Rām, 2, 74
Select a line for its word-by-word analysis.
स्वकर्माभिरताः शूराः खनका यन्त्रकास् तथा ॥ (१।२)
svakarmābhiratāḥ śūrāḥ khanakā yantrakās tathā ||
कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः । (२।१)
karmāntikāḥ sthapatayaḥ puruṣā yantrakovidāḥ |
तथा वर्धकयश् चैव मार्गिणो वृक्षतक्षकाः ॥ (२।२)
tathā vardhakayaś caiva mārgiṇo vṛkṣatakṣakāḥ ||
समर्था ये च द्रष्टारः पुरतस् ते प्रतस्थिरे ॥ (३।२)
samarthā ye ca draṣṭāraḥ puratas te pratasthire ||
स तु हर्षात् तम् उद्देशं जनौघो विपुलः प्रयान् । (४।१)
sa tu harṣāt tam uddeśaṃ janaugho vipulaḥ prayān |
ते स्ववारं समास्थाय वर्त्मकर्माणि कोविदाः । (५।१)
te svavāraṃ samāsthāya vartmakarmāṇi kovidāḥ |
करणैर् विविधोपेतैः पुरस्तात् सम्प्रतस्थिरे ॥ (५।२)
karaṇair vividhopetaiḥ purastāt sampratasthire ||
लतावल्लीश् च गुल्मांश् च स्थाणून् अश्मन एव च । (६।१)
latāvallīś ca gulmāṃś ca sthāṇūn aśmana eva ca |
जनास् ते चक्रिरे मार्गं छिन्दन्तो विविधान् द्रुमान् ॥ (६।२)
janās te cakrire mārgaṃ chindanto vividhān drumān ||
केचित् कुठारैष् टङ्कैश् च दात्रैश् छिन्दन् क्वचित् क्वचित् ॥ (७।२)
kecit kuṭhāraiṣ ṭaṅkaiś ca dātraiś chindan kvacit kvacit ||
विधमन्ति स्म दुर्गाणि स्थलानि च ततस् ततः ॥ (८।२)
vidhamanti sma durgāṇi sthalāni ca tatas tataḥ ||
अपरे ऽपूरयन् कूपान् पांसुभिः श्वभ्रम् आयतम् । (९।१)
apare 'pūrayan kūpān pāṃsubhiḥ śvabhram āyatam |
निम्नभागांस् तथा केचित् समांश् चक्रुः समन्ततः ॥ (९।२)
nimnabhāgāṃs tathā kecit samāṃś cakruḥ samantataḥ ||
बबन्धुर् बन्धनीयांश् च क्षोद्यान् संचुक्षुदुस् तदा । (१०।१)
babandhur bandhanīyāṃś ca kṣodyān saṃcukṣudus tadā |
बिभिदुर् भेदनीयांश् च तांस् तान् देशान् नरास् तदा ॥ (१०।२)
bibhidur bhedanīyāṃś ca tāṃs tān deśān narās tadā ||
चक्रुर् बहुविधाकारान् सागरप्रतिमान् बहून् । (११।२)
cakrur bahuvidhākārān sāgarapratimān bahūn |
मत्तोद्घुष्टद्विजगणः पताकाभिर् अलंकृतः ॥ (१२।२)
mattodghuṣṭadvijagaṇaḥ patākābhir alaṃkṛtaḥ ||
बह्व् अशोभत सेनायाः पन्थाः स्वर्गपथोपमः ॥ (१३।२)
bahv aśobhata senāyāḥ panthāḥ svargapathopamaḥ ||
आज्ञाप्याथ यथाज्ञप्ति युक्तास् ते ऽधिकृता नराः । (१४।१)
ājñāpyātha yathājñapti yuktās te 'dhikṛtā narāḥ |
यो निवेशस् त्व् अभिप्रेतो भरतस्य महात्मनः । (१५।१)
yo niveśas tv abhipreto bharatasya mahātmanaḥ |
भूयस् तं शोभयामासुर् भूषाभिर् भूषणोपमम् ॥ (१५।२)
bhūyas taṃ śobhayāmāsur bhūṣābhir bhūṣaṇopamam ||
नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः । (१६।१)
nakṣatreṣu praśasteṣu muhūrteṣu ca tadvidaḥ |
समुच्छ्रितैर् निवेशास् ते बभुः शक्रपुरोपमाः ॥ (१९।२)
samucchritair niveśās te babhuḥ śakrapuropamāḥ ||
सचन्द्रतारागणमण्डितं यथा नभः क्षपायाम् अमलं विराजते । (२१।१)
sacandratārāgaṇamaṇḍitaṃ yathā nabhaḥ kṣapāyām amalaṃ virājate |
नरेन्द्रमार्गः स तथा व्यराजत क्रमेण रम्यः शुभशिल्पिनिर्मितः ॥ (२१।२)
narendramārgaḥ sa tathā vyarājata krameṇa ramyaḥ śubhaśilpinirmitaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.