Rām, 1, 55
Select a line for its word-by-word analysis.
आग्नेयम् अस्त्रम् उत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत् ॥ (१।२)
āgneyam astram utkṣipya tiṣṭha tiṣṭheti cābravīt ||
वसिष्ठो भगवान् क्रोधाद् इदं वचनम् अब्रवीत् । (२।१)
vasiṣṭho bhagavān krodhād idaṃ vacanam abravīt |
क्षत्रबन्धो स्थितो ऽस्म्य् एष यद् बलं तद् विदर्शय ॥ (२।२)
kṣatrabandho sthito 'smy eṣa yad balaṃ tad vidarśaya ||
नाशयाम्य् एष ते दर्पं शस्त्रस्य तव गाधिज । (३।१)
nāśayāmy eṣa te darpaṃ śastrasya tava gādhija |
क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत् ॥ (३।२)
kva ca te kṣatriyabalaṃ kva ca brahmabalaṃ mahat ||
तस्यास्त्रं गाधिपुत्रस्य घोरम् आग्नेयम् उत्तमम् ॥ (४।२)
tasyāstraṃ gādhiputrasya ghoram āgneyam uttamam ||
ब्रह्मदण्डेन तच् छान्तम् अग्नेर् वेग इवाम्भसा । (५।१)
brahmadaṇḍena tac chāntam agner vega ivāmbhasā |
वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा ॥ (५।२)
vāruṇaṃ caiva raudraṃ ca aindraṃ pāśupataṃ tathā ||
मानवं मोहनं चैव गान्धर्वं स्वापनं तथा ॥ (६।२)
mānavaṃ mohanaṃ caiva gāndharvaṃ svāpanaṃ tathā ||
शोषणं दारणं चैव वज्रम् अस्त्रं सुदुर्जयम् ॥ (७।२)
śoṣaṇaṃ dāraṇaṃ caiva vajram astraṃ sudurjayam ||
पिनाकास्त्रं च दयितं शुष्कार्द्रे अशनी तथा ॥ (८।२)
pinākāstraṃ ca dayitaṃ śuṣkārdre aśanī tathā ||
दण्डास्त्रम् अथ पैशाचं क्रौञ्चम् अस्त्रं तथैव च । (९।१)
daṇḍāstram atha paiśācaṃ krauñcam astraṃ tathaiva ca |
धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च ॥ (९।२)
dharmacakraṃ kālacakraṃ viṣṇucakraṃ tathaiva ca ||
वायव्यं मथनं चैव अस्त्रं हयशिरस् तथा । (१०।१)
vāyavyaṃ mathanaṃ caiva astraṃ hayaśiras tathā |
शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा ॥ (१०।२)
śaktidvayaṃ ca cikṣepa kaṅkālaṃ musalaṃ tathā ||
वैद्याधरं महास्त्रं च कालास्त्रम् अथ दारुणम् । (११।१)
vaidyādharaṃ mahāstraṃ ca kālāstram atha dāruṇam |
त्रिशूलम् अस्त्रं घोरं च कापालम् अथ कङ्कणम् ॥ (११।२)
triśūlam astraṃ ghoraṃ ca kāpālam atha kaṅkaṇam ||
एतान्य् अस्त्राणि चिक्षेप सर्वाणि रघुनन्दन । (१२।१)
etāny astrāṇi cikṣepa sarvāṇi raghunandana |
वसिष्ठे जपतां श्रेष्ठे तद् अद्भुतम् इवाभवत् ॥ (१२।२)
vasiṣṭhe japatāṃ śreṣṭhe tad adbhutam ivābhavat ||
तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः । (१३।१)
tāni sarvāṇi daṇḍena grasate brahmaṇaḥ sutaḥ |
तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दनः ॥ (१३।२)
teṣu śānteṣu brahmāstraṃ kṣiptavān gādhinandanaḥ ||
तद् अस्त्रम् उद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः । (१४।१)
tad astram udyataṃ dṛṣṭvā devāḥ sāgnipurogamāḥ |
देवर्षयश् च संभ्रान्ता गन्धर्वाः समहोरगाः ॥ (१४।२)
devarṣayaś ca saṃbhrāntā gandharvāḥ samahoragāḥ ||
त्रैलोक्यम् आसीत् संत्रस्तं ब्रह्मास्त्रे समुदीरिते । (१५।१)
trailokyam āsīt saṃtrastaṃ brahmāstre samudīrite |
तद् अप्य् अस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा ