Rām, 7, 33
Select a line for its word-by-word analysis.
ऋषिः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः ॥ (१।२)
ṛṣiḥ pulastyaḥ śuśrāva kathitaṃ divi daivataiḥ ||
स वायुमार्गम् आस्थाय वायुतुल्यगतिर् द्विजः । (३।१)
sa vāyumārgam āsthāya vāyutulyagatir dvijaḥ |
पुरीं माहिष्मतीं प्राप्तो मनःसंतापविक्रमः ॥ (३।२)
purīṃ māhiṣmatīṃ prāpto manaḥsaṃtāpavikramaḥ ||
प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् ॥ (४।२)
praviveśa purīṃ brahmā indrasyevāmarāvatīm ||
पुलस्त्य इति तं श्रुत्वा वचनं हैहयाधिपः । (६।१)
pulastya iti taṃ śrutvā vacanaṃ haihayādhipaḥ |
शिरस्यञ्जलिम् उद्धृत्य प्रत्युद्गच्छद् द्विजोत्तमम् ॥ (६।२)
śirasyañjalim uddhṛtya pratyudgacchad dvijottamam ||
पुरोहितो ऽस्य गृह्यार्घ्यं मधुपर्कं तथैव च । (७।१)
purohito 'sya gṛhyārghyaṃ madhuparkaṃ tathaiva ca |
पुरस्तात् प्रययौ राज्ञ इन्द्रस्येव बृहस्पतिः ॥ (७।२)
purastāt prayayau rājña indrasyeva bṛhaspatiḥ ||
ततस्तम् ऋषिम् आयान्तम् उद्यन्तम् इव भास्करम् । (८।१)
tatastam ṛṣim āyāntam udyantam iva bhāskaram |
अर्जुनो दृश्य सम्प्राप्तं ववन्देन्द्र इवेश्वरम् ॥ (८।२)
arjuno dṛśya samprāptaṃ vavandendra iveśvaram ||
स तस्य मधुपर्कं च पाद्यम् अर्घ्यं च दापयन् । (९।१)
sa tasya madhuparkaṃ ca pādyam arghyaṃ ca dāpayan |
पुलस्त्यम् आह राजेन्द्रो हर्षगद्गदया गिरा ॥ (९।२)
pulastyam āha rājendro harṣagadgadayā girā ||
अद्याहं तु द्विजेन्द्रेन्द्र यस्मात् पश्यामि दुर्दृशम् ॥ (१०।२)
adyāhaṃ tu dvijendrendra yasmāt paśyāmi durdṛśam ||
अद्य मे कुशलं देव अद्य मे कुलम् उद्धृतम् । (११।१)
adya me kuśalaṃ deva adya me kulam uddhṛtam |
यत् ते देवगणैर् वन्द्यौ वन्दे ऽहं चरणाविमौ ॥ (११।२)
yat te devagaṇair vandyau vande 'haṃ caraṇāvimau ||
ब्रह्मन् किं कुर्म किं कार्यम् आज्ञापयतु नो भवान् ॥ (१२।२)
brahman kiṃ kurma kiṃ kāryam ājñāpayatu no bhavān ||
तं धर्मे ऽग्निषु भृत्येषु शिवं पृष्ट्वाथ पार्थिवम् । (१३।१)
taṃ dharme 'gniṣu bhṛtyeṣu śivaṃ pṛṣṭvātha pārthivam |
पुलस्त्योवाच राजानं हैहयानां तदार्जुनम् ॥ (१३।२)
pulastyovāca rājānaṃ haihayānāṃ tadārjunam ||
भयाद् यस्यावतिष्ठेतां निष्पन्दौ सागरानिलौ । (१५।१)
bhayād yasyāvatiṣṭhetāṃ niṣpandau sāgarānilau |
सो ऽयम् अद्य त्वया बद्धः पौत्रो मे ऽतीवदुर्जयः ॥ (१५।२)
so 'yam adya tvayā baddhaḥ pautro me 'tīvadurjayaḥ ||
तत् पुत्रक यशः स्फीतं नाम विश्रावितं त्वया । (१६।१)
tat putraka yaśaḥ sphītaṃ nāma viśrāvitaṃ tvayā |
मद्वाक्याद् याच्यमानो ऽद्य मुञ्च वत्स दशाननम् ॥ (१६।२)
madvākyād yācyamāno 'dya muñca vatsa daśānanam ||
पुलस्त्याज्ञां स गृह्याथ अकिंचनवचो ऽर्जुनः । (१७।१)
pulastyājñāṃ sa gṛhyātha akiṃcanavaco 'rjunaḥ |
मुमोच पार्थिवेन्द्रेन्द्रो राक्षसेन्द्रं प्रहृष्टवत् ॥ (१७।२)
mumoca pārthivendrendro rākṣasendraṃ prahṛṣṭavat ||
स तं प्रमुक्त्वा त्रिदशारिम् अर्जुनः प्रपूज्य दिव्याभरणस्रगम्बरैः । (१८।१)
sa taṃ pramuktvā tridaśārim arjunaḥ prapūjya divyābharaṇasragambaraiḥ |
अहिंसकं सख्यम् उपेत्य साग्निकं प्रणम्य स ब्रह्मसुतं गृहं ययौ ॥ (१८।२)
ahiṃsakaṃ sakhyam upetya sāgnikaṃ praṇamya sa brahmasutaṃ gṛhaṃ yayau ||
पुलस्त्येनापि संगम्य राक्षसेन्द्रः प्रतापवान् । (१९।१)
pulastyenāpi saṃgamya rākṣasendraḥ pratāpavān |
मोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम सः ॥ (२०।२)
mocayitvā daśagrīvaṃ brahmalokaṃ jagāma saḥ ||
एवं स रावणः प्राप्तः कार्तवीर्यात् तु धर्षणात् । (२१।१)
evaṃ sa rāvaṇaḥ prāptaḥ kārtavīryāt tu dharṣaṇāt |
पुलस्त्यवचनाच्चापि पुनर् मोक्षम् अवाप्तवान् ॥ (२१।२)
pulastyavacanāccāpi punar mokṣam avāptavān ||
नावज्ञा परतः कार्या य इच्छेच्छ्रेय आत्मनः ॥ (२२।२)
nāvajñā parataḥ kāryā ya icchecchreya ātmanaḥ ||
ततः स राजा पिशिताशनानां सहस्रबाहोर् उपलभ्य मैत्रीम् । (२३।१)
tataḥ sa rājā piśitāśanānāṃ sahasrabāhor upalabhya maitrīm |
पुनर् नराणां कदनं चकार चचार सर्वां पृथिवीं च दर्पात् ॥ (२३।२)
punar narāṇāṃ kadanaṃ cakāra cacāra sarvāṃ pṛthivīṃ ca darpāt ||
Data courtesy of The Digital Corpus of Sanskrit.