Rām, 6, 30
Select a line for its word-by-word analysis.
तां रात्रिम् उषितास्तत्र सुवेले हरिपुंगवाः । (१।१)
tāṃ rātrim uṣitāstatra suvele haripuṃgavāḥ |
दृष्टिरम्याणि ते दृष्ट्वा बभूवुर् जातविस्मयाः ॥ (२।२)
dṛṣṭiramyāṇi te dṛṣṭvā babhūvur jātavismayāḥ ||
हिन्तालैर् अर्जुनैर् नीपैः सप्तपर्णैश्च पुष्पितैः । (४।१)
hintālair arjunair nīpaiḥ saptaparṇaiśca puṣpitaiḥ |
शुशुभे पुष्पिताग्रैश्च लतापरिगतैर् द्रुमैः । (५।१)
śuśubhe puṣpitāgraiśca latāparigatair drumaiḥ |
लङ्का बहुविधैर् दिव्यैर् यथेन्द्रस्यामरावती ॥ (५।२)
laṅkā bahuvidhair divyair yathendrasyāmarāvatī ||
शाद्वलैश्च तथा नीलैश्चित्राभिर् वनराजिभिः ॥ (६।२)
śādvalaiśca tathā nīlaiścitrābhir vanarājibhiḥ ||
गन्धाढ्यान्यभिरम्याणि पुष्पाणि च फलानि च । (७।१)
gandhāḍhyānyabhiramyāṇi puṣpāṇi ca phalāni ca |
वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम् ॥ (८।२)
vanaṃ sarvartukaṃ ramyaṃ śuśubhe ṣaṭpadāyutam ||
नत्यूहकोयष्टिभकैर् नृत्यमानैश्च बर्हिभिः । (९।१)
natyūhakoyaṣṭibhakair nṛtyamānaiśca barhibhiḥ |
तेषां प्रविशतां तत्र वानराणां महौजसाम् । (१३।१)
teṣāṃ praviśatāṃ tatra vānarāṇāṃ mahaujasām |
पुष्पसंसर्गसुरभिर् ववौ घ्राणसुखो ऽनिलः ॥ (१३।२)
puṣpasaṃsargasurabhir vavau ghrāṇasukho 'nilaḥ ||
अन्ये तु हरिवीराणां यूथान्निष्क्रम्य यूथपाः । (१४।१)
anye tu harivīrāṇāṃ yūthānniṣkramya yūthapāḥ |
सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम् ॥ (१४।२)
sugrīveṇābhyanujñātā laṅkāṃ jagmuḥ patākinīm ||
वित्रासयन्तो विहगांस्त्रासयन्तो मृगद्विपान् । (१५।१)
vitrāsayanto vihagāṃstrāsayanto mṛgadvipān |
कम्पयन्तश्च तां लङ्कां नादैः स्वैर् नदतां वराः ॥ (१५।२)
kampayantaśca tāṃ laṅkāṃ nādaiḥ svair nadatāṃ varāḥ ||
तेन शब्देन वित्रस्ता जग्मुर् भीता दिशो दश ॥ (१७।२)
tena śabdena vitrastā jagmur bhītā diśo daśa ||
शिखरं तु त्रिकूटस्य प्रांशु चैकं दिविस्पृशम् । (१८।१)
śikharaṃ tu trikūṭasya prāṃśu caikaṃ divispṛśam |
श्लक्ष्णं श्रीमन्महच्चैव दुष्प्रापं शकुनैर् अपि ॥ (१९।२)
ślakṣṇaṃ śrīmanmahaccaiva duṣprāpaṃ śakunair api ||
सा पुरी गोपुरैर् उच्चैः पाण्डुराम्बुदसंनिभैः । (२१।१)
sā purī gopurair uccaiḥ pāṇḍurāmbudasaṃnibhaiḥ |
घनैर् इवातपापाये मध्यमं वैष्णवं पदम् ॥ (२२।२)
ghanair ivātapāpāye madhyamaṃ vaiṣṇavaṃ padam ||
यस्यां स्तम्भसहस्रेण प्रासादः समलंकृतः । (२३।१)
yasyāṃ stambhasahasreṇa prāsādaḥ samalaṃkṛtaḥ |
चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम् । (२४।१)
caityaḥ sa rākṣasendrasya babhūva purabhūṣaṇam |
शतेन रक्षसां नित्यं यः समग्रेण रक्ष्यते ॥ (२४।२)
śatena rakṣasāṃ nityaṃ yaḥ samagreṇa rakṣyate ||
तां समृद्धां समृद्धार्थो लक्ष्मीवांल् लक्ष्मणाग्रजः । (२५।१)
tāṃ samṛddhāṃ samṛddhārtho lakṣmīvāṃl lakṣmaṇāgrajaḥ |
तां रत्नपूर्णां बहुसंविधानां प्रासादमालाभिर् अलंकृतां च । (२६।१)
tāṃ ratnapūrṇāṃ bahusaṃvidhānāṃ prāsādamālābhir alaṃkṛtāṃ ca |
पुरीं महायन्त्रकवाटमुख्यां ददर्श रामो महता बलेन ॥ (२६।२)
purīṃ mahāyantrakavāṭamukhyāṃ dadarśa rāmo mahatā balena ||
Data courtesy of The Digital Corpus of Sanskrit.