रामायणRāmāyaṇa

Rām, 1, 50

50 of 606 · 56 verses

Select a line for its word-by-word analysis.

1.1१.१

तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतः । (१।१)

tasya tadvacanaṃ śrutvā viśvāmitrasya dhīmataḥ |

1.2१.२

हृष्टरोमा महातेजाः शतानन्दो महातपाः ॥ (१।२)

hṛṣṭaromā mahātejāḥ śatānando mahātapāḥ ||

2.1२.१

गौतमस्य सुतो ज्येष्ठस् तपसा द्योतितप्रभः । (२।१)

gautamasya suto jyeṣṭhas tapasā dyotitaprabhaḥ |

2.2२.२

रामसंदर्शनाद् एव परं विस्मयम् आगतः ॥ (२।२)

rāmasaṃdarśanād eva paraṃ vismayam āgataḥ ||

3.1३.१

स तौ निषण्णौ सम्प्रेक्ष्य सुखासीनौ नृपात्मजौ । (३।१)

sa tau niṣaṇṇau samprekṣya sukhāsīnau nṛpātmajau |

3.2३.२

शतानन्दो मुनिश्रेष्ठं विश्वामित्रम् अथाब्रवीत् ॥ (३।२)

śatānando muniśreṣṭhaṃ viśvāmitram athābravīt ||

4.1४.१

अपि ते मुनिशार्दूल मम माता यशस्विनी । (४।१)

api te muniśārdūla mama mātā yaśasvinī |

4.2४.२

दर्शिता राजपुत्राय तपो दीर्घम् उपागता ॥ (४।२)

darśitā rājaputrāya tapo dīrgham upāgatā ||

5.1५.१

अपि रामे महातेजो मम माता यशस्विनी । (५।१)

api rāme mahātejo mama mātā yaśasvinī |

5.2५.२

वन्यैर् उपाहरत् पूजां पूजार्हे सर्वदेहिनाम् ॥ (५।२)

vanyair upāharat pūjāṃ pūjārhe sarvadehinām ||

6.1६.१

अपि रामाय कथितं यथावृत्तं पुरातनम् । (६।१)

api rāmāya kathitaṃ yathāvṛttaṃ purātanam |

6.2६.२

मम मातुर् महातेजो देवेन दुरनुष्ठितम् ॥ (६।२)

mama mātur mahātejo devena duranuṣṭhitam ||

7.1७.१

अपि कौशिक भद्रं ते गुरुणा मम संगता । (७।१)

api kauśika bhadraṃ te guruṇā mama saṃgatā |

7.2७.२

माता मम मुनिश्रेष्ठ रामसंदर्शनाद् इतः ॥ (७।२)

mātā mama muniśreṣṭha rāmasaṃdarśanād itaḥ ||

8.1८.१

अपि मे गुरुणा रामः पूजितः कुशिकात्मज । (८।१)

api me guruṇā rāmaḥ pūjitaḥ kuśikātmaja |

8.2८.२

इहागतो महातेजाः पूजां प्राप्य महात्मनः ॥ (८।२)

ihāgato mahātejāḥ pūjāṃ prāpya mahātmanaḥ ||

9.1९.१

अपि शान्तेन मनसा गुरुर् मे कुशिकात्मज । (९।१)

api śāntena manasā gurur me kuśikātmaja |

9.2९.२

इहागतेन रामेण प्रयतेनाभिवादितः ॥ (९।२)

ihāgatena rāmeṇa prayatenābhivāditaḥ ||

10.1१०.१

तच् छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः । (१०।१)

tac chrutvā vacanaṃ tasya viśvāmitro mahāmuniḥ |

10.2१०.२

प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम् ॥ (१०।२)

pratyuvāca śatānandaṃ vākyajño vākyakovidam ||

11.1११.१

नातिक्रान्तं मुनिश्रेष्ठ यत् कर्तव्यं कृतं मया । (११।१)

nātikrāntaṃ muniśreṣṭha yat kartavyaṃ kṛtaṃ mayā |

11.2११.२

संगता मुनिना पत्नी भार्गवेणेव रेणुका ॥ (११।२)

saṃgatā muninā patnī bhārgaveṇeva reṇukā ||

12.1१२.१

तच् छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः । (१२।१)

tac chrutvā vacanaṃ tasya viśvāmitrasya dhīmataḥ |

12.2१२.२

शतानन्दो महातेजा रामं वचनम् अब्रवीत् ॥ (१२।२)

śatānando mahātejā rāmaṃ vacanam abravīt ||

13.1१३.१

स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तो ऽसि राघव । (१३।१)

svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava |

13.2१३.२

विश्वामित्रं पुरस्कृत्य महर्षिम् अपराजितम् ॥ (१३।२)

viśvāmitraṃ puraskṛtya maharṣim aparājitam ||

14.1१४.१

अचिन्त्यकर्मा तपसा ब्रह्मर्षिर् अमितप्रभः । (१४।१)

acintyakarmā tapasā brahmarṣir amitaprabhaḥ |

14.2१४.२

विश्वामित्रो महातेजा वेत्स्य् एनं परमां गतिम् ॥ (१४।२)

viśvāmitro mahātejā vetsy enaṃ paramāṃ gatim ||

15.1१५.१

नास्ति धन्यतरो राम त्वत्तो ऽन्यो भुवि कश्चन । (१५।१)

nāsti dhanyataro rāma tvatto 'nyo bhuvi kaścana |

15.2१५.२

गोप्ता कुशिकपुत्रस् ते येन तप्तं महत् तपः ॥ (१५।२)

goptā kuśikaputras te yena taptaṃ mahat tapaḥ ||

16.1१६.१

श्रूयतां चाभिदास्यामि कौशिकस्य महात्मनः । (१६।१)

śrūyatāṃ cābhidāsyāmi kauśikasya mahātmanaḥ |

16.2१६.२

यथाबलं यथावृत्तं तन् मे निगदतः शृणु ॥ (१६।२)

yathābalaṃ yathāvṛttaṃ tan me nigadataḥ śṛṇu ||

17.1१७.१

राजाभूद् एष धर्मात्मा दीर्घकालम् अरिंदमः । (१७।१)

rājābhūd eṣa dharmātmā dīrghakālam ariṃdamaḥ |

17.2१७.२

धर्मज्ञः कृतविद्यश् च प्रजानां च हिते रतः ॥ (१७।२)

dharmajñaḥ kṛtavidyaś ca prajānāṃ ca hite rataḥ ||

18.1१८.१

प्रजापतिसुतस् त्व् आसीत् कुशो नाम महीपतिः । (१८।१)

prajāpatisutas tv āsīt kuśo nāma mahīpatiḥ |

18.2१८.२

कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः ॥ (१८।२)

kuśasya putro balavān kuśanābhaḥ sudhārmikaḥ ||

19.1१९.१

कुशनाभसुतस् त्व् आसीद् गाधिर् इत्य् एव विश्रुतः । (१९।१)

kuśanābhasutas tv āsīd gādhir ity eva viśrutaḥ |

19.2१९.२

गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः ॥ (१९।२)

gādheḥ putro mahātejā viśvāmitro mahāmuniḥ ||

20.1२०.१

विश्वमित्रो महातेजाः पालयामास मेदिनीम् । (२०।१)

viśvamitro mahātejāḥ pālayāmāsa medinīm |

20.2२०.२

बहुवर्षसहस्राणि राजा राज्यम् अकारयत् ॥ (२०।२)

bahuvarṣasahasrāṇi rājā rājyam akārayat ||

21.1२१.१

कदाचित् तु महातेजा योजयित्वा वरूथिनीम् । (२१।१)

kadācit tu mahātejā yojayitvā varūthinīm |

21.2२१.२

अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम् ॥ (२१।२)

akṣauhiṇīparivṛtaḥ paricakrāma medinīm ||

22.1२२.१

नगराणि च राष्ट्राणि सरितश् च तथा गिरीन् । (२२।१)

nagarāṇi ca rāṣṭrāṇi saritaś ca tathā girīn |

22.2२२.२

आश्रमान् क्रमशो राजा विचरन्न् आजगाम ह ॥ (२२।२)

āśramān kramaśo rājā vicarann ājagāma ha ||

23.1२३.१

वसिष्ठस्याश्रमपदं नानापुष्पफलद्रुमम् । (२३।१)

vasiṣṭhasyāśramapadaṃ nānāpuṣpaphaladrumam |

23.2२३.२

नानामृगगणाकीर्णं सिद्धचारणसेवितम् ॥ (२३।२)

nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam ||

24.1२४.१

देवदानवगन्धर्वैः किंनरैर् उपशोभितम् । (२४।१)

devadānavagandharvaiḥ kiṃnarair upaśobhitam |

24.2२४.२

प्रशान्तहरिणाकीर्णं द्विजसंघनिषेवितम् ॥ (२४।२)

praśāntahariṇākīrṇaṃ dvijasaṃghaniṣevitam ||

25.1२५.१

ब्रह्मर्षिगणसंकीर्णं देवर्षिगणसेवितम् । (२५।१)

brahmarṣigaṇasaṃkīrṇaṃ devarṣigaṇasevitam |

25.2२५.२

तपश्चरणसंसिद्धैर् अग्निकल्पैर् महात्मभिः ॥ (२५।२)

tapaścaraṇasaṃsiddhair agnikalpair mahātmabhiḥ ||

26.1२६.१

सततं संकुलं श्रीमद्ब्रह्मकल्पैर् महात्मभिः । (२६।१)

satataṃ saṃkulaṃ śrīmadbrahmakalpair mahātmabhiḥ |

26.2२६.२

अब्भक्षैर् वायुभक्षैश् च शीर्णपर्णाशनैस् तथा ॥ (२६।२)

abbhakṣair vāyubhakṣaiś ca śīrṇaparṇāśanais tathā ||

27.1२७.१

फलमूलाशनैर् दान्तैर् जितरोषैर् जितेन्द्रियैः । (२७।१)

phalamūlāśanair dāntair jitaroṣair jitendriyaiḥ |

27.2२७.२

ऋषिभिर् वालखिल्यैश् च जपहोमपरायणैः ॥ (२७।२)

ṛṣibhir vālakhilyaiś ca japahomaparāyaṇaiḥ ||

28.1२८.१

वसिष्ठस्याश्रमपदं ब्रह्मलोकम् इवापरम् । (२८।१)

vasiṣṭhasyāśramapadaṃ brahmalokam ivāparam |

28.2२८.२

ददर्श जयतां श्रेष्ठविश्वामित्रो महाबलः ॥ (२८।२)

dadarśa jayatāṃ śreṣṭhaviśvāmitro mahābalaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

Rām, 1, 50

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit