रामायणRāmāyaṇa

Rām, 3, 71

258 of 606 · 56 verses

Select a line for its word-by-word analysis.

1.1१.१

दिवं तु तस्यां यातायां शबर्यां स्वेन कर्मणा । (१।१)

divaṃ tu tasyāṃ yātāyāṃ śabaryāṃ svena karmaṇā |

1.2१.२

लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ॥ (१।२)

lakṣmaṇena saha bhrātrā cintayāmāsa rāghavaḥ ||

2.1२.१

चिन्तयित्वा तु धर्मात्मा प्रभावं तं महात्मनाम् । (२।१)

cintayitvā tu dharmātmā prabhāvaṃ taṃ mahātmanām |

2.2२.२

हितकारिणम् एकाग्रं लक्ष्मणं राघवो ऽब्रवीत् ॥ (२।२)

hitakāriṇam ekāgraṃ lakṣmaṇaṃ rāghavo 'bravīt ||

3.1३.१

दृष्टो ऽयम् आश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम् । (३।१)

dṛṣṭo 'yam āśramaḥ saumya bahvāścaryaḥ kṛtātmanām |

3.2३.२

विश्वस्तमृगशार्दूलो नानाविहगसेवितः ॥ (३।२)

viśvastamṛgaśārdūlo nānāvihagasevitaḥ ||

4.1४.१

सप्तानां च समुद्राणाम् एषु तीर्थेषु लक्ष्मण । (४।१)

saptānāṃ ca samudrāṇām eṣu tīrtheṣu lakṣmaṇa |

4.2४.२

उपस्पृष्टं च विधिवत् पितरश् चापि तर्पिताः ॥ (४।२)

upaspṛṣṭaṃ ca vidhivat pitaraś cāpi tarpitāḥ ||

5.1५.१

प्रनष्टम् अशुभं यत् तत् कल्याणं समुपस्थितम् । (५।१)

pranaṣṭam aśubhaṃ yat tat kalyāṇaṃ samupasthitam |

5.2५.२

तेन त्व् एतत् प्रहृष्टं मे मनो लक्ष्मण सम्प्रति ॥ (५।२)

tena tv etat prahṛṣṭaṃ me mano lakṣmaṇa samprati ||

6.1६.१

हृदये हि नरव्याघ्र शुभम् आविर्भविष्यति । (६।१)

hṛdaye hi naravyāghra śubham āvirbhaviṣyati |

6.2६.२

तद् आगच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम् ॥ (६।२)

tad āgaccha gamiṣyāvaḥ pampāṃ tāṃ priyadarśanām ||

7.1७.१

ऋश्यमूको गिरिर् यत्र नातिदूरे प्रकाशते । (७।१)

ṛśyamūko girir yatra nātidūre prakāśate |

7.2७.२

यस्मिन् वसति धर्मात्मा सुग्रीवो ऽंशुमतः सुतः । (७।२)

yasmin vasati dharmātmā sugrīvo 'ṃśumataḥ sutaḥ |

7.3७.३

नित्यं वालिभयात् त्रस्तश् चतुर्भिः सह वानरैः ॥ (७।३)

nityaṃ vālibhayāt trastaś caturbhiḥ saha vānaraiḥ ||

8.1८.१

अभित्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम् । (८।१)

abhitvare ca taṃ draṣṭuṃ sugrīvaṃ vānararṣabham |

8.2८.२

तदधीनं हि मे सौम्य सीतायाः परिमार्गणम् ॥ (८।२)

tadadhīnaṃ hi me saumya sītāyāḥ parimārgaṇam ||

9.1९.१

इति ब्रुवाणं तं रामं सौमित्रिर् इदम् अब्रवीत् । (९।१)

iti bruvāṇaṃ taṃ rāmaṃ saumitrir idam abravīt |

9.2९.२

गच्छावस् त्वरितं तत्र ममापि त्वरते मनः ॥ (९।२)

gacchāvas tvaritaṃ tatra mamāpi tvarate manaḥ ||

10.1१०.१

आश्रमात् तु ततस् तस्मान् निष्क्रम्य स विशां पतिः । (१०।१)

