तु मैरेयं सुराम् अन्याः सुनिष्ठिताम् । (१३।१)

anyāḥ sravantu maireyaṃ surām anyāḥ suniṣṭhitām |

13.2१३.२

अपराश् चोदकं शीतम् इक्षुकाण्डरसोपमम् ॥ (१३।२)

aparāś codakaṃ śītam ikṣukāṇḍarasopamam ||

14.1१४.१

आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् । (१४।१)

āhvaye devagandharvān viśvāvasuhahāhuhūn |

14.2१४.२

तथैवाप्सरसो देवीर् गन्धर्वीश् चापि सर्वशः ॥ (१४।२)

tathaivāpsaraso devīr gandharvīś cāpi sarvaśaḥ ||

15.1१५.१

घृताचीम् अथ विश्वाचीं मिश्रकेशीम् अलम्बुसाम् । (१५।१)

ghṛtācīm atha viśvācīṃ miśrakeśīm alambusām |

15.2१५.२

शक्रं याश् चोपतिष्ठन्ति ब्रह्माणं याश् च भामिनीः । (१५।२)

śakraṃ yāś copatiṣṭhanti brahmāṇaṃ yāś ca bhāminīḥ |

15.3१५.३

सर्वास् तुम्बुरुणा सार्धम् आह्वये सपरिच्छदाः ॥ (१५।३)

sarvās tumburuṇā sārdham āhvaye saparicchadāḥ ||

16.1१६.१

वनं कुरुषु यद् दिव्यं वासो भूषणपत्त्रवत् । (१६।१)

vanaṃ kuruṣu yad divyaṃ vāso bhūṣaṇapattravat |

16.2१६.२

दिव्यनारीफलं शश्वत् तत् कौबेरम् इहैव तु ॥ (१६।२)

divyanārīphalaṃ śaśvat tat kauberam ihaiva tu ||

17.1१७.१

इह मे भगवान् सोमो विधत्ताम् अन्नम् उत्तमम् । (१७।१)

iha me bhagavān somo vidhattām annam uttamam |

17.2१७.२

भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ॥ (१७।२)

bhakṣyaṃ bhojyaṃ ca coṣyaṃ ca lehyaṃ ca vividhaṃ bahu ||

18.1१८.१

विचित्राणि च माल्यानि पादपप्रच्युतानि च । (१८।१)

vicitrāṇi ca mālyāni pādapapracyutāni ca |

18.2१८.२

सुरादीनि च पेयानि मांसानि विविधानि च ॥ (१८।२)

surādīni ca peyāni māṃsāni vividhāni ca ||

19.1१९.१

एवं समाधिना युक्तस् तेजसाप्रतिमेन च । (१९।१)

evaṃ samādhinā yuktas tejasāpratimena ca |

19.2१९.२

शिक्षास्वरसमायुक्तं तपसा चाब्रवीन् मुनिः ॥ (१९।२)

śikṣāsvarasamāyuktaṃ tapasā cābravīn muniḥ ||

20.1२०.१

मनसा ध्यायतस् तस्य प्राङ्मुखस्य कृताञ्जलेः । (२०।१)

manasā dhyāyatas tasya prāṅmukhasya kṛtāñjaleḥ |

20.2२०.२

आजग्मुस् तानि सर्वाणि दैवतानि पृथक्पृथक् ॥ (२०।२)

