Rām, 3, 7
Select a line for its word-by-word analysis.
रामस् तु सहसौमित्रिः सुतीक्ष्णेनाभिपूजितः । (१।१)
rāmas tu sahasaumitriḥ sutīkṣṇenābhipūjitaḥ |
परिणाम्य निशां तत्र प्रभाते प्रत्यबुध्यत ॥ (१।२)
pariṇāmya niśāṃ tatra prabhāte pratyabudhyata ||
अथ ते ऽग्निं सुरांश् चैव वैदेही रामलक्ष्मणौ । (३।१)
atha te 'gniṃ surāṃś caiva vaidehī rāmalakṣmaṇau |
काल्यं विधिवद् अभ्यर्च्य तपस्विशरणे वने ॥ (३।२)
kālyaṃ vidhivad abhyarcya tapasviśaraṇe vane ||
सुतीक्ष्णम् अभिगम्येदं श्लक्ष्णं वचनम् अब्रुवन् ॥ (४।२)
sutīkṣṇam abhigamyedaṃ ślakṣṇaṃ vacanam abruvan ||
सुखोषिताः स्म भगवंस् त्वया पूज्येन पूजिताः । (५।१)
sukhoṣitāḥ sma bhagavaṃs tvayā pūjyena pūjitāḥ |
आपृच्छामः प्रयास्यामो मुनयस् त्वरयन्ति नः ॥ (५।२)
āpṛcchāmaḥ prayāsyāmo munayas tvarayanti naḥ ||
त्वरामहे वयं द्रष्टुं कृत्स्नम् आश्रममण्डलम् । (६।१)
tvarāmahe vayaṃ draṣṭuṃ kṛtsnam āśramamaṇḍalam |
अभ्यनुज्ञातुम् इच्छामः सहैभिर् मुनिपुंगवैः । (७।१)
abhyanujñātum icchāmaḥ sahaibhir munipuṃgavaiḥ |
धर्मनित्यैस् तपोदान्तैर् विशिखैर् इव पावकैः ॥ (७।२)
dharmanityais tapodāntair viśikhair iva pāvakaiḥ ||
अमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः ॥ (८।२)
amārgeṇāgatāṃ lakṣmīṃ prāpyevānvayavarjitaḥ ||
तावद् इच्छामहे गन्तुम् इत्य् उक्त्वा चरणौ मुनेः । (९।१)
tāvad icchāmahe gantum ity uktvā caraṇau muneḥ |
तौ संस्पृशन्तौ चरणाव् उत्थाप्य मुनिपुंगवः । (१०।१)
tau saṃspṛśantau caraṇāv utthāpya munipuṃgavaḥ |
गाढम् आलिङ्ग्य सस्नेहम् इदं वचनम् अब्रवीत् ॥ (१०।२)
gāḍham āliṅgya sasneham idaṃ vacanam abravīt ||
अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह । (११।१)
ariṣṭaṃ gaccha panthānaṃ rāma saumitriṇā saha |
द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च । (१५।१)
drakṣyase dṛṣṭiramyāṇi giriprasravaṇāni ca |
गम्यतां वत्स सौमित्रे भवान् अपि च गच्छतु । (१६।१)
gamyatāṃ vatsa saumitre bhavān api ca gacchatu |
आगन्तव्यं च ते दृष्ट्वा पुनर् एवाश्रमं मम ॥ (१६।२)
āgantavyaṃ ca te dṛṣṭvā punar evāśramaṃ mama ||
एवम् उक्तस् तथेत्य् उक्त्वा काकुत्स्थः सहलक्ष्मणः । (१७।१)
evam uktas tathety uktvā kākutsthaḥ sahalakṣmaṇaḥ |
प्रदक्षिणं मुनिं कृत्वा प्रस्थातुम् उपचक्रमे ॥ (१७।२)
pradakṣiṇaṃ muniṃ kṛtvā prasthātum upacakrame ||
ददौ सीता तयोर् भ्रात्रोः खड्गौ च विमलौ ततः ॥ (१८।२)
dadau sītā tayor bhrātroḥ khaḍgau ca vimalau tataḥ ||
निष्क्रान्ताव् आश्रमाद् गन्तुम् उभौ तौ रामलक्ष्मणौ ॥ (१९।२)
niṣkrāntāv āśramād gantum ubhau tau rāmalakṣmaṇau ||
Data courtesy of The Digital Corpus of Sanskrit.