Rām, 3, 11
Select a line for its word-by-word analysis.
रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया ॥ (२।२)
rāmaḥ prāpto muniṃ draṣṭuṃ bhāryayā saha sītayā ||
लक्ष्मणो नाम तस्याहं भ्राता त्व् अवरजो हितः । (३।१)
lakṣmaṇo nāma tasyāhaṃ bhrātā tv avarajo hitaḥ |
अनुकूलश् च भक्तश् च यदि ते श्रोत्रम् आगतः ॥ (३।२)
anukūlaś ca bhaktaś ca yadi te śrotram āgataḥ ||
ते वयं वनम् अत्युग्रं प्रविष्टाः पितृशासनात् । (४।१)
te vayaṃ vanam atyugraṃ praviṣṭāḥ pitṛśāsanāt |
द्रष्टुम् इच्छामहे सर्वे भगवन्तं निवेद्यताम् ॥ (४।२)
draṣṭum icchāmahe sarve bhagavantaṃ nivedyatām ||
तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य तपोधनः । (५।१)
tasya tadvacanaṃ śrutvā lakṣmaṇasya tapodhanaḥ |
तथेत्य् उक्त्वाग्निशरणं प्रविवेश निवेदितुम् ॥ (५।२)
tathety uktvāgniśaraṇaṃ praviveśa niveditum ||
स प्रविश्य मुनिश्रेष्ठं तपसा दुष्प्रधर्षणम् । (६।१)
sa praviśya muniśreṣṭhaṃ tapasā duṣpradharṣaṇam |
द्रष्टुं भवन्तम् आयातौ शुश्रूषार्थम् अरिंदमौ । (८।१)
draṣṭuṃ bhavantam āyātau śuśrūṣārtham ariṃdamau |
यद् अत्रानन्तरं तत्त्वम् आज्ञापयितुम् अर्हसि ॥ (८।२)
yad atrānantaraṃ tattvam ājñāpayitum arhasi ||
ततः शिष्याद् उपश्रुत्य प्राप्तं रामं सलक्ष्मणम् । (९।१)
tataḥ śiṣyād upaśrutya prāptaṃ rāmaṃ salakṣmaṇam |
दिष्ट्या रामश् चिरस्याद्य द्रष्टुं मां समुपागतः । (१०।१)
diṣṭyā rāmaś cirasyādya draṣṭuṃ māṃ samupāgataḥ |
मनसा काङ्क्षितं ह्य् अस्य मयाप्य् आगमनं प्रति ॥ (१०।२)
manasā kāṅkṣitaṃ hy asya mayāpy āgamanaṃ prati ||
गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणः । (११।१)
gamyatāṃ satkṛto rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ |
प्रवेश्यतां समीपं मे किं चासौ न प्रवेशितः ॥ (११।२)
praveśyatāṃ samīpaṃ me kiṃ cāsau na praveśitaḥ ||
एवम् उक्तस् तु मुनिना धर्मज्ञेन महात्मना । (१२।१)
evam uktas tu muninā dharmajñena mahātmanā |
अभिवाद्याब्रवीच् छिष्यस् तथेति नियताञ्जलिः ॥ (१२।२)
abhivādyābravīc chiṣyas tatheti niyatāñjaliḥ ||
ततो निष्क्रम्य संभ्रान्तः शिष्यो लक्ष्मणम् अब्रवीत् । (१३।१)
tato niṣkramya saṃbhrāntaḥ śiṣyo lakṣmaṇam abravīt |
क्वासौ रामो मुनिं द्रष्टुम् एतु प्रविशतु स्वयम् ॥ (१३।२)
kvāsau rāmo muniṃ draṣṭum etu praviśatu svayam ||
दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम् ॥ (१४।२)
darśayāmāsa kākutsthaṃ sītāṃ ca janakātmajām ||
तं शिष्यः प्रश्रितं वाक्यम् अगस्त्यवचनं ब्रुवन् । (१५।१)
taṃ śiṣyaḥ praśritaṃ vākyam agastyavacanaṃ bruvan |
प्रावेशयद् यथान्यायं सत्कारार्थं सुसत्कृतम् ॥ (१५।२)
prāveśayad yathānyāyaṃ satkārārthaṃ susatkṛtam ||
प्रशान्तहरिणाकीर्णम् आश्रमं ह्य् अवलोकयन् ॥ (१६।२)
praśāntahariṇākīrṇam āśramaṃ hy avalokayan ||
स तत्र ब्रह्मणः स्थानम् अग्नेः स्थानं तथैव च । (१७।१)
sa tatra brahmaṇaḥ sthānam agneḥ sthānaṃ tathaiva ca |
विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः ॥ (१७।२)
viṣṇoḥ sthānaṃ mahendrasya sthānaṃ caiva vivasvataḥ ||
सोमस्थानं भगस्थानं स्थानं कौबेरम् एव च । (१८।१)
somasthānaṃ bhagasthānaṃ sthānaṃ kauberam eva ca |
धातुर् विधातुः स्थानं च वायोः स्थानं तथैव च ॥ (१८।२)
dhātur vidhātuḥ sthānaṃ ca vāyoḥ sthānaṃ tathaiva ca ||
ततः शिष्यैः परिवृतो मुनिर् अप्य् अभिनिष्पतत् । (१९।१)
tataḥ śiṣyaiḥ parivṛto munir apy abhiniṣpatat |
तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसम् । (१९।२)
taṃ dadarśāgrato rāmo munīnāṃ dīptatejasam |
अब्रवीद् वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम् ॥ (१९।३)
abravīd vacanaṃ vīro lakṣmaṇaṃ lakṣmivardhanam ||
एष लक्ष्मण निष्क्रामत्य् अगस्त्यो भगवान् ऋषिः । (२०।१)
eṣa lakṣmaṇa niṣkrāmaty agastyo bhagavān ṛṣiḥ |
एवम् उक्त्वा महाबाहुर् अगस्त्यं सूर्यवर्चसम् । (२१।१)
evam uktvā mahābāhur agastyaṃ sūryavarcasam |
अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः । (२२।१)
abhivādya tu dharmātmā tasthau rāmaḥ kṛtāñjaliḥ |
प्रतिगृह्य च काकुत्स्थम् अर्चयित्वासनोदकैः । (२३।१)
pratigṛhya ca kākutstham arcayitvāsanodakaiḥ |
कुशलप्रश्नम् उक्त्वा च आस्यताम् इति सो ऽब्रवीत् ॥ (२३।२)
kuśalapraśnam uktvā ca āsyatām iti so 'bravīt ||
अग्निं हुत्वा प्रदायार्घ्यम् अतिथिं प्रतिपूज्य च । (२४।१)
agniṃ hutvā pradāyārghyam atithiṃ pratipūjya ca |
वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ ॥ (२४।२)
vānaprasthena dharmeṇa sa teṣāṃ bhojanaṃ dadau ||
प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुंगवः । (२५।१)
prathamaṃ copaviśyātha dharmajño munipuṃgavaḥ |
उवाच रामम् आसीनं प्राञ्जलिं धर्मकोविदम् ॥ (२५।२)
uvāca rāmam āsīnaṃ prāñjaliṃ dharmakovidam ||
दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत् ॥ (२६।२)
duḥsākṣīva pare loke svāni māṃsāni bhakṣayet ||
पूजनीयश् च मान्यश् च भवान् प्राप्तः प्रियातिथिः ॥ (२७।२)
pūjanīyaś ca mānyaś ca bhavān prāptaḥ priyātithiḥ ||
एवम् उक्त्वा फलैर् मूलैः पुष्पैश् चान्यैश् च राघवम् । (२८।१)
evam uktvā phalair mūlaiḥ puṣpaiś cānyaiś ca rāghavam |
पूजयित्वा यथाकामं पुनर् एव ततो ऽब्रवीत् ॥ (२८।२)
pūjayitvā yathākāmaṃ punar eva tato 'bravīt ||
वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा ॥ (२९।२)
vaiṣṇavaṃ puruṣavyāghra nirmitaṃ viśvakarmaṇā ||
अमोघः सूर्यसंकाशो ब्रह्मदत्तः शरोत्तमः । (३०।१)
amoghaḥ sūryasaṃkāśo brahmadattaḥ śarottamaḥ |
सम्पूर्णौ निशितैर् बाणैर् ज्वलद्भिर् इव पावकैः । (३१।१)
sampūrṇau niśitair bāṇair jvaladbhir iva pāvakaiḥ |
आजहार श्रियं दीप्तां पुरा विष्णुर् दिवौकसाम् ॥ (३२।२)
ājahāra śriyaṃ dīptāṃ purā viṣṇur divaukasām ||
तद् धनुस् तौ च तूणीरौ शरं खड्गं च मानद । (३३।१)
tad dhanus tau ca tūṇīrau śaraṃ khaḍgaṃ ca mānada |
जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा ॥ (३३।२)
jayāya pratigṛhṇīṣva vajraṃ vajradharo yathā ||
एवम् उक्त्वा महातेजाः समस्तं तद् वरायुधम् । (३४।१)
evam uktvā mahātejāḥ samastaṃ tad varāyudham |
दत्त्वा रामाय भगवान् अगस्त्यः पुनर् अब्रवीत् ॥ (३४।२)
dattvā rāmāya bhagavān agastyaḥ punar abravīt ||
Data courtesy of The Digital Corpus of Sanskrit.