ājagmus tāni sarvāṇi daivatāni pṛthakpṛthak ||

21.1२१.१

मलयं दर्दुरं चैव ततः स्वेदनुदो ऽनिलः । (२१।१)

malayaṃ darduraṃ caiva tataḥ svedanudo 'nilaḥ |

21.2२१.२

उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः ॥ (२१।२)

upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ ||

22.1२२.१

ततो ऽभ्यवर्तन्त घना दिव्याः कुसुमवृष्टयः । (२२।१)

tato 'bhyavartanta ghanā divyāḥ kusumavṛṣṭayaḥ |

22.2२२.२

देवदुन्दुभिघोषश् च दिक्षु सर्वासु शुश्रुवे ॥ (२२।२)

devadundubhighoṣaś ca dikṣu sarvāsu śuśruve ||

23.1२३.१

प्रववुश् चोत्तमा वाता ननृतुश् चाप्सरोगणाः । (२३।१)

pravavuś cottamā vātā nanṛtuś cāpsarogaṇāḥ |

23.2२३.२

प्रजगुर् देवगन्धर्वा वीणाः प्रमुमुचुः स्वरान् ॥ (२३।२)

prajagur devagandharvā vīṇāḥ pramumucuḥ svarān ||

24.1२४.१

स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च । (२४।१)

sa śabdo dyāṃ ca bhūmiṃ ca prāṇināṃ śravaṇāni ca |

24.2२४.२

विवेशोच्चारितः श्लक्ष्णः समो लयगुणान्वितः ॥ (२४।२)

viveśoccāritaḥ ślakṣṇaḥ samo layaguṇānvitaḥ ||

25.1२५.१

तस्मिन्न् उपरते शब्दे दिव्ये श्रोत्रसुखे नृणाम् । (२५।१)

tasminn uparate śabde divye śrotrasukhe nṛṇām |

25.2२५.२

ददर्श भारतं सैन्यं विधानं विश्वकर्मणः ॥ (२५।२)

dadarśa bhārataṃ sainyaṃ vidhānaṃ viśvakarmaṇaḥ ||

26.1२६.१

बभूव हि समा भूमिः समन्तात् पञ्चयोजनम् । (२६।१)

babhūva hi samā bhūmiḥ samantāt pañcayojanam |

26.2२६.२

शाद्वलैर् बहुभिश् छन्ना नीलवैडूर्यसंनिभैः ॥ (२६।२)

śādvalair bahubhiś channā nīlavaiḍūryasaṃnibhaiḥ ||

27.1२७.१

तस्मिन् बिल्वाः कपित्थाश् च पनसा बीजपूरकाः । (२७।१)

tasmin bilvāḥ kapitthāś ca panasā bījapūrakāḥ |

27.2२७.२

आमलक्यो बभूवुश् च चूताश् च फलभूषणाः ॥ (२७।२)

āmalakyo babhūvuś ca cūtāś ca phalabhūṣaṇāḥ ||

28.1२८.१

उत्तरेभ्यः कुरुभ्यश् च वनं दिव्योपभोगवत् । (२८।१)

uttarebhyaḥ kurubhyaś ca vanaṃ divyopabhogavat |

28.2२८.२

आजगाम नदी दिव्या तीरजैर् बहुभिर् वृता ॥ (२८।२)

ājagāma nadī divyā tīrajair bahubhir vṛtā ||

29.1२९.१

चतुःशालानि शुभ्राणि शालाश् च गजवाजिनाम् । (२९।१)

catuḥśālāni śubhrāṇi śālāś ca gajavājinām |

29.2२९.२

हर्म्यप्रासादसंघातास् तोरणानि शुभानि च ॥ (२९।२)

harmyaprāsādasaṃghātās toraṇāni śubhāni ca ||

30.1३०.१

सितमेघनिभं चापि राजवेश्म सुतोरणम् । (३०।१)

sitameghanibhaṃ cāpi rājaveśma sutoraṇam |

30.2३०.२

शुक्लमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ॥ (३०।२)

