Rām, 4, 45
Select a line for its word-by-word analysis.
गतेषु वानरेन्द्रेषु रामः सुग्रीवम् अब्रवीत् । (१।१)
gateṣu vānarendreṣu rāmaḥ sugrīvam abravīt |
कथं भवान् विजानीते सर्वं वै मण्डलं भुवः ॥ (१।२)
kathaṃ bhavān vijānīte sarvaṃ vai maṇḍalaṃ bhuvaḥ ||
श्रूयतां सर्वम् आख्यास्ये विस्तरेण नरर्षभ ॥ (२।२)
śrūyatāṃ sarvam ākhyāsye vistareṇa nararṣabha ||
ततो ऽहं तत्र निक्षिप्तो गुहाद् वारिविनीतवत् । (५।१)
tato 'haṃ tatra nikṣipto guhād vārivinītavat |
तद् अहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः ॥ (६।२)
tad ahaṃ vismito dṛṣṭvā bhrātṛśokaviṣārditaḥ ||
अथाहं कृतबुद्धिस् तु सुव्यक्तं निहतो गुरुः । (७।१)
athāhaṃ kṛtabuddhis tu suvyaktaṃ nihato guruḥ |
ततो ऽहम् आगां किष्किन्धां निराशस् तस्य जीविते । (८।१)
tato 'ham āgāṃ kiṣkindhāṃ nirāśas tasya jīvite |
राज्यं च सुमहत् प्राप्तं तारा च रुमया सह । (८।२)
rājyaṃ ca sumahat prāptaṃ tārā ca rumayā saha |
ततो ऽहम् अददां राज्यं गौरवाद् भययन्त्रितः ॥ (९।२)
tato 'ham adadāṃ rājyaṃ gauravād bhayayantritaḥ ||
स मां जिघांसुर् दुष्टात्मा वाली प्रव्यथितेन्द्रियः । (१०।१)
sa māṃ jighāṃsur duṣṭātmā vālī pravyathitendriyaḥ |
परिकालयते क्रोधाद् धावन्तं सचिवैः सह ॥ (१०।२)
parikālayate krodhād dhāvantaṃ sacivaiḥ saha ||
ततो ऽहं वालिना तेन सानुबन्धः प्रधावितः । (११।१)
tato 'haṃ vālinā tena sānubandhaḥ pradhāvitaḥ |
नदीश् च विविधाः पश्यन् वनानि नगराणि च ॥ (११।२)
nadīś ca vividhāḥ paśyan vanāni nagarāṇi ca ||
ततः पूर्वम् अहं गत्वा दक्षिणाम् अहम् आश्रितः । (१३।१)
tataḥ pūrvam ahaṃ gatvā dakṣiṇām aham āśritaḥ |
दिशं च पश्चिमां भूयो गतो ऽस्मि भयशङ्कितः । (१३।२)
diśaṃ ca paścimāṃ bhūyo gato 'smi bhayaśaṅkitaḥ |
उत्तरां तु दिशं यान्तं हनुमान् माम् अथाब्रवीत् ॥ (१३।३)
uttarāṃ tu diśaṃ yāntaṃ hanumān mām athābravīt ||
इदानीं मे स्मृतं राजन् यथा वाली हरीश्वरः । (१४।१)
idānīṃ me smṛtaṃ rājan yathā vālī harīśvaraḥ |
मतंगेन तदा शप्तो ह्य् अस्मिन्न् आश्रममण्डले ॥ (१४।२)
mataṃgena tadā śapto hy asminn āśramamaṇḍale ||
प्रविशेद् यदि वा वाली मूर्धास्य शतधा भवेत् । (१५।१)
praviśed yadi vā vālī mūrdhāsya śatadhā bhavet |
तत्र वासः सुखो ऽस्माकं निरुद्विग्नो भविष्यति ॥ (१५।२)
tatra vāsaḥ sukho 'smākaṃ nirudvigno bhaviṣyati ||
एवं मया तदा राजन् प्रत्यक्षम् उपलक्षितम् । (१७।१)
evaṃ mayā tadā rājan pratyakṣam upalakṣitam |
पृथिवीमण्डलं कृत्स्नं गुहाम् अस्म्य् आगतस् ततः ॥ (१७।२)
pṛthivīmaṇḍalaṃ kṛtsnaṃ guhām asmy āgatas tataḥ ||
Data courtesy of The Digital Corpus of Sanskrit.