रामायणRāmāyaṇa

Rām, 3, 13

200 of 606 · 72 verses

Select a line for its word-by-word analysis.

1.1१.१

अथ पञ्चवटीं गच्छन्न् अन्तरा रघुनन्दनः । (१।१)

atha pañcavaṭīṃ gacchann antarā raghunandanaḥ |

1.2१.२

आससाद महाकायं गृध्रं भीमपराक्रमम् ॥ (१।२)

āsasāda mahākāyaṃ gṛdhraṃ bhīmaparākramam ||

2.1२.१

तं दृष्ट्वा तौ महाभागौ वनस्थं रामलक्ष्मणौ । (२।१)

taṃ dṛṣṭvā tau mahābhāgau vanasthaṃ rāmalakṣmaṇau |

2.2२.२

मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवान् इति ॥ (२।२)

menāte rākṣasaṃ pakṣiṃ bruvāṇau ko bhavān iti ||

3.1३.१

स तौ मधुरया वाचा सौम्यया प्रीणयन्न् इव । (३।१)

sa tau madhurayā vācā saumyayā prīṇayann iva |

3.2३.२

उवाच वत्स मां विद्धि वयस्यं पितुर् आत्मनः ॥ (३।२)

uvāca vatsa māṃ viddhi vayasyaṃ pitur ātmanaḥ ||

4.1४.१

स तं पितृसखं बुद्ध्वा पूजयामास राघवः । (४।१)

sa taṃ pitṛsakhaṃ buddhvā pūjayāmāsa rāghavaḥ |

4.2४.२

स तस्य कुलम् अव्यग्रम् अथ पप्रच्छ नाम च ॥ (४।२)

sa tasya kulam avyagram atha papraccha nāma ca ||

5.1५.१

रामस्य वचनं श्रुत्वा कुलम् आत्मानम् एव च । (५।१)

rāmasya vacanaṃ śrutvā kulam ātmānam eva ca |

5.2५.२

आचचक्षे द्विजस् तस्मै सर्वभूतसमुद्भवम् ॥ (५।२)

ācacakṣe dvijas tasmai sarvabhūtasamudbhavam ||

6.1६.१

पूर्वकाले महाबाहो ये प्रजापतयो ऽभवन् । (६।१)

pūrvakāle mahābāho ye prajāpatayo 'bhavan |

6.2६.२

तान् मे निगदतः सर्वान् आदितः शृणु राघव ॥ (६।२)

tān me nigadataḥ sarvān āditaḥ śṛṇu rāghava ||

7.1७.१

कर्दमः प्रथमस् तेषां विकृतस् तदनन्तरम् । (७।१)

kardamaḥ prathamas teṣāṃ vikṛtas tadanantaram |

7.2७.२

शेषश् च संश्रयश् चैव बहुपुत्रश् च वीर्यवान् ॥ (७।२)

śeṣaś ca saṃśrayaś caiva bahuputraś ca vīryavān ||

8.1८.१

स्थाणुर् मरीचिर् अत्रिश् च क्रतुश् चैव महाबलः । (८।१)

sthāṇur marīcir atriś ca kratuś caiva mahābalaḥ |

8.2८.२

पुलस्त्यश् चाङ्गिराश् चैव प्रचेताः पुलहस् तथा ॥ (८।२)

pulastyaś cāṅgirāś caiva pracetāḥ pulahas tathā ||

9.1९.१

दक्षो विवस्वान् अपरो ऽरिष्टनेमिश् च राघव । (९।१)

dakṣo vivasvān aparo 'riṣṭanemiś ca rāghava |

9.2९.२

कश्यपश् च महातेजास् तेषाम् आसीच् च पश्चिमः ॥ (९।२)

kaśyapaś ca mahātejās teṣām āsīc ca paścimaḥ ||

10.1१०.१

प्रजापतेस् तु दक्षस्य बभूवुर् इति नः श्रुतम् । (१०।१)

prajāpates tu dakṣasya babhūvur iti naḥ śrutam |

10.2१०.२

षष्टिर् दुहितरो राम यशस्विन्यो महायशः ॥ (१०।२)