śuklamālyakṛtākāraṃ divyagandhasamukṣitam ||

31.1३१.१

चतुरस्रम् असंबाधं शयनासनयानवत् । (३१।१)

caturasram asaṃbādhaṃ śayanāsanayānavat |

31.2३१.२

दिव्यैः सर्वरसैर् युक्तं दिव्यभोजनवस्त्रवत् ॥ (३१।२)

divyaiḥ sarvarasair yuktaṃ divyabhojanavastravat ||

32.1३२.१

उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् । (३२।१)

upakalpitasarvānnaṃ dhautanirmalabhājanam |

32.2३२.२

कॢप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् ॥ (३२।२)

kḷptasarvāsanaṃ śrīmat svāstīrṇaśayanottamam ||

33.1३३.१

प्रविवेश महाबाहुर् अनुज्ञातो महर्षिणा । (३३।१)

praviveśa mahābāhur anujñāto maharṣiṇā |

33.2३३.२

वेश्म तद् रत्नसम्पूर्णं भरतः कैकयीसुतः ॥ (३३।२)

veśma tad ratnasampūrṇaṃ bharataḥ kaikayīsutaḥ ||

34.1३४.१

अनुजग्मुश् च तं सर्वे मन्त्रिणः सपुरोहिताः । (३४।१)

anujagmuś ca taṃ sarve mantriṇaḥ sapurohitāḥ |

34.2३४.२

बभूवुश् च मुदा युक्तास् तं दृष्ट्वा वेश्मसंविधिम् ॥ (३४।२)

babhūvuś ca mudā yuktās taṃ dṛṣṭvā veśmasaṃvidhim ||

35.1३५.१

तत्र राजासनं दिव्यं व्यजनं छत्त्रम् एव च । (३५।१)

tatra rājāsanaṃ divyaṃ vyajanaṃ chattram eva ca |

35.2३५.२

भरतो मन्त्रिभिः सार्धम् अभ्यवर्तत राजवत् ॥ (३५।२)

bharato mantribhiḥ sārdham abhyavartata rājavat ||

36.1३६.१

आसनं पूजयामास रामायाभिप्रणम्य च । (३६।१)

āsanaṃ pūjayāmāsa rāmāyābhipraṇamya ca |

36.2३६.२

वालव्यजनम् आदाय न्यषीदत् सचिवासने ॥ (३६।२)

vālavyajanam ādāya nyaṣīdat sacivāsane ||

37.1३७.१

आनुपूर्व्यान् निषेदुश् च सर्वे मन्त्रिपुरोहिताः । (३७।१)

ānupūrvyān niṣeduś ca sarve mantripurohitāḥ |

37.2३७.२

ततः सेनापतिः पश्चात् प्रशास्ता च निषेदतुः ॥ (३७।२)

tataḥ senāpatiḥ paścāt praśāstā ca niṣedatuḥ ||

38.1३८.१

ततस् तत्र मुहूर्तेन नद्यः पायसकर्दमाः । (३८।१)

tatas tatra muhūrtena nadyaḥ pāyasakardamāḥ |

38.2३८.२

उपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ॥ (३८।२)

upātiṣṭhanta bharataṃ bharadvājasya śāsanāt ||

39.1३९.१

तासाम् उभयतः कूलं पाण्डुमृत्तिकलेपनाः । (३९।१)

tāsām ubhayataḥ kūlaṃ pāṇḍumṛttikalepanāḥ |

39.2३९.२

रम्याश् चावसथा दिव्या ब्रह्मणस् तु प्रसादजाः ॥ (३९।२)

ramyāś cāvasathā divyā brahmaṇas tu prasādajāḥ ||

40.1४०.१

तेनैव च मुहूर्तेन दिव्याभरणभूषिताः । (४०।१)

tenaiva ca muhūrtena divyābharaṇabhūṣitāḥ |

40.2४०.२

आगुर् विंशतिसाहस्रा ब्रह्मणा प्रहिताः स्त्रियः ॥ (४०।२)

āgur viṃśatisāhasrā brahmaṇā prahitāḥ striyaḥ ||

41.1४१.१

सुवर्णमणिमुक्तेन प्रवालेन च शोभिताः । (४१।१)

suvarṇamaṇimuktena pravālena ca śobhitāḥ |

41.2४१.२

आगुर् विंशतिसाहस्राः कुबेरप्रहिताः स्त्रियः ॥ (४१।२)

āgur viṃśatisāhasrāḥ kuberaprahitāḥ striyaḥ ||

42.1४२.१

याभिर् गृहीतः पुरुषः सोन्माद इव लक्ष्यते । (४२।१)

yābhir gṛhītaḥ puruṣaḥ sonmāda iva lakṣyate |

42.2४२.२

आगुर् विंशतिसाहस्रा नन्दनाद् अप्सरोगणाः ॥ (४२।२)

āgur viṃśatisāhasrā nandanād apsarogaṇāḥ ||

43.1४३.१

नारदस् तुम्बुरुर् गोपः पर्वतः सूर्यवर्चसः । (४३।१)

nāradas tumburur gopaḥ parvataḥ sūryavarcasaḥ |

43.2४३.२

एते गन्धर्वराजानो भरतस्याग्रतो जगुः ॥ (४३।२)

ete gandharvarājāno bharatasyāgrato jaguḥ ||

44.1४४.१

अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना । (४४।१)

alambusā miśrakeśī puṇḍarīkātha vāmanā |

44.2४४.२

उपानृत्यंस् तु भरतं भरद्वाजस्य शासनात् ॥ (४४।२)

upānṛtyaṃs tu bharataṃ bharadvājasya śāsanāt ||

45.1४५.१

यानि माल्यानि देवेषु यानि चैत्ररथे वने । (४५।१)

yāni mālyāni deveṣu yāni caitrarathe vane |

45.2४५.२

प्रयागे तान्य् अदृश्यन्त भरद्वाजस्य शासनात् ॥ (४५।२)

prayāge tāny adṛśyanta bharadvājasya śāsanāt ||

46.1४६.१

बिल्वा मार्दङ्गिका आसञ् शम्याग्राहा विभीतकाः । (४६।१)

bilvā mārdaṅgikā āsañ śamyāgrāhā vibhītakāḥ |

46.2४६.२

अश्वत्था नर्तकाश् चासन् भरद्वाजस्य तेजसा ॥ (४६।२)

aśvatthā nartakāś cāsan bharadvājasya tejasā ||

47.1४७.१

ततः सरलतालाश् च तिलका नक्तमालकाः । (४७।१)

tataḥ saralatālāś ca tilakā naktamālakāḥ |

47.2४७.२

प्रहृष्टास् तत्र संपेतुः कुब्जा भूत्वाथ वामनाः ॥ (४७।२)

prahṛṣṭās tatra saṃpetuḥ kubjā bhūtvātha vāmanāḥ ||

48.1४८.१

शिंशपामलकी जम्बूर् याश् चान्याः कानने लताः । (४८।१)

śiṃśapāmalakī jambūr yāś cānyāḥ kānane latāḥ |

48.2४८.२

प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमे ऽवसन् ॥ (४८।२)

pramadāvigrahaṃ kṛtvā bharadvājāśrame 'vasan ||

49.1४९.१

सुरां सुरापाः पिबत पायसं च बुभुक्षिताः । (४९।१)

surāṃ surāpāḥ pibata pāyasaṃ ca bubhukṣitāḥ |

49.2४९.२

मांसानि च सुमेध्यानि भक्ष्यन्तां यावद् इच्छथ ॥ (४९।२)

māṃsāni ca sumedhyāni bhakṣyantāṃ yāvad icchatha ||

50.1५०.१

उत्साद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु । (५०।१)

utsādya snāpayanti sma nadītīreṣu valguṣu |

50.2५०.२

अप्य् एकम् एकं पुरुषं प्रमदाः सप्त चाष्ट च ॥ (५०।२)

apy ekam ekaṃ puruṣaṃ pramadāḥ sapta cāṣṭa ca ||

51.1५१.१

संवहन्त्यः समापेतुर् नार्यो रुचिरलोचनाः । (५१।१)

