Rām, 2, 30
Select a line for its word-by-word analysis.
दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु । (१।१)
dattvā tu saha vaidehyā brāhmaṇebhyo dhanaṃ bahu |
ततो गृहीते दुष्प्रेक्ष्ये अशोभेतां तदायुधे । (२।१)
tato gṛhīte duṣprekṣye aśobhetāṃ tadāyudhe |
न हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः । (४।१)
na hi rathyāḥ sma śakyante gantuṃ bahujanākulāḥ |
आरुह्य तस्मात् प्रासादान् दीनाः पश्यन्ति राघवम् ॥ (४।२)
āruhya tasmāt prāsādān dīnāḥ paśyanti rāghavam ||
पदातिं वर्जितच्छत्त्रं रामं दृष्ट्वा तदा जनाः । (५।१)
padātiṃ varjitacchattraṃ rāmaṃ dṛṣṭvā tadā janāḥ |
तम् एकं सीतया सार्धम् अनुयाति स्म लक्ष्मणः ॥ (६।२)
tam ekaṃ sītayā sārdham anuyāti sma lakṣmaṇaḥ ||
ऐश्वर्यस्य रसज्ञः सन् कामिनां चैव कामदः । (७।१)
aiśvaryasya rasajñaḥ san kāmināṃ caiva kāmadaḥ |
नेच्छत्य् एवानृतं कर्तुं पितरं धर्मगौरवात् ॥ (७।२)
necchaty evānṛtaṃ kartuṃ pitaraṃ dharmagauravāt ||
या न शक्या पुरा द्रष्टुं भूतैर् आकाशगैर् अपि । (८।१)
yā na śakyā purā draṣṭuṃ bhūtair ākāśagair api |
ताम् अद्य सीतां पश्यन्ति राजमार्गगता जनाः ॥ (८।२)
tām adya sītāṃ paśyanti rājamārgagatā janāḥ ||
वर्षम् उष्णं च शीतं च नेष्यत्य् आशु विवर्णताम् ॥ (९।२)
varṣam uṣṇaṃ ca śītaṃ ca neṣyaty āśu vivarṇatām ||
अद्य नूनं दशरथः सत्त्वम् आविश्य भाषते । (१०।१)
adya nūnaṃ daśarathaḥ sattvam āviśya bhāṣate |
न हि राजा प्रियं पुत्रं विवासयितुम् अर्हति ॥ (१०।२)
na hi rājā priyaṃ putraṃ vivāsayitum arhati ||
निर्गुणस्यापि पुत्रस्य कथं स्याद् विप्रवासनम् । (११।१)
nirguṇasyāpi putrasya kathaṃ syād vipravāsanam |
किं पुनर् यस्य लोको ऽयं जितो वृत्तेन केवलम् ॥ (११।२)
kiṃ punar yasya loko 'yaṃ jito vṛttena kevalam ||
आनृशंस्यम् अनुक्रोशः श्रुतं शीलं दमः शमः । (१२।१)
ānṛśaṃsyam anukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ |
राघवं शोभयन्त्य् एते षड्गुणाः पुरुषोत्तमम् ॥ (१२।२)
rāghavaṃ śobhayanty ete ṣaḍguṇāḥ puruṣottamam ||
औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात् ॥ (१३।२)
audakānīva sattvāni grīṣme salilasaṃkṣayāt ||
ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः । (१५।१)
te lakṣmaṇa iva kṣipraṃ sapatnyaḥ sahabāndhavāḥ |
गच्छन्तम् अनुगच्छामो येन गच्छति राघवः ॥ (१५।२)
gacchantam anugacchāmo yena gacchati rāghavaḥ ||
उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च । (१६।१)
udyānāni parityajya kṣetrāṇi ca gṛhāṇi ca |
अस्मत्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ॥ (१८।२)
asmattyaktāni veśmāni kaikeyī pratipadyatām ||
अस्माभिश् च परित्यक्तं पुरं संपद्यतां वनम् ॥ (१९।२)
asmābhiś ca parityaktaṃ puraṃ saṃpadyatāṃ vanam ||
बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः । (२०।१)
bilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ |
अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च ॥ (२०।२)
asmattyaktaṃ prapadyantāṃ sevyamānaṃ tyajantu ca ||
शुश्राव रामः श्रुत्वा च न विचक्रे ऽस्य मानसम् ॥ (२१।२)
śuśrāva rāmaḥ śrutvā ca na vicakre 'sya mānasam ||
प्रतीक्षमाणो ऽभिजनं तदार्तम् अनार्तरूपः प्रहसन्न् इवाथ । (२२।१)
pratīkṣamāṇo 'bhijanaṃ tadārtam anārtarūpaḥ prahasann ivātha |
जगाम रामः पितरं दिदृक्षुः पितुर् निदेशं विधिवच् चिकीर्षुः ॥ (२२।२)
jagāma rāmaḥ pitaraṃ didṛkṣuḥ pitur nideśaṃ vidhivac cikīrṣuḥ ||
तत् पूर्वम् ऐक्ष्वाकसुतो महात्मा रामो गमिष्यन् वनम् आर्तरूपम् । (२३।१)
tat pūrvam aikṣvākasuto mahātmā rāmo gamiṣyan vanam ārtarūpam |
व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं पितुर् महात्मा प्रतिहारणार्थम् ॥ (२३।२)
vyatiṣṭhata prekṣya tadā sumantraṃ pitur mahātmā pratihāraṇārtham ||
पितुर् निदेशेन तु धर्मवत्सलो वनप्रवेशे कृतबुद्धिनिश्चयः । (२४।१)
pitur nideśena tu dharmavatsalo vanapraveśe kṛtabuddhiniścayaḥ |
स राघवः प्रेक्ष्य सुमन्त्रम् अब्रवीन् निवेदयस्वागमनं नृपाय मे ॥ (२४।२)
sa rāghavaḥ prekṣya sumantram abravīn nivedayasvāgamanaṃ nṛpāya me ||
Data courtesy of The Digital Corpus of Sanskrit.