Rām, 1, 60
Select a line for its word-by-word analysis.
विश्वामित्रो महात्माथ प्रस्थितान् प्रेक्ष्य तान् ऋषीन् । (१।१)
viśvāmitro mahātmātha prasthitān prekṣya tān ṛṣīn |
अब्रवीन् नरशार्दूल सर्वांस् तान् वनवासिनः ॥ (१।२)
abravīn naraśārdūla sarvāṃs tān vanavāsinaḥ ||
महाविघ्नः प्रवृत्तो ऽयं दक्षिणाम् आस्थितो दिशम् । (२।१)
mahāvighnaḥ pravṛtto 'yaṃ dakṣiṇām āsthito diśam |
दिशम् अन्यां प्रपत्स्यामस् तत्र तप्स्यामहे तपः ॥ (२।२)
diśam anyāṃ prapatsyāmas tatra tapsyāmahe tapaḥ ||
सुखं तपश् चरिष्यामः परं तद्धि तपोवनम् ॥ (३।२)
sukhaṃ tapaś cariṣyāmaḥ paraṃ taddhi tapovanam ||
प्रनष्टे तु पशौ विप्रो राजानम् इदम् अब्रवीत् ॥ (६।२)
pranaṣṭe tu paśau vipro rājānam idam abravīt ||
पशुर् अद्य हृतो राजन् प्रनष्टस् तव दुर्नयात् । (७।१)
paśur adya hṛto rājan pranaṣṭas tava durnayāt |
प्रायश्चित्तं महद्ध्य् एतन् नरं वा पुरुषर्षभ । (८।१)
prāyaścittaṃ mahaddhy etan naraṃ vā puruṣarṣabha |
आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते ॥ (८।२)
ānayasva paśuṃ śīghraṃ yāvat karma pravartate ||
देशाञ् जनपदांस् तांस् तान् नगराणि वनानि च । (१०।१)
deśāñ janapadāṃs tāṃs tān nagarāṇi vanāni ca |
ब्रह्मर्षिं तपसा दीप्तं राजर्षिर् अमितप्रभः । (१२।२)
brahmarṣiṃ tapasā dīptaṃ rājarṣir amitaprabhaḥ |
पृष्ट्वा सर्वत्र कुशलम् ऋचीकं तम् इदं वचः ॥ (१२।३)
pṛṣṭvā sarvatra kuśalam ṛcīkaṃ tam idaṃ vacaḥ ||
पशोर् अर्थे महाभाग कृतकृत्यो ऽस्मि भार्गव ॥ (१३।२)
paśor arthe mahābhāga kṛtakṛtyo 'smi bhārgava ||
सर्वे परिसृता देशा यज्ञियं न लभे पशुम् । (१४।१)
sarve parisṛtā deśā yajñiyaṃ na labhe paśum |
एवम् उक्तो महातेजा ऋचीकस् त्व् अब्रवीद् वचः । (१५।१)
evam ukto mahātejā ṛcīkas tv abravīd vacaḥ |
नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथंचन ॥ (१५।२)
nāhaṃ jyeṣṭhaṃ naraśreṣṭha vikrīṇīyāṃ kathaṃcana ||
ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम् । (१६।१)
ṛcīkasya vacaḥ śrutvā teṣāṃ mātā mahātmanām |
ममापि दयितं विद्धि कनिष्ठं शुनकं नृप ॥ (१७।१)
mamāpi dayitaṃ viddhi kaniṣṭhaṃ śunakaṃ nṛpa ||
प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः । (१८।१)
prāyeṇa hi naraśreṣṭha jyeṣṭhāḥ pitṛṣu vallabhāḥ |
मातॄणां च कनीयांसस् तस्माद् रक्षे कनीयसम् ॥ (१८।२)
mātṝṇāṃ ca kanīyāṃsas tasmād rakṣe kanīyasam ||
उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च । (१९।१)
uktavākye munau tasmin munipatnyāṃ tathaiva ca |
शुनःशेपः स्वयं राम मध्यमो वाक्यम् अब्रवीत् ॥ (१९।२)
śunaḥśepaḥ svayaṃ rāma madhyamo vākyam abravīt ||
पिता ज्येष्ठम् अविक्रेयं माता चाह कनीयसम् । (२०।१)
pitā jyeṣṭham avikreyaṃ mātā cāha kanīyasam |
विक्रीतं मध्यमं मन्ये राजन् पुत्रं नयस्व माम् ॥ (२०।२)
vikrītaṃ madhyamaṃ manye rājan putraṃ nayasva mām ||
अम्बरीषस् तु राजर्षी रथम् आरोप्य सत्वरः । (२२।१)
ambarīṣas tu rājarṣī ratham āropya satvaraḥ |
Data courtesy of The Digital Corpus of Sanskrit.