saṃvahantyaḥ samāpetur nāryo ruciralocanāḥ |

51.2५१.२

परिमृज्य तथा न्यायं पाययन्ति वराङ्गनाः ॥ (५१।२)

parimṛjya tathā nyāyaṃ pāyayanti varāṅganāḥ ||

52.1५२.१

हयान् गजान् खरान् उष्ट्रांस् तथैव सुरभेः सुतान् । (५२।१)

hayān gajān kharān uṣṭrāṃs tathaiva surabheḥ sutān |

52.2५२.२

इक्षूंश् च मधुजालांश् च भोजयन्ति स्म वाहनान् । (५२।२)

ikṣūṃś ca madhujālāṃś ca bhojayanti sma vāhanān |

52.3५२.३

इक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः ॥ (५२।३)

ikṣvākuvarayodhānāṃ codayanto mahābalāḥ ||

53.1५३.१

नाश्वबन्धो ऽश्वम् आजानान् न गजं कुञ्जरग्रहः । (५३।१)

nāśvabandho 'śvam ājānān na gajaṃ kuñjaragrahaḥ |

53.2५३.२

मत्तप्रमत्तमुदिता चमूः सा तत्र संबभौ ॥ (५३।२)

mattapramattamuditā camūḥ sā tatra saṃbabhau ||

54.1५४.१

तर्पिताः सर्वकामैस् ते रक्तचन्दनरूषिताः । (५४।१)

tarpitāḥ sarvakāmais te raktacandanarūṣitāḥ |

54.2५४.२

अप्सरोगणसंयुक्ताः सैन्या वाचम् उदैरयन् ॥ (५४।२)

apsarogaṇasaṃyuktāḥ sainyā vācam udairayan ||

55.1५५.१

नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् । (५५।१)

naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān |

55.2५५.२

कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥ (५५।२)

kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham ||

56.1५६.१

इति पादातयोधाश् च हस्त्यश्वारोहबन्धकाः । (५६।१)

iti pādātayodhāś ca hastyaśvārohabandhakāḥ |

56.2५६.२

अनाथास् तं विधिं लब्ध्वा वाचम् एताम् उदैरयन् ॥ (५६।२)

anāthās taṃ vidhiṃ labdhvā vācam etām udairayan ||

57.1५७.१

सम्प्रहृष्टा विनेदुस् ते नरास् तत्र सहस्रशः । (५७।१)

samprahṛṣṭā vinedus te narās tatra sahasraśaḥ |

57.2५७.२

भरतस्यानुयातारः स्वर्गो ऽयम् इति चाब्रुवन् ॥ (५७।२)

bharatasyānuyātāraḥ svargo 'yam iti cābruvan ||

58.1५८.१

ततो भुक्तवतां तेषां तद् अन्नम् अमृतोपमम् । (५८।१)

tato bhuktavatāṃ teṣāṃ tad annam amṛtopamam |

58.2५८.२

दिव्यान् उद्वीक्ष्य भक्ष्यांस् तान् अभवद् भक्षणे मतिः ॥ (५८।२)

divyān udvīkṣya bhakṣyāṃs tān abhavad bhakṣaṇe matiḥ ||

59.1५९.१

प्रेष्याश् चेट्यश् च वध्वश् च बलस्थाश् चापि सर्वशः । (५९।१)

preṣyāś ceṭyaś ca vadhvaś ca balasthāś cāpi sarvaśaḥ |

59.2५९.२

बभूवुस् ते भृशं तृप्ताः सर्वे चाहतवाससः ॥ (५९।२)

babhūvus te bhṛśaṃ tṛptāḥ sarve cāhatavāsasaḥ ||

60.1६०.१

कुञ्जराश् च खरोष्ट्रश् च गोऽश्वाश् च मृगपक्षिणः । (६०।१)

kuñjarāś ca kharoṣṭraś ca go'śvāś ca mṛgapakṣiṇaḥ |

60.2६०.२

बभूवुः सुभृतास् तत्र नान्यो ह्य् अन्यम् अकल्पयत् ॥ (६०।२)

babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat ||

61.1६१.१

नाशुक्लवासास् तत्रासीत् क्षुधितो मलिनो ऽपि वा । (६१।१)

nāśuklavāsās tatrāsīt kṣudhito malino 'pi vā |

61.2६१.२

रजसा ध्वस्तकेशो वा नरः कश्चिद् अदृश्यत ॥ (६१।२)

rajasā dhvastakeśo vā naraḥ kaścid adṛśyata ||

62.1६२.१

आजैश् चापि च वाराहैर् निष्ठानवरसंचयैः । (६२।१)

ājaiś cāpi ca vārāhair niṣṭhānavarasaṃcayaiḥ |

62.2६२.२

फलनिर्यूहसंसिद्धैः सूपैर् गन्धरसान्वितैः ॥ (६२।२)

phalaniryūhasaṃsiddhaiḥ sūpair gandharasānvitaiḥ ||

63.1६३.१

पुष्पध्वजवतीः पूर्णाः शुक्लस्यान्नस्य चाभितः । (६३।१)

puṣpadhvajavatīḥ pūrṇāḥ śuklasyānnasya cābhitaḥ |

63.2६३.२

ददृशुर् विस्मितास् तत्र नरा लौहीः सहस्रशः ॥ (६३।२)

dadṛśur vismitās tatra narā lauhīḥ sahasraśaḥ ||

64.1६४.१

बभूवुर् वनपार्श्वेषु कूपाः पायसकर्दमाः । (६४।१)

babhūvur vanapārśveṣu kūpāḥ pāyasakardamāḥ |

64.2६४.२

ताश् च कामदुघा गावो द्रुमाश् चासन् मधुश्च्युतः ॥ (६४।२)

tāś ca kāmadughā gāvo drumāś cāsan madhuścyutaḥ ||

65.1६५.१

वाप्यो मैरेयपूर्णाश् च मृष्टमांसचयैर् वृताः । (६५।१)

vāpyo maireyapūrṇāś ca mṛṣṭamāṃsacayair vṛtāḥ |

65.2६५.२

प्रतप्तपिठरैश् चापि मार्गमायूरकौक्कुटैः ॥ (६५।२)

prataptapiṭharaiś cāpi mārgamāyūrakaukkuṭaiḥ ||

66.1६६.१

पात्रीणां च सहस्राणि शातकुम्भमयानि च । (६६।१)

pātrīṇāṃ ca sahasrāṇi śātakumbhamayāni ca |

66.2६६.२

स्थाल्यः कुम्भ्यः करम्भ्यश् च दधिपूर्णाः सुसंस्कृताः । (६६।२)

sthālyaḥ kumbhyaḥ karambhyaś ca dadhipūrṇāḥ susaṃskṛtāḥ |

66.3६६.३

यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः ॥ (६६।३)

yauvanasthasya gaurasya kapitthasya sugandhinaḥ ||

67.1६७.१

ह्रदाः पूर्णा रसालस्य दध्नः श्वेतस्य चापरे । (६७।१)

hradāḥ pūrṇā rasālasya dadhnaḥ śvetasya cāpare |

67.2६७.२

बभूवुः पायसस्यान्ते शर्करायाश् च संचयाः ॥ (६७।२)

babhūvuḥ pāyasasyānte śarkarāyāś ca saṃcayāḥ ||

68.1६८.१

कल्कांश् चूर्णकषायांश् च स्नानानि विविधानि च । (६८।१)

kalkāṃś cūrṇakaṣāyāṃś ca snānāni vividhāni ca |

68.2६८.२

ददृशुर् भाजनस्थानि तीर्थेषु सरितां नराः ॥ (६८।२)

dadṛśur bhājanasthāni tīrtheṣu saritāṃ narāḥ ||

69.1६९.१

शुक्लान् अंशुमतश् चापि दन्तधावनसंचयान् । (६९।१)

śuklān aṃśumataś cāpi dantadhāvanasaṃcayān |

69.2६९.२

शुक्लांश् चन्दनकल्कांश् च समुद्गेष्व् अवतिष्ठतः ॥ (६९।२)

śuklāṃś candanakalkāṃś ca samudgeṣv avatiṣṭhataḥ ||

70.1७०.१

दर्पणान् परिमृष्टांश् च वाससां चापि संचयान् । (७०।१)

darpaṇān parimṛṣṭāṃś ca vāsasāṃ cāpi saṃcayān |

70.2७०.२

पादुकोपानहां चैव युग्मान् यत्र सहस्रशः ॥ (७०।२)

pādukopānahāṃ caiva yugmān yatra sahasraśaḥ ||

71.1७१.१

आञ्जनीः कङ्कतान् कूर्चांश् छत्त्राणि च धनूंषि च । (७१।१)

āñjanīḥ kaṅkatān kūrcāṃś chattrāṇi ca dhanūṃṣi ca |

71.2७१.२

मर्मत्राणानि चित्राणि शयनान्य् आसनानि च ॥ (७१।२)

marmatrāṇāni citrāṇi śayanāny āsanāni ca ||

72.1७२.१

प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् । (७२।१)

pratipānahradān pūrṇān kharoṣṭragajavājinām |

72.2७२.२

अवगाह्य सुतीर्थांश् च ह्रदान् सोत्पलपुष्करान् ॥ (७२।२)

avagāhya sutīrthāṃś ca hradān sotpalapuṣkarān ||

73.1७३.१

नीलवैडूर्यवर्णांश् च मृदून् यवससंचयान् । (७३।१)

nīlavaiḍūryavarṇāṃś ca mṛdūn yavasasaṃcayān |

73.2७३.२

निर्वापार्थं पशूनां ते ददृशुस् तत्र सर्वशः ॥ (७३।२)

nirvāpārthaṃ paśūnāṃ te dadṛśus tatra sarvaśaḥ ||

74.1७४.१

व्यस्मयन्त मनुष्यास् ते स्वप्नकल्पं तद् अद्भुतम् । (७४।१)

vyasmayanta manuṣyās te svapnakalpaṃ tad adbhutam |

74.2७४.२

दृष्ट्वातिथ्यं कृतं तादृग् भरतस्य महर्षिणा ॥ (७४।२)

dṛṣṭvātithyaṃ kṛtaṃ tādṛg bharatasya maharṣiṇā ||

75.1७५.१

इत्य् एवं रममाणानां देवानाम् इव नन्दने । (७५।१)

ity evaṃ ramamāṇānāṃ devānām iva nandane |

75.2७५.२

भरद्वाजाश्रमे रम्ये सा रात्रिर् व्यत्यवर्तत ॥ (७५।२)

bharadvājāśrame ramye sā rātrir vyatyavartata ||

76.1७६.१

प्रतिजग्मुश् च ता नद्यो गन्धर्वाश् च यथागतम् । (७६।१)

pratijagmuś ca tā nadyo gandharvāś ca yathāgatam |

76.2७६.२

भरद्वाजम् अनुज्ञाप्य ताश् च सर्वा वराङ्गनाः ॥ (७६।२)

bharadvājam anujñāpya tāś ca sarvā varāṅganāḥ ||

77.1७७.१

तथैव मत्ता मदिरोत्कटा नरास् तथैव दिव्यागुरुचन्दनोक्षिताः । (७७।१)

tathaiva mattā madirotkaṭā narās tathaiva divyāgurucandanokṣitāḥ |

77.2७७.२

तथैव दिव्या विविधाः स्रगुत्तमाः पृथक्प्रकीर्णा मनुजैः प्रमर्दिताः ॥ (७७।२)

tathaiva divyā vividhāḥ sraguttamāḥ pṛthakprakīrṇā manujaiḥ pramarditāḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

Rām, 2, 85

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit