Rām, 7, 46
Select a line for its word-by-word analysis.
आरुरोह समायुक्तां पूर्वम् आरोप्य मैथिलीम् ॥ (१।२)
āruroha samāyuktāṃ pūrvam āropya maithilīm ||
सुमन्त्रं चैव सरथं स्थीयताम् इति लक्ष्मणः । (२।१)
sumantraṃ caiva sarathaṃ sthīyatām iti lakṣmaṇaḥ |
ततस्तीरम् उपागम्य भागीरथ्याः स लक्ष्मणः । (३।१)
tatastīram upāgamya bhāgīrathyāḥ sa lakṣmaṇaḥ |
उवाच मैथिलीं वाक्यं प्राञ्जलिर् बाष्पगद्गदः ॥ (३।२)
uvāca maithilīṃ vākyaṃ prāñjalir bāṣpagadgadaḥ ||
हृद्गतं मे महच्छल्यं यद् अस्म्यार्येण धीमता । (४।१)
hṛdgataṃ me mahacchalyaṃ yad asmyāryeṇa dhīmatā |
श्रेयो हि मरणं मे ऽद्य मृत्योर् वा यत् परं भवेत् । (५।१)
śreyo hi maraṇaṃ me 'dya mṛtyor vā yat paraṃ bhavet |
न चास्मिन्न् ईदृशे कार्ये नियोज्यो लोकनिन्दिते ॥ (५।२)
na cāsminn īdṛśe kārye niyojyo lokanindite ||
प्रसीद न च मे रोषं कर्तुम् अर्हसि सुव्रते । (६।१)
prasīda na ca me roṣaṃ kartum arhasi suvrate |
रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युम् आत्मनः । (७।१)
rudantaṃ prāñjaliṃ dṛṣṭvā kāṅkṣantaṃ mṛtyum ātmanaḥ |
मैथिली भृशसंविग्ना लक्ष्मणं वाक्यम् अब्रवीत् ॥ (७।२)
maithilī bhṛśasaṃvignā lakṣmaṇaṃ vākyam abravīt ||
किम् इदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण । (८।१)
kim idaṃ nāvagacchāmi brūhi tattvena lakṣmaṇa |
पश्यामि त्वां च न स्वस्थम् अपि क्षेमं महीपतेः ॥ (८।२)
paśyāmi tvāṃ ca na svastham api kṣemaṃ mahīpateḥ ||
शापितो ऽसि नरेन्द्रेण यत् त्वं संतापम् आत्मनः । (९।१)
śāpito 'si narendreṇa yat tvaṃ saṃtāpam ātmanaḥ |
तद् ब्रूयाः संनिधौ मह्यम् अहम् आज्ञापयामि ते ॥ (९।२)
tad brūyāḥ saṃnidhau mahyam aham ājñāpayāmi te ||
वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः । (१०।१)
vaidehyā codyamānastu lakṣmaṇo dīnacetanaḥ |
यानि राज्ञा हृदि न्यस्तान्यमर्षः पृष्ठतः कृतः ॥ (१२।२)
yāni rājñā hṛdi nyastānyamarṣaḥ pṛṣṭhataḥ kṛtaḥ ||
सा त्वं त्यक्ता नृपतिना निर्दोषा मम संनिधौ । (१३।१)
sā tvaṃ tyaktā nṛpatinā nirdoṣā mama saṃnidhau |
पौरापवादभीतेन ग्राह्यं देवि न ते ऽन्यथा ॥ (१३।२)
paurāpavādabhītena grāhyaṃ devi na te 'nyathā ||
आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि । (१४।१)
āśramānteṣu ca mayā tyaktavyā tvaṃ bhaviṣyasi |
राज्ञः शासनम् आज्ञाय तवैवं किल दौर्हृदम् ॥ (१४।२)
rājñaḥ śāsanam ājñāya tavaivaṃ kila daurhṛdam ||
तद् एतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम् । (१५।१)
tad etajjāhnavītīre brahmarṣīṇāṃ tapovanam |
पुण्यं च रमणीयं च मा विषादं कृथाः शुभे ॥ (१५।२)
puṇyaṃ ca ramaṇīyaṃ ca mā viṣādaṃ kṛthāḥ śubhe ||
पादच्छायाम् उपागम्य सुखम् अस्य महात्मनः । (१७।१)
pādacchāyām upāgamya sukham asya mahātmanaḥ |
पतिव्रतात्वम् आस्थाय रामं कृत्वा सदा हृदि । (१८।१)
pativratātvam āsthāya rāmaṃ kṛtvā sadā hṛdi |
श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति ॥ (१८।२)
śreyaste paramaṃ devi tathā kṛtvā bhaviṣyati ||
Data courtesy of The Digital Corpus of Sanskrit.