Rām, 1, 34
Select a line for its word-by-word analysis.
निशायां सुप्रभातायां विश्वामित्रो ऽभ्यभाषत ॥ (१।२)
niśāyāṃ suprabhātāyāṃ viśvāmitro 'bhyabhāṣata ||
सुप्रभाता निशा राम पूर्वा संध्या प्रवर्तते । (२।१)
suprabhātā niśā rāma pūrvā saṃdhyā pravartate |
तच् छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं क्रियाम् । (३।१)
tac chrutvā vacanaṃ tasya kṛtvā paurvāhṇikīṃ kriyām |
एवम् उक्तस् तु रामेण विश्वामित्रो ऽब्रवीद् इदम् । (५।१)
evam uktas tu rāmeṇa viśvāmitro 'bravīd idam |
ते गत्वा दूरम् अध्वानं गते ऽर्धदिवसे तदा । (६।१)
te gatvā dūram adhvānaṃ gate 'rdhadivase tadā |
जाह्नवीं सरितां श्रेष्ठां ददृशुर् मुनिसेविताम् ॥ (६।२)
jāhnavīṃ saritāṃ śreṣṭhāṃ dadṛśur munisevitām ||
तस्यास् तीरे ततश् चक्रुस् ते आवासपरिग्रहम् ॥ (७।३)
tasyās tīre tataś cakrus te āvāsaparigraham ||
ततः स्नात्वा यथान्यायं संतर्प्य पितृदेवताः । (८।१)
tataḥ snātvā yathānyāyaṃ saṃtarpya pitṛdevatāḥ |
हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः ॥ (८।२)
hutvā caivāgnihotrāṇi prāśya cāmṛtavaddhaviḥ ||
सम्प्रहृष्टमना रामो विश्वामित्रम् अथाब्रवीत् । (१०।१)
samprahṛṣṭamanā rāmo viśvāmitram athābravīt |
भगवञ् श्रोतुम् इच्छामि गङ्गां त्रिपथगां नदीम् । (१०।२)
bhagavañ śrotum icchāmi gaṅgāṃ tripathagāṃ nadīm |
त्रैलोक्यं कथम् आक्रम्य गता नदनदीपतिम् ॥ (१०।३)
trailokyaṃ katham ākramya gatā nadanadīpatim ||
वृद्धिं जन्म च गङ्गाया वक्तुम् एवोपचक्रमे ॥ (११।२)
vṛddhiṃ janma ca gaṅgāyā vaktum evopacakrame ||
शैलेन्द्रो हिमवान् नाम धातूनाम् आकरो महान् । (१२।१)
śailendro himavān nāma dhātūnām ākaro mahān |
तस्य कन्याद्वयं राम रूपेणाप्रतिमं भुवि ॥ (१२।२)
tasya kanyādvayaṃ rāma rūpeṇāpratimaṃ bhuvi ||
नाम्ना मेना मनोज्ञा वै पत्नी हिमवतः प्रिया ॥ (१३।२)
nāmnā menā manojñā vai patnī himavataḥ priyā ||
तस्यां गङ्गेयम् अभवज् ज्येष्ठा हिमवतः सुता । (१४।१)
tasyāṃ gaṅgeyam abhavaj jyeṣṭhā himavataḥ sutā |
उमा नाम द्वितीयाभूत् कन्या तस्यैव राघव ॥ (१४।२)
umā nāma dvitīyābhūt kanyā tasyaiva rāghava ||
अथ ज्येष्ठां सुराः सर्वे देवतार्थचिकीर्षया । (१५।१)
atha jyeṣṭhāṃ surāḥ sarve devatārthacikīrṣayā |
शैलेन्द्रं वरयामासुर् गङ्गां त्रिपथगां नदीम् ॥ (१५।२)
śailendraṃ varayāmāsur gaṅgāṃ tripathagāṃ nadīm ||
स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया ॥ (१६।२)
svacchandapathagāṃ gaṅgāṃ trailokyahitakāmyayā ||
प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकारिणः । (१७।१)
pratigṛhya trilokārthaṃ trilokahitakāriṇaḥ |
गङ्गाम् आदाय ते ऽगच्छन् कृतार्थेनान्तरात्मना ॥ (१७।२)
gaṅgām ādāya te 'gacchan kṛtārthenāntarātmanā ||
उग्रं सा व्रतम् आस्थाय तपस् तेपे तपोधना ॥ (१८।२)
ugraṃ sā vratam āsthāya tapas tepe tapodhanā ||
गङ्गा च सरितां श्रेष्ठा उमा देवी च राघव ॥ (२०।२)
gaṅgā ca saritāṃ śreṣṭhā umā devī ca rāghava ||
एतत् ते धर्मम् आख्यातं यथा त्रिपथगा नदी । (२१।१)
etat te dharmam ākhyātaṃ yathā tripathagā nadī |
Data courtesy of The Digital Corpus of Sanskrit.