रामायणRāmāyaṇa

Rām, 3, 70

257 of 606 · 55 verses

Select a line for its word-by-word analysis.

1.1१.१

तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने । (१।१)

tau kabandhena taṃ mārgaṃ pampāyā darśitaṃ vane |

1.2१.२

आतस्थतुर् दिशं गृह्य प्रतीचीं नृवरात्मजौ ॥ (१।२)

ātasthatur diśaṃ gṛhya pratīcīṃ nṛvarātmajau ||

2.1२.१

तौ शैलेष्व् आचितानेकान् क्षौद्रकल्पफलद्रुमान् । (२।१)

tau śaileṣv ācitānekān kṣaudrakalpaphaladrumān |

2.2२.२

वीक्षन्तौ जग्मतुर् द्रष्टुं सुग्रीवं रामलक्ष्मणौ ॥ (२।२)

vīkṣantau jagmatur draṣṭuṃ sugrīvaṃ rāmalakṣmaṇau ||

3.1३.१

कृत्वा च शैलपृष्ठे तु तौ वासं रघुनन्दनौ । (३।१)

kṛtvā ca śailapṛṣṭhe tu tau vāsaṃ raghunandanau |

3.2३.२

पम्पायाः पश्चिमं तीरं राघवाव् उपतस्थतुः ॥ (३।२)

pampāyāḥ paścimaṃ tīraṃ rāghavāv upatasthatuḥ ||

4.1४.१

तौ पुष्करिण्याः पम्पायास् तीरम् आसाद्य पश्चिमम् । (४।१)

tau puṣkariṇyāḥ pampāyās tīram āsādya paścimam |

4.2४.२

अपश्यतां ततस् तत्र शबर्या रम्यम् आश्रमम् ॥ (४।२)

apaśyatāṃ tatas tatra śabaryā ramyam āśramam ||

5.1५.१

तौ तम् आश्रमम् आसाद्य द्रुमैर् बहुभिर् आवृतम् । (५।१)

tau tam āśramam āsādya drumair bahubhir āvṛtam |

5.2५.२

सुरम्यम् अभिवीक्षन्तौ शबरीम् अभ्युपेयतुः ॥ (५।२)

suramyam abhivīkṣantau śabarīm abhyupeyatuḥ ||

6.1६.१

तौ तु दृष्ट्वा तदा सिद्धा समुत्थाय कृताञ्जलिः । (६।१)

tau tu dṛṣṭvā tadā siddhā samutthāya kṛtāñjaliḥ |

6.2६.२

पादौ जग्राह रामस्य लक्ष्मणस्य च धीमतः ॥ (६।२)

pādau jagrāha rāmasya lakṣmaṇasya ca dhīmataḥ ||

7.1७.१

ताम् उवाच ततो रामः श्रमणीं संशितव्रताम् । (७।१)

tām uvāca tato rāmaḥ śramaṇīṃ saṃśitavratām |

7.2७.२

कच्चित् ते निर्जिता विघ्नाः कच्चित् ते वर्धते तपः ॥ (७।२)

kaccit te nirjitā vighnāḥ kaccit te vardhate tapaḥ ||

8.1८.१

कच्चित् ते नियतः कोप आहारश् च तपोधने । (८।१)

kaccit te niyataḥ kopa āhāraś ca tapodhane |

8.2८.२

कच्चित् ते नियमाः प्राप्ताः कच्चित् ते मनसः सुखम् । (८।२)

kaccit te niyamāḥ prāptāḥ kaccit te manasaḥ sukham |

8.3८.३

कच्चित् ते गुरुशुश्रूषा सफला चारुभाषिणि ॥ (८।३)

kaccit te guruśuśrūṣā saphalā cārubhāṣiṇi ||

9.1९.१

रामेण तापसी पृष्टा सा सिद्धा सिद्धसंमता । (९।१)

rāmeṇa tāpasī pṛṣṭā sā siddhā siddhasaṃmatā |

9.2९.२

शशंस शबरी वृद्धा रामाय प्रत्युपस्थिता ॥ (९।२)

śaśaṃsa śabarī vṛddhā rāmāya pratyupasthitā ||

10.1१०.१

चित्रकूटं त्वयि प्राप्ते विमानैर् अतुलप्रभैः । (१०।१)

citrakūṭaṃ tvayi prāpte vimānair atulaprabhaiḥ |

10.2१०.२

इतस् ते दिवम् आरूढा यान् अहं पर्यचारिषम् ॥ (१०।२)

itas te divam ārūḍhā yān ahaṃ paryacāriṣam ||

11.1११.१

तैश् चाहम् उक्ता धर्मज्ञैर् महाभागैर् महर्षिभिः । (११।१)

taiś cāham uktā dharmajñair mahābhāgair maharṣibhiḥ |

11.2११.२

आगमिष्यति ते रामः सुपुण्यम् इमम् आश्रमम् ॥ (११।२)

āgamiṣyati te rāmaḥ supuṇyam imam āśramam ||

12.1१२.१

स ते प्रतिग्रहीतव्यः सौमित्रिसहितो ऽतिथिः । (१२।१)

sa te pratigrahītavyaḥ saumitrisahito 'tithiḥ |

12.2१२.२

तं च दृष्ट्वा वरांल् लोकान् अक्षयांस् त्वं गमिष्यसि ॥ (१२।२)

taṃ ca dṛṣṭvā varāṃl lokān akṣayāṃs tvaṃ gamiṣyasi ||

13.1१३.१

मया तु विविधं वन्यं संचितं पुरुषर्षभ । (१३।१)

mayā tu vividhaṃ vanyaṃ saṃcitaṃ puruṣarṣabha |

13.2१३.२

तवार्थे पुरुषव्याघ्र पम्पायास् तीरसम्भवम् ॥ (१३।२)

tavārthe puruṣavyāghra pampāyās tīrasambhavam ||

14.1१४.१

एवम् उक्तः स धर्मात्मा शबर्या शबरीम् इदम् । (१४।१)

evam uktaḥ sa dharmātmā śabaryā śabarīm idam |

14.2१४.२

राघवः प्राह विजाने तां नित्यम् अबहिष्कृताम् ॥ (१४।२)

rāghavaḥ prāha vijāne tāṃ nityam abahiṣkṛtām ||

15.1१५.१

दनोः सकाशात् तत्त्वेन प्रभावं ते महात्मनः । (१५।१)

danoḥ sakāśāt tattvena prabhāvaṃ te mahātmanaḥ |

15.2१५.२

श्रुतं प्रत्यक्षम् इच्छामि संद्रष्टुं यदि मन्यसे ॥ (१५।२)

śrutaṃ pratyakṣam icchāmi saṃdraṣṭuṃ yadi manyase ||

16.1१६.१

एतत् तु वचनं श्रुत्वा रामवक्त्राद् विनिःसृतम् । (१६।१)

etat tu vacanaṃ śrutvā rāmavaktrād viniḥsṛtam |

16.2१६.२

शबरी दर्शयामास ताव् उभौ तद् वनं महत् ॥ (१६।२)

śabarī darśayāmāsa tāv ubhau tad vanaṃ mahat ||

17.1१७.१

पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम् । (१७।१)

paśya meghaghanaprakhyaṃ mṛgapakṣisamākulam |

17.2१७.२

मतंगवनम् इत्य् एव विश्रुतं रघुनन्दन ॥ (१७।२)

mataṃgavanam ity eva viśrutaṃ raghunandana ||

18.1१८.१

इह ते भावितात्मानो गुरवो मे महाद्युते । (१८।१)

iha te bhāvitātmāno guravo me mahādyute |

18.2१८.२

जुहवांश्चक्रिरे तीर्थं मन्त्रवन् मन्त्रपूजितम् ॥ (१८।२)

juhavāṃścakrire tīrthaṃ mantravan mantrapūjitam ||

19.1१९.१

इयं प्रत्यक्स्थली वेदी यत्र ते मे सुसत्कृताः । (१९।१)

iyaṃ pratyaksthalī vedī yatra te me susatkṛtāḥ |

19.2१९.२

पुष्पोपहारं कुर्वन्ति श्रमाद् उद्वेपिभिः करैः ॥ (१९।२)

puṣpopahāraṃ kurvanti śramād udvepibhiḥ karaiḥ ||

20.1२०.१

तेषां तपःप्रभावेन पश्याद्यापि रघूत्तम । (२०।१)

teṣāṃ tapaḥprabhāvena paśyādyāpi raghūttama |

20.2२०.२

द्योतयन्ति दिशः सर्वाः श्रिया वेद्यो ऽतुलप्रभाः ॥ (२०।२)

dyotayanti diśaḥ sarvāḥ śriyā vedyo 'tulaprabhāḥ ||

21.1२१.१

अशक्नुवद्भिस् तैर् गन्तुम् उपवासश्रमालसैः । (२१।१)

aśaknuvadbhis tair gantum upavāsaśramālasaiḥ |

21.2२१.२

चिन्तिते ऽभ्यागतान् पश्य समेतान् सप्त सागरान् ॥ (२१।२)

cintite 'bhyāgatān paśya sametān sapta sāgarān ||

22.1२२.१

कृताभिषेकैस् तैर् न्यस्ता वल्कलाः पादपेष्व् इह । (२२।१)

kṛtābhiṣekais tair nyastā valkalāḥ pādapeṣv iha |

22.2२२.२

अद्यापि न विशुष्यन्ति प्रदेशे रघुनन्दन ॥ (२२।२)

adyāpi na viśuṣyanti pradeśe raghunandana ||

23.1२३.१

कृत्स्नं वनम् इदं दृष्टं श्रोतव्यं च श्रुतं त्वया । (२३।१)

kṛtsnaṃ vanam idaṃ dṛṣṭaṃ śrotavyaṃ ca śrutaṃ tvayā |

23.2२३.२

तद् इच्छाम्य् अभ्यनुज्ञाता त्यक्तुम् एतत् कलेवरम् ॥ (२३।२)

tad icchāmy abhyanujñātā tyaktum etat kalevaram ||

24.1२४.१

तेषाम् इच्छाम्य् अहं गन्तुं समीपं भावितात्मनाम् । (२४।१)

teṣām icchāmy ahaṃ gantuṃ samīpaṃ bhāvitātmanām |

24.2२४.२

मुनीनाम् आश्रमो येषाम् अहं च परिचारिणी ॥ (२४।२)

munīnām āśramo yeṣām ahaṃ ca paricāriṇī ||

25.1२५.१

धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणः । (२५।१)

dharmiṣṭhaṃ tu vacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ |

25.2२५.२

अनुजानामि गच्छेति प्रहृष्टवदनो ऽब्रवीत् ॥ (२५।२)

anujānāmi gaccheti prahṛṣṭavadano 'bravīt ||

26.1२६.१

अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने । (२६।१)

anujñātā tu rāmeṇa hutvātmānaṃ hutāśane |

26.2२६.२

ज्वलत्पावकसंकाशा स्वर्गम् एव जगाम सा ॥ (२६।२)

jvalatpāvakasaṃkāśā svargam eva jagāma sā ||

27.1२७.१

यत्र ते सुकृतात्मानो विहरन्ति महर्षयः । (२७।१)

yatra te sukṛtātmāno viharanti maharṣayaḥ |

27.2२७.२

तत् पुण्यं शबरी स्थानं जगामात्मसमाधिना ॥ (२७।२)

tat puṇyaṃ śabarī sthānaṃ jagāmātmasamādhinā ||

Data courtesy of The Digital Corpus of Sanskrit.

Rām, 3, 70

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit