Rām, 4, 49
Select a line for its word-by-word analysis.
सह ताराङ्गदाभ्यां तु संगम्य हनुमान् कपिः । (१।१)
saha tārāṅgadābhyāṃ tu saṃgamya hanumān kapiḥ |
विचिनोति स्म विन्ध्यस्य गुहाश् च गहनानि च ॥ (१।२)
vicinoti sma vindhyasya guhāś ca gahanāni ca ||
सिंहशार्दूलजुष्टाश् च गुहाश् च परितस् तथा । (२।१)
siṃhaśārdūlajuṣṭāś ca guhāś ca paritas tathā |
तत्र वायुसुतः सर्वं विचिनोति स्म पर्वतम् ॥ (४।२)
tatra vāyusutaḥ sarvaṃ vicinoti sma parvatam ||
मैन्दश् च द्विविदश् चैव हनुमाञ् जाम्बवान् अपि । (६।१)
maindaś ca dvividaś caiva hanumāñ jāmbavān api |
गिरिजालावृतान् देशान् मार्गित्वा दक्षिणां दिशम् । (७।१)
girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam |
क्षुत्पिपासापरीताश् च श्रान्ताश् च सलिलार्थिनः । (७।२)
kṣutpipāsāparītāś ca śrāntāś ca salilārthinaḥ |
ततः क्रौञ्चाश् च हंसाश् च सारसाश् चापि निष्क्रमन् । (८।१)
tataḥ krauñcāś ca haṃsāś ca sārasāś cāpi niṣkraman |
जलार्द्राश् चक्रवाकाश् च रक्ताङ्गाः पद्मरेणुभिः ॥ (८।२)
jalārdrāś cakravākāś ca raktāṅgāḥ padmareṇubhiḥ ||
ततस् तद् बिलम् आसाद्य सुगन्धि दुरतिक्रमम् । (९।१)
tatas tad bilam āsādya sugandhi duratikramam |
संजातपरिशङ्कास् ते तद् बिलं प्लवगोत्तमाः । (१०।१)
saṃjātapariśaṅkās te tad bilaṃ plavagottamāḥ |
अभ्यपद्यन्त संहृष्टास् तेजोवन्तो महाबलाः ॥ (१०।२)
abhyapadyanta saṃhṛṣṭās tejovanto mahābalāḥ ||
अब्रवीद् वानरान् सर्वान् कान्तारवनकोविदः ॥ (११।२)
abravīd vānarān sarvān kāntāravanakovidaḥ ||
गिरिजालावृतान् देशान् मार्गित्वा दक्षिणां दिशम् । (१२।१)
girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam |
वयं सर्वे परिश्रान्ता न च पश्यामि मैथिलीम् ॥ (१२।२)
vayaṃ sarve pariśrāntā na ca paśyāmi maithilīm ||
अस्माच्चापि बिलाद्धंसाः क्रौञ्चाश् च सह सारसैः । (१३।१)
asmāccāpi bilāddhaṃsāḥ krauñcāś ca saha sārasaiḥ |
जलार्द्राश् चक्रवाकाश् च निष्पतन्ति स्म सर्वशः ॥ (१३।२)
jalārdrāś cakravākāś ca niṣpatanti sma sarvaśaḥ ||
नूनं सलिलवान् अत्र कूपो वा यदि वा ह्रदः । (१४।१)
nūnaṃ salilavān atra kūpo vā yadi vā hradaḥ |
तथा चेमे बिलद्वारे स्निग्धास् तिष्ठन्ति पादपाः ॥ (१४।२)
tathā ceme biladvāre snigdhās tiṣṭhanti pādapāḥ ||
इत्य् उक्तास् तद् बिलं सर्वे विविशुस् तिमिरावृतम् । (१५।१)
ity uktās tad bilaṃ sarve viviśus timirāvṛtam |
अन्योन्यं सम्परिष्वज्य जग्मुर् योजनम् अन्तरम् ॥ (१६।२)
anyonyaṃ sampariṣvajya jagmur yojanam antaram ||
ते नष्टसंज्ञास् तृषिताः संभ्रान्ताः सलिलार्थिनः । (१७।१)
te naṣṭasaṃjñās tṛṣitāḥ saṃbhrāntāḥ salilārthinaḥ |
परिपेतुर् बिले तस्मिन् कंचित् कालम् अतन्द्रिताः ॥ (१७।२)
paripetur bile tasmin kaṃcit kālam atandritāḥ ||
ते कृशा दीनवदनाः परिश्रान्ताः प्लवंगमाः । (१८।१)
te kṛśā dīnavadanāḥ pariśrāntāḥ plavaṃgamāḥ |
ततस् तं देशम् आगम्य सौम्यं वितिमिरं वनम् । (१९।१)
tatas taṃ deśam āgamya saumyaṃ vitimiraṃ vanam |
ददृशुः काञ्चनान् वृक्षान् दीप्तवैश्वानरप्रभान् ॥ (१९।२)
dadṛśuḥ kāñcanān vṛkṣān dīptavaiśvānaraprabhān ||
सालांस् तालांश् च पुंनागान् ककुभान् वञ्जुलान् धवान् । (२०।१)
sālāṃs tālāṃś ca puṃnāgān kakubhān vañjulān dhavān |
चम्पकान् नागवृक्षांश् च कर्णिकारांश् च पुष्पितान् ॥ (२०।२)
campakān nāgavṛkṣāṃś ca karṇikārāṃś ca puṣpitān ||
नीलवैडूर्यवर्णाश् च पद्मिनीः पतगावृताः ॥ (२१।२)
nīlavaiḍūryavarṇāś ca padminīḥ patagāvṛtāḥ ||
महद्भिः काञ्चनैर् वृक्षैर् वृतं बालार्कसंनिभैः । (२२।१)
mahadbhiḥ kāñcanair vṛkṣair vṛtaṃ bālārkasaṃnibhaiḥ |
जातरूपमयैर् मत्स्यैर् महद्भिश् च सकच्छपैः ॥ (२२।२)
jātarūpamayair matsyair mahadbhiś ca sakacchapaiḥ ||
पुष्पितान् फलिनो वृक्षान् प्रवालमणिसंनिभान् ॥ (२५।२)
puṣpitān phalino vṛkṣān pravālamaṇisaṃnibhān ||
अगरूणां च दिव्यानां चन्दनानां च संचयान् । (२८।१)
agarūṇāṃ ca divyānāṃ candanānāṃ ca saṃcayān |
शुचीन्य् अभ्यवहार्याणि मूलानि च फलानि च ॥ (२८।२)
śucīny abhyavahāryāṇi mūlāni ca phalāni ca ||
दिव्यानाम् अम्बराणां च महार्हाणां च संचयान् । (२९।२)
divyānām ambarāṇāṃ ca mahārhāṇāṃ ca saṃcayān |
कम्बलानां च चित्राणाम् अजिनानां च संचयान् ॥ (२९।३)
kambalānāṃ ca citrāṇām ajinānāṃ ca saṃcayān ||
तत्र तत्र विचिन्वन्तो बिले तत्र महाप्रभाः । (३०।१)
tatra tatra vicinvanto bile tatra mahāprabhāḥ |
ददृशुर् वानराः शूराः स्त्रियं कांचिद् अदूरतः ॥ (३०।२)
dadṛśur vānarāḥ śūrāḥ striyaṃ kāṃcid adūrataḥ ||
तां दृष्ट्वा भृशसंत्रस्ताश् चीरकृष्णाजिनाम्बराम् । (३१।१)
tāṃ dṛṣṭvā bhṛśasaṃtrastāś cīrakṛṣṇājināmbarām |
ततो हनूमान् गिरिसंनिकाशः कृताञ्जलिस् ताम् अभिवाद्य वृद्धाम् । (३२।१)
tato hanūmān girisaṃnikāśaḥ kṛtāñjalis tām abhivādya vṛddhām |
पप्रच्छ का त्वं भवनं बिलं च रत्नानि चेमानि वदस्व कस्य ॥ (३२।२)
papraccha kā tvaṃ bhavanaṃ bilaṃ ca ratnāni cemāni vadasva kasya ||
Data courtesy of The Digital Corpus of Sanskrit.