āśramāt tu tatas tasmān niṣkramya sa viśāṃ patiḥ |

10.2१०.२

आजगाम ततः पम्पां लक्ष्मणेन सहाभिभूः ॥ (१०।२)

ājagāma tataḥ pampāṃ lakṣmaṇena sahābhibhūḥ ||

11.1११.१

समीक्षमाणः पुष्पाढ्यं सर्वतो विपुलद्रुमम् । (११।१)

samīkṣamāṇaḥ puṣpāḍhyaṃ sarvato vipuladrumam |

11.2११.२

कोयष्टिभिश् चार्जुनकैः शतपत्त्रैश् च कीचकैः । (११।२)

koyaṣṭibhiś cārjunakaiḥ śatapattraiś ca kīcakaiḥ |

11.3११.३

एतैश् चान्यैश् च विविधैर् नादितं तद् वनं महत् ॥ (११।३)

etaiś cānyaiś ca vividhair nāditaṃ tad vanaṃ mahat ||

12.1१२.१

स रामो विविधान् वृक्षान् सरांसि विविधानि च । (१२।१)

sa rāmo vividhān vṛkṣān sarāṃsi vividhāni ca |

12.2१२.२

पश्यन् कामाभिसंतप्तो जगाम परमं ह्रदम् ॥ (१२।२)

paśyan kāmābhisaṃtapto jagāma paramaṃ hradam ||

13.1१३.१

स ताम् आसाद्य वै रामो दूराद् उदकवाहिनीम् । (१३।१)

sa tām āsādya vai rāmo dūrād udakavāhinīm |

13.2१३.२

मतंगसरसं नाम ह्रदं समवगाहत ॥ (१३।२)

mataṃgasarasaṃ nāma hradaṃ samavagāhata ||

14.1१४.१

स तु शोकसमाविष्टो रामो दशरथात्मजः । (१४।१)

sa tu śokasamāviṣṭo rāmo daśarathātmajaḥ |

14.2१४.२

विवेश नलिनीं पम्पां पङ्कजैश् च समावृताम् ॥ (१४।२)

viveśa nalinīṃ pampāṃ paṅkajaiś ca samāvṛtām ||

15.1१५.१

तिलकाशोकपुंनागबकुलोद्दालकाशिनीम् । (१५।१)

tilakāśokapuṃnāgabakuloddālakāśinīm |

15.2१५.२

रम्योपवनसम्बाधां पद्मसंपीडितोदकाम् ॥ (१५।२)

ramyopavanasambādhāṃ padmasaṃpīḍitodakām ||

16.1१६.१

स्फटिकोपमतोयाढ्यां श्लक्ष्णवालुकसंतताम् । (१६।१)

sphaṭikopamatoyāḍhyāṃ ślakṣṇavālukasaṃtatām |

16.2१६.२

मत्स्यकच्छपसम्बाधां तीरस्थद्रुमशोभिताम् ॥ (१६।२)

matsyakacchapasambādhāṃ tīrasthadrumaśobhitām ||

17.1१७.१

सखीभिर् इव युक्ताभिर् लताभिर् अनुवेष्टिताम् । (१७।१)

sakhībhir iva yuktābhir latābhir anuveṣṭitām |

17.2१७.२

किंनरोरगगन्धर्वयक्षराक्षससेविताम् । (१७।२)

kiṃnaroragagandharvayakṣarākṣasasevitām |

17.3१७.३

नानाद्रुमलताकीर्णां शीतवारिनिधिं शुभाम् ॥ (१७।३)

nānādrumalatākīrṇāṃ śītavārinidhiṃ śubhām ||

18.1१८.१

पद्मैः सौगन्धिकैस् ताम्रां शुक्लां कुमुदमण्डलैः । (१८।१)

padmaiḥ saugandhikais tāmrāṃ śuklāṃ kumudamaṇḍalaiḥ |

18.2१८.२

नीलां कुवलयोद्धातैर् बहुवर्णां कुथाम् इव ॥ (१८।२)

nīlāṃ kuvalayoddhātair bahuvarṇāṃ kuthām iva ||

19.1१९.१

अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम् । (१९।१)

aravindotpalavatīṃ padmasaugandhikāyutām |

19.2१९.२

पुष्पिताम्रवणोपेतां बर्हिणोद्घुष्टनादिताम् ॥ (१९।२)

puṣpitāmravaṇopetāṃ barhiṇodghuṣṭanāditām ||

20.1२०.१

स तां दृष्ट्वा ततः पम्पां रामः सौमित्रिणा सह । (२०।१)

sa tāṃ dṛṣṭvā tataḥ pampāṃ rāmaḥ saumitriṇā saha |

20.2२०.२

विललाप च तेजस्वी कामाद् दशरथात्मजः ॥ (२०।२)

vilalāpa ca tejasvī kāmād daśarathātmajaḥ ||

21.1२१.१

तिलकैर् बीजपूरैश् च वटैः शुक्लद्रुमैस् तथा । (२१।१)

tilakair bījapūraiś ca vaṭaiḥ śukladrumais tathā |

21.2२१.२

पुष्पितैः करवीरैश् च पुंनागैश् च सुपुष्पितैः ॥ (२१।२)

puṣpitaiḥ karavīraiś ca puṃnāgaiś ca supuṣpitaiḥ ||

22.1२२.१

मालतीकुन्दगुल्मैश् च भण्डीरैर् निचुलैस् तथा । (२२।१)

mālatīkundagulmaiś ca bhaṇḍīrair niculais tathā |

22.2२२.२

अशोकैः सप्तपर्णैश् च केतकैर् अतिमुक्तकैः । (२२।२)

aśokaiḥ saptaparṇaiś ca ketakair atimuktakaiḥ |

22.3२२.३

अन्यैश् च विविधैर् वृक्षैः प्रमदेवोपशोभिताम् ॥ (२२।३)

anyaiś ca vividhair vṛkṣaiḥ pramadevopaśobhitām ||

23.1२३.१

अस्यास् तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः । (२३।१)

asyās tīre tu pūrvoktaḥ parvato dhātumaṇḍitaḥ |

23.2२३.२

ऋश्यमूक इति ख्यातश् चित्रपुष्पितकाननः ॥ (२३।२)

ṛśyamūka iti khyātaś citrapuṣpitakānanaḥ ||

24.1२४.१

हरिर् ऋक्षरजोनाम्नः पुत्रस् तस्य महात्मनः । (२४।१)

harir ṛkṣarajonāmnaḥ putras tasya mahātmanaḥ |

24.2२४.२

अध्यास्ते तं महावीर्यः सुग्रीव इति विश्रुतः ॥ (२४।२)

adhyāste taṃ mahāvīryaḥ sugrīva iti viśrutaḥ ||

25.1२५.१

सुग्रीवम् अभिगच्छ त्वं वानरेन्द्रं नरर्षभ । (२५।१)

sugrīvam abhigaccha tvaṃ vānarendraṃ nararṣabha |

25.2२५.२

इत्य् उवाच पुनर् वाक्यं लक्ष्मणं सत्यविक्रमम् ॥ (२५।२)

ity uvāca punar vākyaṃ lakṣmaṇaṃ satyavikramam ||

26.1२६.१

ततो महद् वर्त्म च दूरसंक्रमं क्रमेण गत्वा प्रविलोकयन् वनम् । (२६।१)

tato mahad vartma ca dūrasaṃkramaṃ krameṇa gatvā pravilokayan vanam |

26.2२६.२

ददर्श पम्पां शुभदर्शकाननाम् अनेकनानाविधपक्षिसंकुलाम् ॥ (२६।२)

dadarśa pampāṃ śubhadarśakānanām anekanānāvidhapakṣisaṃkulām ||

Data courtesy of The Digital Corpus of Sanskrit.

Rām, 3, 71

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit