Rām, 1, 53
Select a line for its word-by-word analysis.
कामधेनुं वसिष्ठो ऽपि यदा न त्यजते मुनिः । (१।१)
kāmadhenuṃ vasiṣṭho 'pi yadā na tyajate muniḥ |
याहं राजभृतैर् दीना ह्रियेयं भृशदुःखिता ॥ (३।२)
yāhaṃ rājabhṛtair dīnā hriyeyaṃ bhṛśaduḥkhitā ||
यन् माम् अनागसं भक्ताम् इष्टां त्यजति धार्मिकः ॥ (४।२)
yan mām anāgasaṃ bhaktām iṣṭāṃ tyajati dhārmikaḥ ||
इति सा चिन्तयित्वा तु निःश्वस्य च पुनः पुनः । (५।१)
iti sā cintayitvā tu niḥśvasya ca punaḥ punaḥ |
निर्धूय तांस् तदा भृत्याञ् शतशः शत्रुसूदन । (६।१)
nirdhūya tāṃs tadā bhṛtyāñ śataśaḥ śatrusūdana |
शबला सा रुदन्ती च क्रोशन्ती चेदम् अब्रवीत् । (७।१)
śabalā sā rudantī ca krośantī cedam abravīt |
वसिष्ठस्याग्रतः स्थित्वा मेघदुन्दुभिराविणी ॥ (७।२)
vasiṣṭhasyāgrataḥ sthitvā meghadundubhirāviṇī ||
भगवन् किं परित्यक्ता त्वयाहं ब्रह्मणः सुत । (८।१)
bhagavan kiṃ parityaktā tvayāhaṃ brahmaṇaḥ suta |
यस्माद् राजभृता मां हि नयन्ते त्वत्सकाशतः ॥ (८।२)
yasmād rājabhṛtā māṃ hi nayante tvatsakāśataḥ ||
एवम् उक्तस् तु ब्रह्मर्षिर् इदं वचनम् अब्रवीत् । (९।१)
evam uktas tu brahmarṣir idaṃ vacanam abravīt |
न त्वां त्यजामि शबले नापि मे ऽपकृतं त्वया । (१०।१)
na tvāṃ tyajāmi śabale nāpi me 'pakṛtaṃ tvayā |
न हि तुल्यं बलं मह्यं राजा त्व् अद्य विशेषतः । (११।१)
na hi tulyaṃ balaṃ mahyaṃ rājā tv adya viśeṣataḥ |
बली राजा क्षत्रियश् च पृथिव्याः पतिर् एव च ॥ (११।२)
balī rājā kṣatriyaś ca pṛthivyāḥ patir eva ca ||
वचनं वचनज्ञा सा ब्रह्मर्षिम् अमितप्रभम् ॥ (१३।२)
vacanaṃ vacanajñā sā brahmarṣim amitaprabham ||
न बलं क्षत्रियस्याहुर् ब्राह्मणो बलवत्तरः । (१४।१)
na balaṃ kṣatriyasyāhur brāhmaṇo balavattaraḥ |
ब्रह्मन् ब्रह्मबलं दिव्यं क्षत्रात् तु बलवत्तरम् ॥ (१४।२)
brahman brahmabalaṃ divyaṃ kṣatrāt tu balavattaram ||
विश्वामित्रो महावीर्यस् तेजस् तव दुरासदम् ॥ (१५।२)
viśvāmitro mahāvīryas tejas tava durāsadam ||
नियुङ्क्ष्व मां महातेजस् त्वद्ब्रह्मबलसंभृताम् । (१६।१)
niyuṅkṣva māṃ mahātejas tvadbrahmabalasaṃbhṛtām |
तस्य दर्पं बलं यत् तन् नाशयामि दुरात्मनः ॥ (१६।२)
tasya darpaṃ balaṃ yat tan nāśayāmi durātmanaḥ ||
इत्य् उक्तस् तु तया राम वसिष्ठः सुमहायशाः । (१७।१)
ity uktas tu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ |
तस्या हुम्भारवोत्सृष्टाः पह्लवाः शतशो नृप । (१८।१)
tasyā humbhāravotsṛṣṭāḥ pahlavāḥ śataśo nṛpa |
नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः ॥ (१८।२)
nāśayanti balaṃ sarvaṃ viśvāmitrasya paśyataḥ ||
स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः । (१९।१)
sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ |
पह्लवान् नाशयामास शस्त्रैर् उच्चावचैर् अपि ॥ (१९।२)
pahlavān nāśayāmāsa śastrair uccāvacair api ||
विश्वामित्रार्दितान् दृष्ट्वा पह्लवाञ् शतशस् तदा । (२०।१)
viśvāmitrārditān dṛṣṭvā pahlavāñ śataśas tadā |
भूय एवासृजद् घोराञ् शकान् यवनमिश्रितान् ॥ (२०।२)
bhūya evāsṛjad ghorāñ śakān yavanamiśritān ||
तैर् आसीत् संवृता भूमिः शकैर् यवनमिश्रितैः । (२१।१)
tair āsīt saṃvṛtā bhūmiḥ śakair yavanamiśritaiḥ |
प्रभावद्भिर् महावीर्यैर् हेमकिञ्जल्कसंनिभैः ॥ (२१।२)
prabhāvadbhir mahāvīryair hemakiñjalkasaṃnibhaiḥ ||
दीर्घासिपट्टिशधरैर् हेमवर्णाम्बरावृतैः । (२२।१)
dīrghāsipaṭṭiśadharair hemavarṇāmbarāvṛtaiḥ |
निर्दग्धं तद् बलं सर्वं प्रदीप्तैर् इव पावकैः ॥ (२२।२)
nirdagdhaṃ tad balaṃ sarvaṃ pradīptair iva pāvakaiḥ ||
ततो ऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह ॥ (२३।१)
tato 'strāṇi mahātejā viśvāmitro mumoca ha ||
Data courtesy of The Digital Corpus of Sanskrit.