ṣaṣṭir duhitaro rāma yaśasvinyo mahāyaśaḥ ||

11.1११.१

कश्यपः प्रतिजग्राह तासाम् अष्टौ सुमध्यमाः । (११।१)

kaśyapaḥ pratijagrāha tāsām aṣṭau sumadhyamāḥ |

11.2११.२

अदितिं च दितिं चैव दनुम् अपि च कालकाम् ॥ (११।२)

aditiṃ ca ditiṃ caiva danum api ca kālakām ||

12.1१२.१

ताम्रां क्रोधवशां चैव मनुं चाप्य् अनलाम् अपि । (१२।१)

tāmrāṃ krodhavaśāṃ caiva manuṃ cāpy analām api |

12.2१२.२

तास् तु कन्यास् ततः प्रीतः कश्यपः पुनर् अब्रवीत् ॥ (१२।२)

tās tu kanyās tataḥ prītaḥ kaśyapaḥ punar abravīt ||

13.1१३.१

पुत्रांस् त्रैलोक्यभर्तॄन् वै जनयिष्यथ मत्समान् । (१३।१)

putrāṃs trailokyabhartṝn vai janayiṣyatha matsamān |

13.2१३.२

अदितिस् तन्मना राम दितिश् च दनुर् एव च ॥ (१३।२)

aditis tanmanā rāma ditiś ca danur eva ca ||

14.1१४.१

कालका च महाबाहो शेषास् त्व् अमनसो ऽभवन् । (१४।१)

kālakā ca mahābāho śeṣās tv amanaso 'bhavan |

14.2१४.२

अदित्यां जज्ञिरे देवास् त्रयस्त्रिंशद् अरिंदम ॥ (१४।२)

adityāṃ jajñire devās trayastriṃśad ariṃdama ||

15.1१५.१

आदित्या वसवो रुद्रा अश्विनौ च परंतप । (१५।१)

ādityā vasavo rudrā aśvinau ca paraṃtapa |

15.2१५.२

दितिस् त्व् अजनयत् पुत्रान् दैत्यांस् तात यशस्विनः ॥ (१५।२)

ditis tv ajanayat putrān daityāṃs tāta yaśasvinaḥ ||

16.1१६.१

तेषाम् इयं वसुमती पुरासीत् सवनार्णवा । (१६।१)

teṣām iyaṃ vasumatī purāsīt savanārṇavā |

16.2१६.२

दनुस् त्व् अजनयत् पुत्रम् अश्वग्रीवम् अरिंदम ॥ (१६।२)

danus tv ajanayat putram aśvagrīvam ariṃdama ||

17.1१७.१

नरकं कालकं चैव कालकापि व्यजायत । (१७।१)

narakaṃ kālakaṃ caiva kālakāpi vyajāyata |

17.2१७.२

क्रौञ्चीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम् ॥ (१७।२)

krauñcīṃ bhāsīṃ tathā śyenīṃ dhṛtarāṣṭrīṃ tathā śukīm ||

18.1१८.१

ताम्रापि सुषुवे कन्याः पञ्चैता लोकविश्रुताः । (१८।१)

tāmrāpi suṣuve kanyāḥ pañcaitā lokaviśrutāḥ |

18.2१८.२

उलूकाञ् जनयत् क्रौञ्ची भासी भासान् व्यजायत ॥ (१८।२)

ulūkāñ janayat krauñcī bhāsī bhāsān vyajāyata ||

19.1१९.१

श्येनी श्येनांश् च गृध्रांश् च व्यजायत सुतेजसः । (१९।१)

śyenī śyenāṃś ca gṛdhrāṃś ca vyajāyata sutejasaḥ |

19.2१९.२

धृतराष्ट्री तु हंसांश् च कलहंसांश् च सर्वशः ॥ (१९।२)

dhṛtarāṣṭrī tu haṃsāṃś ca kalahaṃsāṃś ca sarvaśaḥ ||

20.1२०.१

चक्रवाकांश् च भद्रं ते विजज्ञे सापि भामिनी । (२०।१)

cakravākāṃś ca bhadraṃ te vijajñe sāpi bhāminī |

20.2२०.२

शुकी नतां विजज्ञे तु नताया विनता सुता ॥ (२०।२)

śukī natāṃ vijajñe tu natāyā vinatā sutā ||

21.1२१.१

दश क्रोधवशा राम विजज्ञे ऽप्य् आत्मसम्भवाः । (२१।१)

daśa krodhavaśā rāma vijajñe 'py ātmasambhavāḥ |

21.2२१.२

मृगीं च मृगमन्दां च हरीं भद्रमदाम् अपि ॥ (२१।२)

mṛgīṃ ca mṛgamandāṃ ca harīṃ bhadramadām api ||

22.1२२.१

मातंगीम् अथ शार्दूलीं श्वेतां च सुरभीं तथा । (२२।१)

mātaṃgīm atha śārdūlīṃ śvetāṃ ca surabhīṃ tathā |

22.2२२.२

सर्वलक्षणसम्पन्नां सुरसां कद्रुकाम् अपि ॥ (२२।२)

sarvalakṣaṇasampannāṃ surasāṃ kadrukām api ||

23.1२३.१

अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम । (२३।१)

apatyaṃ tu mṛgāḥ sarve mṛgyā naravarottama |

23.2२३.२

ऋक्षाश् च मृगमन्दायाः सृमराश् चमरास् तथा ॥ (२३।२)

ṛkṣāś ca mṛgamandāyāḥ sṛmarāś camarās tathā ||

24.1२४.१

ततस् त्व् इरावतीं नाम जज्ञे भद्रमदा सुताम् । (२४।१)

tatas tv irāvatīṃ nāma jajñe bhadramadā sutām |

24.2२४.२

तस्यास् त्व् ऐरावतः पुत्रो लोकनाथो महागजः ॥ (२४।२)

tasyās tv airāvataḥ putro lokanātho mahāgajaḥ ||

25.1२५.१

हर्याश् च हरयो ऽपत्यं वानराश् च तपस्विनः । (२५।१)

haryāś ca harayo 'patyaṃ vānarāś ca tapasvinaḥ |

25.2२५.२

गोलाङ्गूलांश् च शार्दूली व्याघ्रांश् चाजनयत् सुतान् ॥ (२५।२)

golāṅgūlāṃś ca śārdūlī vyāghrāṃś cājanayat sutān ||

26.1२६.१

मातंग्यास् त्व् अथ मातंगा अपत्यं मनुजर्षभ । (२६।१)

mātaṃgyās tv atha mātaṃgā apatyaṃ manujarṣabha |

26.2२६.२

दिशागजं तु श्वेताक्षं श्वेता व्यजनयत् सुतम् ॥ (२६।२)

diśāgajaṃ tu śvetākṣaṃ śvetā vyajanayat sutam ||

27.1२७.१

ततो दुहितरौ राम सुरभिर् देव्य् अजायत । (२७।१)

tato duhitarau rāma surabhir devy ajāyata |

27.2२७.२

रोहिणीं नाम भद्रं ते गन्धर्वीं च यशस्विनीम् ॥ (२७।२)

rohiṇīṃ nāma bhadraṃ te gandharvīṃ ca yaśasvinīm ||

28.1२८.१

रोहिण्य् अजनयद् गा वै गन्धर्वी वाजिनः सुतान् । (२८।१)

rohiṇy ajanayad gā vai gandharvī vājinaḥ sutān |

28.2२८.२

सुरसाजनयन् नागान् राम कद्रूश् च पन्नगान् ॥ (२८।२)

surasājanayan nāgān rāma kadrūś ca pannagān ||

29.1२९.१

ओरिगिन् ओड़् चस्तेस्मनुर् मनुष्याञ् जनयत् कश्यपस्य महात्मनः । (२९।१)

origin of castesmanur manuṣyāñ janayat kaśyapasya mahātmanaḥ |

29.2२९.२

ब्राह्मणान् क्षत्रियान् वैश्याञ् शूद्रांश् च मनुजर्षभ ॥ (२९।२)

brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś ca manujarṣabha ||

30.1३०.१

मुखतो ब्राह्मणा जाता उरसः क्षत्रियास् तथा । (३०।१)

mukhato brāhmaṇā jātā urasaḥ kṣatriyās tathā |

30.2३०.२

ऊरुभ्यां जज्ञिरे वैश्याः पद्भ्यां शूद्रा इति श्रुतिः ॥ (३०।२)

ūrubhyāṃ jajñire vaiśyāḥ padbhyāṃ śūdrā iti śrutiḥ ||

31.1३१.१

सर्वान् पुण्यफलान् वृक्षान् अनलापि व्यजायत । (३१।१)

sarvān puṇyaphalān vṛkṣān analāpi vyajāyata |

31.2३१.२

विनता च शुकी पौत्री कद्रूश् च सुरसा स्वसा ॥ (३१।२)

vinatā ca śukī pautrī kadrūś ca surasā svasā ||

32.1३२.१

कद्रूर् नागं सहस्रास्यं तु विजज्ञे धरणीधरम् । (३२।१)

kadrūr nāgaṃ sahasrāsyaṃ tu vijajñe dharaṇīdharam |

32.2३२.२

द्वौ पुत्रौ विनतायास् तु गरुडो ऽरुण एव च ॥ (३२।२)

dvau putrau vinatāyās tu garuḍo 'ruṇa eva ca ||

33.1३३.१

तस्माज् जातो ऽहम् अरुणात् सम्पातिश् च ममाग्रजः । (३३।१)

tasmāj jāto 'ham aruṇāt sampātiś ca mamāgrajaḥ |

33.2३३.२

जटायुर् इति मां विद्धि श्येनीपुत्रम् अरिंदम ॥ (३३।२)

jaṭāyur iti māṃ viddhi śyenīputram ariṃdama ||

34.1३४.१

सो ऽहं वाससहायस् ते भविष्यामि यदीच्छसि । (३४।१)

so 'haṃ vāsasahāyas te bhaviṣyāmi yadīcchasi |

34.2३४.२

सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ॥ (३४।२)

sītāṃ ca tāta rakṣiṣye tvayi yāte salakṣmaṇe ||

35.1३५.१

जटायुषं तु प्रतिपूज्य राघवो मुदा परिष्वज्य च संनतो ऽभवत् । (३५।१)

jaṭāyuṣaṃ tu pratipūjya rāghavo mudā pariṣvajya ca saṃnato 'bhavat |

35.2३५.२

पितुर् हि शुश्राव सखित्वम् आत्मवाञ् जटायुषा संकथितं पुनः पुनः ॥ (३५।२)

pitur hi śuśrāva sakhitvam ātmavāñ jaṭāyuṣā saṃkathitaṃ punaḥ punaḥ ||

36.1३६.१

स तत्र सीतां परिदाय मैथिलीं सहैव तेनातिबलेन पक्षिणा । (३६।१)

sa tatra sītāṃ paridāya maithilīṃ sahaiva tenātibalena pakṣiṇā |

36.2३६.२

जगाम तां पञ्चवटीं सलक्ष्मणो रिपून् दिधक्षञ् शलभान् इवानलः ॥ (३६।२)

jagāma tāṃ pañcavaṭīṃ salakṣmaṇo ripūn didhakṣañ śalabhān ivānalaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

Rām, 3, 13

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit