Rām, 4, 60
Select a line for its word-by-word analysis.
ततस्तद् दारुणं कर्म दुष्करं साहसात् कृतम् । (१।१)
tatastad dāruṇaṃ karma duṣkaraṃ sāhasāt kṛtam |
भगवन् व्रणयुक्तत्वाल्लज्जया चाकुलेन्द्रियः । (२।१)
bhagavan vraṇayuktatvāllajjayā cākulendriyaḥ |
रविः स्याद् अनुयातव्यो यावद् अस्तं महागिरिम् ॥ (४।२)
raviḥ syād anuyātavyo yāvad astaṃ mahāgirim ||
क्वचिद् वादित्रघोषांश्च ब्रह्मघोषांश्च शुश्रुव । (६।१)
kvacid vāditraghoṣāṃśca brahmaghoṣāṃśca śuśruva |
गायन्तीश्चाङ्गना बह्वीः पश्यावो रक्तवाससः ॥ (६।२)
gāyantīścāṅganā bahvīḥ paśyāvo raktavāsasaḥ ||
तूर्णम् उत्पत्य चाकाशम् आदित्यपथम् आस्थितौ । (७।१)
tūrṇam utpatya cākāśam ādityapatham āsthitau |
उपलैर् इव संछन्ना दृश्यते भूः शिलोच्चयैः । (८।१)
upalair iva saṃchannā dṛśyate bhūḥ śiloccayaiḥ |
हिमवांश्चैव विन्ध्यश्च मेरुश्च सुमहान् नगः । (९।१)
himavāṃścaiva vindhyaśca meruśca sumahān nagaḥ |
तीव्रस्वेदश्च खेदश्च भयं चासीत् तदावयोः । (१०।१)
tīvrasvedaśca khedaśca bhayaṃ cāsīt tadāvayoḥ |
न दिग् विज्ञायते याम्या नाग्नेया न च वारुणी । (११।१)
na dig vijñāyate yāmyā nāgneyā na ca vāruṇī |
तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ ॥ (१२।२)
tulyaḥ pṛthvīpramāṇena bhāskaraḥ pratibhāti nau ||
जटायुर् माम् अनापृच्छ्य निपपात महीं ततः । (१३।१)
jaṭāyur mām anāpṛcchya nipapāta mahīṃ tataḥ |
तं दृष्ट्वा तूर्णम् आकाशाद् आत्मानं मुक्तवान् अहम् ॥ (१३।२)
taṃ dṛṣṭvā tūrṇam ākāśād ātmānaṃ muktavān aham ||
पक्षिभ्यां च मया गुप्तो जटायुर् न प्रदह्यत । (१४।१)
pakṣibhyāṃ ca mayā gupto jaṭāyur na pradahyata |
प्रमादात् तत्र निर्दग्धः पतन् वायुपथाद् अहम् ॥ (१४।२)
pramādāt tatra nirdagdhaḥ patan vāyupathād aham ||
अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः ॥ (१५।२)
ahaṃ tu patito vindhye dagdhapakṣo jaḍīkṛtaḥ ||
राज्येन हीनो भ्रात्रा च पक्षाभ्यां विक्रमेण च । (१६।१)
rājyena hīno bhrātrā ca pakṣābhyāṃ vikrameṇa ca |
सर्वथा मर्तुम् एवेच्छन् पतिष्ये शिखराद् गिरेः ॥ (१६।२)
sarvathā martum evecchan patiṣye śikharād gireḥ ||
Data courtesy of The Digital Corpus of Sanskrit.