Rām, 1, 5
Select a line for its word-by-word analysis.
सर्वापूर्वम् इयं येषाम् आसीत् कृत्स्ना वसुंधरा । (१।१)
sarvāpūrvam iyaṃ yeṣām āsīt kṛtsnā vasuṃdharā |
षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् ॥ (२।२)
ṣaṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ paryavārayan ||
इक्ष्वाकूणाम् इदं तेषां राज्ञां वंशे महात्मनाम् । (३।१)
ikṣvākūṇām idaṃ teṣāṃ rājñāṃ vaṃśe mahātmanām |
महद् उत्पन्नम् आख्यानं रामायणम् इति श्रुतम् ॥ (३।२)
mahad utpannam ākhyānaṃ rāmāyaṇam iti śrutam ||
तद् इदं वर्तयिष्यामि सर्वं निखिलम् आदितः । (४।१)
tad idaṃ vartayiṣyāmi sarvaṃ nikhilam āditaḥ |
मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ॥ (६।२)
manunā mānavendreṇa yā purī nirmitā svayam ||
सर्वयन्त्रायुधवतीम् उपेतां सर्वशिल्पिभिः ॥ (१०।२)
sarvayantrāyudhavatīm upetāṃ sarvaśilpibhiḥ ||
वधूनाटकसंघैश् च संयुक्तां सर्वतः पुरीम् । (१२।१)
vadhūnāṭakasaṃghaiś ca saṃyuktāṃ sarvataḥ purīm |
दुर्गगम्भीरपरिघां दुर्गाम् अन्यैर् दुरासदाम् । (१३।१)
durgagambhīraparighāṃ durgām anyair durāsadām |
वाजिवारणसम्पूर्णां गोभिर् उष्ट्रैः खरैस् तथा ॥ (१३।२)
vājivāraṇasampūrṇāṃ gobhir uṣṭraiḥ kharais tathā ||
प्रसादै रत्नविकृतैः पर्वतैर् उपशोभिताम् । (१५।१)
prasādai ratnavikṛtaiḥ parvatair upaśobhitām |
कूटागारैश् च सम्पूर्णाम् इन्द्रस्येवामरावतीम् ॥ (१५।२)
kūṭāgāraiś ca sampūrṇām indrasyevāmarāvatīm ||
चित्राम् अष्टापदाकारां वरनारीगणैर् युताम् । (१६।१)
citrām aṣṭāpadākārāṃ varanārīgaṇair yutām |
गृहगाढाम् अविच्छिद्रां समभूमौ निवेशिताम् । (१७।१)
gṛhagāḍhām avicchidrāṃ samabhūmau niveśitām |
दुन्दुभीभिर् मृदङ्गैश् च वीणाभिः पणवैस् तथा । (१८।१)
dundubhībhir mṛdaṅgaiś ca vīṇābhiḥ paṇavais tathā |
नादितां भृशम् अत्यर्थं पृथिव्यां ताम् अनुत्तमाम् ॥ (१८।२)
nāditāṃ bhṛśam atyarthaṃ pṛthivyāṃ tām anuttamām ||
ये च बाणैर् न विध्यन्ति विविक्तम् अपरापरम् । (२०।१)
ye ca bāṇair na vidhyanti viviktam aparāparam |
शब्दवेध्यं च विततं लघुहस्ता विशारदाः ॥ (२०।२)
śabdavedhyaṃ ca vitataṃ laghuhastā viśāradāḥ ||
सिंहव्याघ्रवराहाणां मत्तानां नदतां वने । (२१।१)
siṃhavyāghravarāhāṇāṃ mattānāṃ nadatāṃ vane |
हन्तारो निशितैः शस्त्रैर् बलाद् बाहुबलैर् अपि ॥ (२१।२)
hantāro niśitaiḥ śastrair balād bāhubalair api ||
तादृशानां सहस्रैस् ताम् अभिपूर्णां महारथैः । (२२।१)
tādṛśānāṃ sahasrais tām abhipūrṇāṃ mahārathaiḥ |
ताम् अग्निमद्भिर् गुणवद्भिर् आवृतां द्विजोत्तमैर् वेदषडङ्गपारगैः । (२३।१)
tām agnimadbhir guṇavadbhir āvṛtāṃ dvijottamair vedaṣaḍaṅgapāragaiḥ |
सहस्रदैः सत्यरतैर् महात्मभिर् महर्षिकल्पैर् ऋषिभिश् च केवलैः ॥ (२३।२)
sahasradaiḥ satyaratair mahātmabhir maharṣikalpair ṛṣibhiś ca kevalaiḥ ||
Data courtesy of The Digital Corpus of Sanskrit.