रामायणRāmāyaṇa

Rām, 3, 1

188 of 606 · 44 verses

Select a line for its word-by-word analysis.

1.1१.१

प्रविश्य तु महारण्यं दण्डकारण्यम् आत्मवान् । (१।१)

praviśya tu mahāraṇyaṃ daṇḍakāraṇyam ātmavān |

1.2१.२

ददर्श रामो दुर्धर्षस् तापसाश्रममण्डलम् ॥ (१।२)

dadarśa rāmo durdharṣas tāpasāśramamaṇḍalam ||

2.1२.१

कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम् । (२।१)

kuśacīraparikṣiptaṃ brāhmyā lakṣmyā samāvṛtam |

2.2२.२

यथा प्रदीप्तं दुर्धर्षं गगने सूर्यमण्डलम् ॥ (२।२)

yathā pradīptaṃ durdharṣaṃ gagane sūryamaṇḍalam ||

3.1३.१

शरण्यं सर्वभूतानां सुसंमृष्टाजिरं सदा । (३।१)

śaraṇyaṃ sarvabhūtānāṃ susaṃmṛṣṭājiraṃ sadā |

3.2३.२

पूजितं चोपनृत्तं च नित्यम् अप्सरसां गणैः ॥ (३।२)

pūjitaṃ copanṛttaṃ ca nityam apsarasāṃ gaṇaiḥ ||

4.1४.१

विशालैर् अग्निशरणैः स्रुग्भाण्डैर् अजिनैः कुशैः । (४।१)

viśālair agniśaraṇaiḥ srugbhāṇḍair ajinaiḥ kuśaiḥ |

4.2४.२

समिद्भिस् तोयकलशैः फलमूलैश् च शोभितम् ॥ (४।२)

samidbhis toyakalaśaiḥ phalamūlaiś ca śobhitam ||

5.1५.१

आरण्यैश् च महावृक्षैः पुण्यैः स्वादुफलैर् वृतम् । (५।१)

āraṇyaiś ca mahāvṛkṣaiḥ puṇyaiḥ svāduphalair vṛtam |

5.2५.२

बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम् ॥ (५।२)

balihomārcitaṃ puṇyaṃ brahmaghoṣanināditam ||

6.1६.१

पुष्पैर् वन्यैः परिक्षिप्तं पद्मिन्या च सपद्मया । (६।१)

puṣpair vanyaiḥ parikṣiptaṃ padminyā ca sapadmayā |

6.2६.२

फलमूलाशनैर् दान्तैश् चीरकृष्णाजिनाम्बरैः ॥ (६।२)

phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ ||

7.1७.१

सूर्यवैश्वानराभैश् च पुराणैर् मुनिभिर् वृतम् । (७।१)

sūryavaiśvānarābhaiś ca purāṇair munibhir vṛtam |

7.2७.२

पुण्यैश् च नियताहारैः शोभितं परमर्षिभिः ॥ (७।२)

puṇyaiś ca niyatāhāraiḥ śobhitaṃ paramarṣibhiḥ ||

8.1८.१

तद् ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम् । (८।१)

tad brahmabhavanaprakhyaṃ brahmaghoṣanināditam |

8.2८.२

ब्रह्मविद्भिर् महाभागैर् ब्राह्मणैर् उपशोभितम् ॥ (८।२)

brahmavidbhir mahābhāgair brāhmaṇair upaśobhitam ||

9.1९.१

तद् दृष्ट्वा राघवः श्रीमांस् तापसाश्रममण्डलम् । (९।१)

tad dṛṣṭvā rāghavaḥ śrīmāṃs tāpasāśramamaṇḍalam |

9.2९.२

अभ्यगच्छन् महातेजा विज्यं कृत्वा महद् धनुः ॥ (९।२)

abhyagacchan mahātejā vijyaṃ kṛtvā mahad dhanuḥ ||

10.1१०.१

दिव्यज्ञानोपपन्नास् ते रामं दृष्ट्वा महर्षयः । (१०।१)

divyajñānopapannās te rāmaṃ dṛṣṭvā maharṣayaḥ |

10.2१०.२

अभ्यगच्छंस् तदा प्रीता वैदेहीं च यशस्विनीम् ॥ (१०।२)

abhyagacchaṃs tadā prītā vaidehīṃ ca yaśasvinīm ||

11.1११.१

ते तं सोमम् इवोद्यन्तं दृष्ट्वा वै धर्मचारिणः । (११।१)

te taṃ somam ivodyantaṃ dṛṣṭvā vai dharmacāriṇaḥ |

11.2११.२

मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढव्रताः ॥ (११।२)

maṅgalāni prayuñjānāḥ pratyagṛhṇan dṛḍhavratāḥ ||

12.1१२.१

रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम् । (१२।१)

rūpasaṃhananaṃ lakṣmīṃ saukumāryaṃ suveṣatām |

12.2१२.२

ददृशुर् विस्मिताकारा रामस्य वनवासिनः ॥ (१२।२)

dadṛśur vismitākārā rāmasya vanavāsinaḥ ||

13.1१३.१

वैदेहीं लक्ष्मणं रामं नेत्रैर् अनिमिषैर् इव । (१३।१)

vaidehīṃ lakṣmaṇaṃ rāmaṃ netrair animiṣair iva |

13.2१३.२

आश्चर्यभूतान् ददृशुः सर्वे ते वनचारिणः ॥ (१३।२)

āścaryabhūtān dadṛśuḥ sarve te vanacāriṇaḥ ||

14.1१४.१

अत्रैनं हि महाभागाः सर्वभूतहिते रताः । (१४।१)

atrainaṃ hi mahābhāgāḥ sarvabhūtahite ratāḥ |

14.2१४.२

अतिथिं पर्णशालायां राघवं संन्यवेशयन् ॥ (१४।२)

atithiṃ parṇaśālāyāṃ rāghavaṃ saṃnyaveśayan ||

15.1१५.१

ततो रामस्य सत्कृत्य विधिना पावकोपमाः । (१५।१)

tato rāmasya satkṛtya vidhinā pāvakopamāḥ |

15.2१५.२

आजह्रुस् ते महाभागाः सलिलं धर्मचारिणः ॥ (१५।२)

ājahrus te mahābhāgāḥ salilaṃ dharmacāriṇaḥ ||

16.1१६.१

मूलं पुष्पं फलं वन्यम् आश्रमं च महात्मनः । (१६।१)

mūlaṃ puṣpaṃ phalaṃ vanyam āśramaṃ ca mahātmanaḥ |

16.2१६.२

निवेदयित्वा धर्मज्ञास् ततः प्राञ्जलयो ऽब्रुवन् ॥ (१६।२)

nivedayitvā dharmajñās tataḥ prāñjalayo 'bruvan ||

17.1१७.१

धर्मपालो जनस्यास्य शरण्यश् च महायशाः । (१७।१)

dharmapālo janasyāsya śaraṇyaś ca mahāyaśāḥ |

17.2१७.२

पूजनीयश् च मान्यश् च राजा दण्डधरो गुरुः ॥ (१७।२)

pūjanīyaś ca mānyaś ca rājā daṇḍadharo guruḥ ||

18.1१८.१

इन्द्रस्येव चतुर्भागः प्रजा रक्षति राघव । (१८।१)

indrasyeva caturbhāgaḥ prajā rakṣati rāghava |

18.2१८.२

राजा तस्माद् वरान् भोगान् भुङ्क्ते लोकनमस्कृतः ॥ (१८।२)

rājā tasmād varān bhogān bhuṅkte lokanamaskṛtaḥ ||

19.1१९.१

ते वयं भवता रक्ष्या भवद्विषयवासिनः । (१९।१)

te vayaṃ bhavatā rakṣyā bhavadviṣayavāsinaḥ |

19.2१९.२

नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः ॥ (१९।२)

nagarastho vanastho vā tvaṃ no rājā janeśvaraḥ ||

20.1२०.१

न्यस्तदण्डा वयं राजञ् जितक्रोधा जितेन्द्रियाः । (२०।१)

nyastadaṇḍā vayaṃ rājañ jitakrodhā jitendriyāḥ |

20.2२०.२

रक्षितव्यास् त्वया शश्वद् गर्भभूतास् तपोधनाः ॥ (२०।२)

rakṣitavyās tvayā śaśvad garbhabhūtās tapodhanāḥ ||

21.1२१.१

एवम् उक्त्वा फलैर् मूलैः पुष्पैर् वन्यैश् च राघवम् । (२१।१)

evam uktvā phalair mūlaiḥ puṣpair vanyaiś ca rāghavam |

21.2२१.२

अन्यैश् च विविधाहारैः सलक्ष्मणम् अपूजयन् ॥ (२१।२)

anyaiś ca vividhāhāraiḥ salakṣmaṇam apūjayan ||

22.1२२.१

तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः । (२२।१)

tathānye tāpasāḥ siddhā rāmaṃ vaiśvānaropamāḥ |

22.2२२.२

न्यायवृत्ता यथान्यायं तर्पयामासुर् ईश्वरम् ॥ (२२।२)

nyāyavṛttā yathānyāyaṃ tarpayāmāsur īśvaram ||

Data courtesy of The Digital Corpus of Sanskrit.

Rām, 3, 1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit