रामायणRāmāyaṇa

Rām, 1, 7

7 of 606 · 34 verses

Select a line for its word-by-word analysis.

1.1१.१

अष्टौ बभूवुर् वीरस्य तस्यामात्या यशस्विनः । (१।१)

aṣṭau babhūvur vīrasya tasyāmātyā yaśasvinaḥ |

1.2१.२

शुचयश् चानुरक्ताश् च राजकृत्येषु नित्यशः ॥ (१।२)

śucayaś cānuraktāś ca rājakṛtyeṣu nityaśaḥ ||

2.1२.१

धृष्टिर् जयन्तो विजयः सिद्धार्थो ऽर्थसाधकः । (२।१)

dhṛṣṭir jayanto vijayaḥ siddhārtho 'rthasādhakaḥ |

2.2२.२

अशोको मन्त्रपालश् च सुमन्त्रश् चाष्टमो ऽभवत् ॥ (२।२)

aśoko mantrapālaś ca sumantraś cāṣṭamo 'bhavat ||

3.1३.१

ऋत्विजौ द्वाव् अभिमतौ तस्यास्ताम् ऋषिसत्तमौ । (३।१)

ṛtvijau dvāv abhimatau tasyāstām ṛṣisattamau |

3.2३.२

वसिष्ठो वामदेवश् च मन्त्रिणश् च तथापरे ॥ (३।२)

vasiṣṭho vāmadevaś ca mantriṇaś ca tathāpare ||

4.1४.१

श्रीमन्तश् च महात्मानः शास्त्रज्ञा दृढविक्रमाः । (४।१)

śrīmantaś ca mahātmānaḥ śāstrajñā dṛḍhavikramāḥ |

4.2४.२

कीर्तिमन्तः प्रणिहिता यथा वचनकारिणः ॥ (४।२)

kīrtimantaḥ praṇihitā yathā vacanakāriṇaḥ ||

5.1५.१

तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः । (५।१)

tejaḥkṣamāyaśaḥprāptāḥ smitapūrvābhibhāṣiṇaḥ |

5.2५.२

क्रोधात् कामार्थहेतोर् वा न ब्रूयुर् अनृतं वचः ॥ (५।२)

krodhāt kāmārthahetor vā na brūyur anṛtaṃ vacaḥ ||

6.1६.१

तेषाम् अविदितं किंचित् स्वेषु नास्ति परेषु वा । (६।१)

teṣām aviditaṃ kiṃcit sveṣu nāsti pareṣu vā |

6.2६.२

क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम् ॥ (६।२)

kriyamāṇaṃ kṛtaṃ vāpi cāreṇāpi cikīrṣitam ||

7.1७.१

कुशला व्यवहारेषु सौहृदेषु परीक्षिताः । (७।१)

kuśalā vyavahāreṣu sauhṛdeṣu parīkṣitāḥ |

7.2७.२

प्राप्तकालं यथा दण्डं धारयेयुः सुतेष्व् अपि ॥ (७।२)

prāptakālaṃ yathā daṇḍaṃ dhārayeyuḥ suteṣv api ||

8.1८.१

कोशसंग्रहणे युक्ता बलस्य च परिग्रहे । (८।१)

kośasaṃgrahaṇe yuktā balasya ca parigrahe |

8.2८.२

अहितं चापि पुरुषं न विहिंस्युर् अदूषकम् ॥ (८।२)

ahitaṃ cāpi puruṣaṃ na vihiṃsyur adūṣakam ||

9.1९.१

वीरांश् च नियतोत्साहा राजशास्त्रम् अनुष्ठिताः । (९।१)

vīrāṃś ca niyatotsāhā rājaśāstram anuṣṭhitāḥ |

9.2९.२

शुचीनां रक्षितारश् च नित्यं विषयवासिनाम् ॥ (९।२)

śucīnāṃ rakṣitāraś ca nityaṃ viṣayavāsinām ||

10.1१०.१

ब्रह्मक्षत्रम् अहिंसन्तस् ते कोशं समपूरयन् । (१०।१)

brahmakṣatram ahiṃsantas te kośaṃ samapūrayan |

10.2१०.२

सुतीक्ष्णदण्डाः सम्प्रेक्ष्य पुरुषस्य बलाबलम् ॥ (१०।२)

sutīkṣṇadaṇḍāḥ samprekṣya puruṣasya balābalam ||

11.1११.१

शुचीनाम् एकबुद्धीनां सर्वेषां सम्प्रजानताम् । (११।१)

śucīnām ekabuddhīnāṃ sarveṣāṃ samprajānatām |

11.2११.२

नासीत् पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित् ॥ (११।२)

nāsīt pure vā rāṣṭre vā mṛṣāvādī naraḥ kvacit ||

12.1१२.१

कश्चिन् न दुष्टस् तत्रासीत् परदाररतिर् नरः । (१२।१)

kaścin na duṣṭas tatrāsīt paradāraratir naraḥ |

12.2१२.२

प्रशान्तं सर्वम् एवासीद् राष्ट्रं पुरवरं च तत् ॥ (१२।२)

praśāntaṃ sarvam evāsīd rāṣṭraṃ puravaraṃ ca tat ||

13.1१३.१

सुवाससः सुवेशाश् च ते च सर्वे सुशीलिनः । (१३।१)

suvāsasaḥ suveśāś ca te ca sarve suśīlinaḥ |

13.2१३.२

हितार्थं च नरेन्द्रस्य जाग्रतो नयचक्षुषा ॥ (१३।२)

hitārthaṃ ca narendrasya jāgrato nayacakṣuṣā ||

14.1१४.१

गुरौ गुणगृहीताश् च प्रख्याताश् च पराक्रमैः । (१४।१)

gurau guṇagṛhītāś ca prakhyātāś ca parākramaiḥ |

14.2१४.२

विदेशेष्व् अपि विज्ञाताः सर्वतो बुद्धिनिश्चयात् ॥ (१४।२)

videśeṣv api vijñātāḥ sarvato buddhiniścayāt ||

15.1१५.१

ईदृशैस् तैर् अमात्यैस् तु राजा दशरथो ऽनघः । (१५।१)

īdṛśais tair amātyais tu rājā daśaratho 'naghaḥ |

15.2१५.२

उपपन्नो गुणोपेतैर् अन्वशासद् वसुंधराम् ॥ (१५।२)

upapanno guṇopetair anvaśāsad vasuṃdharām ||

16.1१६.१

अवेक्षमाणश् चारेण प्रजा धर्मेण रञ्जयन् । (१६।१)

avekṣamāṇaś cāreṇa prajā dharmeṇa rañjayan |

16.2१६.२

नाध्यगच्छद् विशिष्टं वा तुल्यं वा शत्रुम् आत्मनः ॥ (१६।२)

nādhyagacchad viśiṣṭaṃ vā tulyaṃ vā śatrum ātmanaḥ ||

17.1१७.१

तैर् मन्त्रिभिर् मन्त्रहितैर् निविष्टैर् वृतो ऽनुरक्तैः कुशलैः समर्थैः । (१७।१)

tair mantribhir mantrahitair niviṣṭair vṛto 'nuraktaiḥ kuśalaiḥ samarthaiḥ |

17.2१७.२

स पार्थिवो दीप्तिम् अवाप युक्तस् तेजोमयैर् गोभिर् इवोदितो ऽर्कः ॥ (१७।२)

sa pārthivo dīptim avāpa yuktas tejomayair gobhir ivodito 'rkaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

Rām, 1, 7

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit