Rām, 1, 26
Select a line for its word-by-word analysis.
परितुष्टो ऽस्मि भद्रं ते राजपुत्र महायशः । (२।१)
parituṣṭo 'smi bhadraṃ te rājaputra mahāyaśaḥ |
प्रीत्या परमया युक्तो ददाम्य् अस्त्राणि सर्वशः ॥ (२।२)
prītyā paramayā yukto dadāmy astrāṇi sarvaśaḥ ||
यैर् अमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि ॥ (३।२)
yair amitrān prasahyājau vaśīkṛtya jayiṣyasi ||
तानि दिव्यानि भद्रं ते ददाम्य् अस्त्राणि सर्वशः । (४।१)
tāni divyāni bhadraṃ te dadāmy astrāṇi sarvaśaḥ |
दण्डचक्रं महद् दिव्यं तव दास्यामि राघव ॥ (४।२)
daṇḍacakraṃ mahad divyaṃ tava dāsyāmi rāghava ||
विष्णुचक्रं तथात्युग्रम् ऐन्द्रं चक्रं तथैव च ॥ (५।२)
viṣṇucakraṃ tathātyugram aindraṃ cakraṃ tathaiva ca ||
वज्रम् अस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा । (६।१)
vajram astraṃ naraśreṣṭha śaivaṃ śūlavaraṃ tathā |
अस्त्रं ब्रह्मशिरश् चैव ऐषीकम् अपि राघव ॥ (६।२)
astraṃ brahmaśiraś caiva aiṣīkam api rāghava ||
ददामि ते महाबाहो ब्राह्मम् अस्त्रम् अनुत्तमम् । (७।१)
dadāmi te mahābāho brāhmam astram anuttamam |
वारुणं पाशम् अस्त्रं च ददान्य् अहम् अनुत्तमम् । (९।१)
vāruṇaṃ pāśam astraṃ ca dadāny aham anuttamam |
अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन ॥ (९।२)
aśanī dve prayacchāmi śuṣkārdre raghunandana ||
ददामि चास्त्रं पैनाकम् अस्त्रं नारायणं तथा । (१०।१)
dadāmi cāstraṃ painākam astraṃ nārāyaṇaṃ tathā |
आग्नेयम् अस्त्रं दयितं शिखरं नाम नामतः ॥ (१०।२)
āgneyam astraṃ dayitaṃ śikharaṃ nāma nāmataḥ ||
अस्त्रं हयशिरो नाम क्रौञ्चम् अस्त्रं तथैव च ॥ (११।२)
astraṃ hayaśiro nāma krauñcam astraṃ tathaiva ca ||
कङ्कालं मुसलं घोरं कापालम् अथ कङ्कणम् ॥ (१२।२)
kaṅkālaṃ musalaṃ ghoraṃ kāpālam atha kaṅkaṇam ||
धारयन्त्य् असुरा यानि ददाम्य् एतानि सर्वशः । (१३।१)
dhārayanty asurā yāni dadāmy etāni sarvaśaḥ |
वैद्याधरं महास्त्रं च नन्दनं नाम नामतः ॥ (१३।२)
vaidyādharaṃ mahāstraṃ ca nandanaṃ nāma nāmataḥ ||
गान्धर्वम् अस्त्रं दयितं मानवं नाम नामतः ॥ (१४।२)
gāndharvam astraṃ dayitaṃ mānavaṃ nāma nāmataḥ ||
मदनं चैव दुर्धर्षं कन्दर्पदयितं तथा । (१६।१)
madanaṃ caiva durdharṣaṃ kandarpadayitaṃ tathā |
पैशाचम् अस्त्रं दयितं मोहनं नाम नामतः । (१६।२)
paiśācam astraṃ dayitaṃ mohanaṃ nāma nāmataḥ |
संवर्तं चैव दुर्धर्षं मौसलं च नृपात्मज ॥ (१७।२)
saṃvartaṃ caiva durdharṣaṃ mausalaṃ ca nṛpātmaja ||
सत्यम् अस्त्रं महाबाहो तथा मायाधरं परम् । (१८।१)
satyam astraṃ mahābāho tathā māyādharaṃ param |
सोमास्त्रं शिशिरं नाम त्वाष्ट्रम् अस्त्रं सुदामनम् । (१९।१)
somāstraṃ śiśiraṃ nāma tvāṣṭram astraṃ sudāmanam |
स्थितस् तु प्राङ्मुखो भूत्वा शुचिर् निवरतस् तदा । (२१।१)
sthitas tu prāṅmukho bhūtvā śucir nivaratas tadā |
ददौ रामाय सुप्रीतो मन्त्रग्रामम् अनुत्तमम् ॥ (२१।२)
dadau rāmāya suprīto mantragrāmam anuttamam ||
जपतस् तु मुनेस् तस्य विश्वामित्रस्य धीमतः । (२२।१)
japatas tu munes tasya viśvāmitrasya dhīmataḥ |
उपतस्थुर् महार्हाणि सर्वाण्य् अस्त्राणि राघवम् ॥ (२२।२)
upatasthur mahārhāṇi sarvāṇy astrāṇi rāghavam ||
ऊचुश् च मुदिता रामं सर्वे प्राञ्जलयस् तदा । (२३।१)
ūcuś ca muditā rāmaṃ sarve prāñjalayas tadā |
प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना । (२४।१)
pratigṛhya ca kākutsthaḥ samālabhya ca pāṇinā |
मनसा मे भविष्यध्वम् इति तान्य् अभ्यचोदयत् ॥ (२४।२)
manasā me bhaviṣyadhvam iti tāny abhyacodayat ||
ततः प्रीतमना रामो विश्वामित्रं महामुनिम् । (२५।१)
tataḥ prītamanā rāmo viśvāmitraṃ mahāmunim |
Data courtesy of The Digital Corpus of Sanskrit.