Rām, 2, 68
Select a line for its word-by-word analysis.
राज्याद् भ्रंशस्व कैकेयि नृशंसे दुष्टचारिणि । (२।१)
rājyād bhraṃśasva kaikeyi nṛśaṃse duṣṭacāriṇi |
किं नु ते ऽदूषयद् राजा रामो वा भृशधार्मिकः । (३।१)
kiṃ nu te 'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ |
ययोर् मृत्युर् विवासश् च त्वत्कृते तुल्यम् आगतौ ॥ (३।२)
yayor mṛtyur vivāsaś ca tvatkṛte tulyam āgatau ||
भ्रूणहत्याम् असि प्राप्ता कुलस्यास्य विनाशनात् । (४।१)
bhrūṇahatyām asi prāptā kulasyāsya vināśanāt |
कैकेयि नरकं गच्छ मा च भर्तुः सलोकताम् ॥ (४।२)
kaikeyi narakaṃ gaccha mā ca bhartuḥ salokatām ||
यत् त्वया हीदृशं पापं कृतं घोरेण कर्मणा । (५।१)
yat tvayā hīdṛśaṃ pāpaṃ kṛtaṃ ghoreṇa karmaṇā |
सर्वलोकप्रियं हित्वा ममाप्य् आपादितं भयम् ॥ (५।२)
sarvalokapriyaṃ hitvā mamāpy āpāditaṃ bhayam ||
त्वत्कृते मे पिता वृत्तो रामश् चारण्यम् आश्रितः । (६।१)
tvatkṛte me pitā vṛtto rāmaś cāraṇyam āśritaḥ |
न ते ऽहम् अभिभाष्यो ऽस्मि दुर्वृत्ते पतिघातिनि ॥ (७।२)
na te 'ham abhibhāṣyo 'smi durvṛtte patighātini ||
कौसल्या च सुमित्रा च याश् चान्या मम मातरः । (८।१)
kausalyā ca sumitrā ca yāś cānyā mama mātaraḥ |
दुःखेन महताविष्टास् त्वां प्राप्य कुलदूषिणीम् ॥ (८।२)
duḥkhena mahatāviṣṭās tvāṃ prāpya kuladūṣiṇīm ||
न त्वम् अश्वपतेः कन्या धर्मराजस्य धीमतः । (९।१)
na tvam aśvapateḥ kanyā dharmarājasya dhīmataḥ |
राक्षसी तत्र जातासि कुलप्रध्वंसिनी पितुः ॥ (९।२)
rākṣasī tatra jātāsi kulapradhvaṃsinī pituḥ ||
यत् त्वया धार्मिको रामो नित्यं सत्यपरायणः । (१०।१)
yat tvayā dhārmiko rāmo nityaṃ satyaparāyaṇaḥ |
वनं प्रस्थापितो दुःखात् पिता च त्रिदिवं गतः ॥ (१०।२)
vanaṃ prasthāpito duḥkhāt pitā ca tridivaṃ gataḥ ||
यत्प्रधानासि तत् पापं मयि पित्रा विनाकृते । (११।१)
yatpradhānāsi tat pāpaṃ mayi pitrā vinākṛte |
भ्रातृभ्यां च परित्यक्ते सर्वलोकस्य चाप्रिये ॥ (११।२)
bhrātṛbhyāṃ ca parityakte sarvalokasya cāpriye ||
कौसल्यां धर्मसंयुक्तां वियुक्तां पापनिश्चये । (१२।१)
kausalyāṃ dharmasaṃyuktāṃ viyuktāṃ pāpaniścaye |
कृत्वा कं प्राप्स्यसे त्व् अद्य लोकं निरयगामिनी ॥ (१२।२)
kṛtvā kaṃ prāpsyase tv adya lokaṃ nirayagāminī ||
किं नावबुध्यसे क्रूरे नियतं बन्धुसंश्रयम् । (१३।१)
kiṃ nāvabudhyase krūre niyataṃ bandhusaṃśrayam |
ज्येष्ठं पितृसमं रामं कौसल्याया आत्मसम्भवम् ॥ (१३।२)
jyeṣṭhaṃ pitṛsamaṃ rāmaṃ kausalyāyā ātmasambhavam ||
अङ्गप्रत्यङ्गजः पुत्रो हृदयाच् चापि जायते । (१४।१)
aṅgapratyaṅgajaḥ putro hṛdayāc cāpi jāyate |
तस्मात् प्रियतरो मातुः प्रियत्वान् न तु बान्धवः ॥ (१४।२)
tasmāt priyataro mātuḥ priyatvān na tu bāndhavaḥ ||
वहमानौ ददर्शोर्व्यां पुत्रौ विगतचेतसौ ॥ (१५।२)
vahamānau dadarśorvyāṃ putrau vigatacetasau ||
ताव् अर्धदिवसे श्रान्तौ दृष्ट्वा पुत्रौ महीतले । (१६।१)
tāv ardhadivase śrāntau dṛṣṭvā putrau mahītale |
अधस्ताद् व्रजतस् तस्याः सुरराज्ञो महात्मनः । (१७।१)
adhastād vrajatas tasyāḥ surarājño mahātmanaḥ |
बिन्दवः पतिता गात्रे सूक्ष्माः सुरभिगन्धिनः ॥ (१७।२)
bindavaḥ patitā gātre sūkṣmāḥ surabhigandhinaḥ ||
तां दृष्ट्वा शोकसंतप्तां वज्रपाणिर् यशस्विनीम् । (१८।१)
tāṃ dṛṣṭvā śokasaṃtaptāṃ vajrapāṇir yaśasvinīm |
इन्द्रः प्राञ्जलिर् उद्विग्नः सुरराजो ऽब्रवीद् वचः ॥ (१८।२)
indraḥ prāñjalir udvignaḥ surarājo 'bravīd vacaḥ ||
भयं कच्चिन् न चास्मासु कुतश्चिद् विद्यते महत् । (१९।१)
bhayaṃ kaccin na cāsmāsu kutaścid vidyate mahat |
कुतोनिमित्तः शोकस् ते ब्रूहि सर्वहितैषिणि ॥ (१९।२)
kutonimittaḥ śokas te brūhi sarvahitaiṣiṇi ||
प्रत्युवाच ततो धीरा वाक्यं वाक्यविशारदा ॥ (२०।२)
pratyuvāca tato dhīrā vākyaṃ vākyaviśāradā ||
शान्तं पापं न वः किंचित् कुतश्चिद् अमराधिप । (२१।१)
śāntaṃ pāpaṃ na vaḥ kiṃcit kutaścid amarādhipa |
अहं तु मग्नौ शोचामि स्वपुत्रौ विषमे स्थितौ ॥ (२१।२)
ahaṃ tu magnau śocāmi svaputrau viṣame sthitau ||
एतौ दृष्ट्वा कृषौ दीनौ सूर्यरश्मिप्रतापिनौ । (२२।१)
etau dṛṣṭvā kṛṣau dīnau sūryaraśmipratāpinau |
मम कायात् प्रसूतौ हि दुःखितौ भारपीडितौ । (२३।१)
mama kāyāt prasūtau hi duḥkhitau bhārapīḍitau |
यौ दृष्ट्वा परितप्ये ऽहं नास्ति पुत्रसमः प्रियः ॥ (२३।२)
yau dṛṣṭvā paritapye 'haṃ nāsti putrasamaḥ priyaḥ ||
यस्याः पुत्रसहस्राणि सापि शोचति कामधुक् । (२४।१)
yasyāḥ putrasahasrāṇi sāpi śocati kāmadhuk |
किं पुनर् या विना रामं कौसल्या वर्तयिष्यति ॥ (२४।२)
kiṃ punar yā vinā rāmaṃ kausalyā vartayiṣyati ||
एकपुत्रा च साध्वी च विवत्सेयं त्वया कृता । (२५।१)
ekaputrā ca sādhvī ca vivatseyaṃ tvayā kṛtā |
तस्मात् त्वं सततं दुःखं प्रेत्य चेह च लप्स्यसे ॥ (२५।२)
tasmāt tvaṃ satataṃ duḥkhaṃ pretya ceha ca lapsyase ||
अहं ह्य् अपचितिं भ्रातुः पितुश् च सकलाम् इमाम् । (२६।१)
ahaṃ hy apacitiṃ bhrātuḥ pituś ca sakalām imām |
स्वयम् एव प्रवेक्ष्यामि वनं मुनिनिषेवितम् ॥ (२७।२)
svayam eva pravekṣyāmi vanaṃ muniniṣevitam ||
पपात भुवि संक्रुद्धो निःश्वसन्न् इव पन्नगः ॥ (२८।२)
papāta bhuvi saṃkruddho niḥśvasann iva pannagaḥ ||
संरक्तनेत्रः शिथिलाम्बरस् तदा विधूतसर्वाभरणः परंतपः । (२९।१)
saṃraktanetraḥ śithilāmbaras tadā vidhūtasarvābharaṇaḥ paraṃtapaḥ |
बभूव भूमौ पतितो नृपात्मजः शचीपतेः केतुर् इवोत्सवक्षये ॥ (२९।२)
babhūva bhūmau patito nṛpātmajaḥ śacīpateḥ ketur ivotsavakṣaye ||
Data courtesy of The Digital Corpus of Sanskrit.