Rām, 2, 51
Select a line for its word-by-word analysis.
कथयित्वा सुदुःखार्तः सुमन्त्रेण चिरं सह । (१।१)
kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha |
अनुज्ञातः सुमन्त्रो ऽथ योजयित्वा हयोत्तमान् । (२।१)
anujñātaḥ sumantro 'tha yojayitvā hayottamān |
पश्यन्न् अतिययौ शीघ्रं ग्रामाणि नगराणि च ॥ (३।२)
paśyann atiyayau śīghraṃ grāmāṇi nagarāṇi ca ||
स शून्याम् इव निःशब्दां दृष्ट्वा परमदुर्मनाः । (५।१)
sa śūnyām iva niḥśabdāṃ dṛṣṭvā paramadurmanāḥ |
सुमन्त्रम् अभियान्तं तं शतशो ऽथ सहस्रशः । (७।१)
sumantram abhiyāntaṃ taṃ śataśo 'tha sahasraśaḥ |
क्व राम इति पृच्छन्तः सूतम् अभ्यद्रवन् नराः ॥ (७।२)
kva rāma iti pṛcchantaḥ sūtam abhyadravan narāḥ ||
तेषां शशंस गङ्गायाम् अहम् आपृच्छ्य राघवम् । (८।१)
teṣāṃ śaśaṃsa gaṅgāyām aham āpṛcchya rāghavam |
अनुज्ञातो निवृत्तो ऽस्मि धार्मिकेण महात्मना ॥ (८।२)
anujñāto nivṛtto 'smi dhārmikeṇa mahātmanā ||
अहो धिग् इति निःश्वस्य हा रामेति च चुक्रुशुः ॥ (९।२)
aho dhig iti niḥśvasya hā rāmeti ca cukruśuḥ ||
शुश्राव च वचस् तेषां वृन्दं वृन्दं च तिष्ठताम् । (१०।१)
śuśrāva ca vacas teṣāṃ vṛndaṃ vṛndaṃ ca tiṣṭhatām |
हताः स्म खलु ये नेह पश्याम इति राघवम् ॥ (१०।२)
hatāḥ sma khalu ye neha paśyāma iti rāghavam ||
न द्रक्ष्यामः पुनर् जातु धार्मिकं रामम् अन्तरा ॥ (११।२)
na drakṣyāmaḥ punar jātu dhārmikaṃ rāmam antarā ||
किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम् । (१२।१)
kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham |
सो ऽवतीर्य रथाच् छीघ्रं राजवेश्म प्रविश्य च । (१५।१)
so 'vatīrya rathāc chīghraṃ rājaveśma praviśya ca |
ततो दशरथस्त्रीणां प्रासादेभ्यस् ततस् ततः । (१६।१)
tato daśarathastrīṇāṃ prāsādebhyas tatas tataḥ |
रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम् ॥ (१६।२)
rāmaśokābhitaptānāṃ mandaṃ śuśrāva jalpitam ||
सूतः किं नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति ॥ (१७।२)
sūtaḥ kiṃ nāma kausalyāṃ śocantīṃ prativakṣyati ||
यथा च मन्ये दुर्जीवम् एवं न सुकरं ध्रुवम् । (१८।१)
yathā ca manye durjīvam evaṃ na sukaraṃ dhruvam |
आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥ (१८।२)
ācchidya putre niryāte kausalyā yatra jīvati ||
सत्यरूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन् । (१९।१)
satyarūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan |
स प्रविश्याष्टमीं कक्ष्यां राजानं दीनम् आतुरम् । (२०।१)
sa praviśyāṣṭamīṃ kakṣyāṃ rājānaṃ dīnam āturam |
पुत्रशोकपरिद्यूनम् अपश्यत् पाण्डुरे गृहे ॥ (२०।२)
putraśokaparidyūnam apaśyat pāṇḍure gṛhe ||
अभिगम्य तम् आसीनं नरेन्द्रम् अभिवाद्य च । (२१।१)
abhigamya tam āsīnaṃ narendram abhivādya ca |
सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत् ॥ (२१।२)
sumantro rāmavacanaṃ yathoktaṃ pratyavedayat ||
स तूष्णीम् एव तच् छ्रुत्वा राजा विभ्रान्तचेतनः । (२२।१)
sa tūṣṇīm eva tac chrutvā rājā vibhrāntacetanaḥ |
मूर्छितो न्यपतद् भूमौ रामशोकाभिपीडितः ॥ (२२।२)
mūrchito nyapatad bhūmau rāmaśokābhipīḍitaḥ ||
ततो ऽन्तःपुरम् आविद्धं मूर्छिते पृथिवीपतौ । (२३।१)
tato 'ntaḥpuram āviddhaṃ mūrchite pṛthivīpatau |
उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥ (२३।२)
uddhṛtya bāhū cukrośa nṛpatau patite kṣitau ||
वनवासाद् अनुप्राप्तं कस्मान् न प्रतिभाषसे ॥ (२५।२)
vanavāsād anuprāptaṃ kasmān na pratibhāṣase ||
उत्तिष्ठ सुकृतं ते ऽस्तु शोके न स्यात् सहायता ॥ (२६।२)
uttiṣṭha sukṛtaṃ te 'stu śoke na syāt sahāyatā ||
देव यस्या भयाद् रामं नानुपृच्छसि सारथिम् । (२७।१)
deva yasyā bhayād rāmaṃ nānupṛcchasi sārathim |
नेह तिष्ठति कैकेयी विश्रब्धं प्रतिभाष्यताम् ॥ (२७।२)
neha tiṣṭhati kaikeyī viśrabdhaṃ pratibhāṣyatām ||
एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि । (२९।१)
evaṃ vilapatīṃ dṛṣṭvā kausalyāṃ patitāṃ bhuvi |
पतिं चावेक्ष्य ताः सर्वाः सस्वरं रुरुदुः स्त्रियः ॥ (२९।२)
patiṃ cāvekṣya tāḥ sarvāḥ sasvaraṃ ruruduḥ striyaḥ ||
ततस् तम् अन्तःपुरनादम् उत्थितं समीक्ष्य वृद्धास् तरुणाश् च मानवाः । (३०।१)
tatas tam antaḥpuranādam utthitaṃ samīkṣya vṛddhās taruṇāś ca mānavāḥ |
स्त्रियश् च सर्वा रुरुदुः समन्ततः पुरं तदासीत् पुनर् एव संकुलम् ॥ (३०।२)
striyaś ca sarvā ruruduḥ samantataḥ puraṃ tadāsīt punar eva saṃkulam ||
Data courtesy of The Digital Corpus of Sanskrit.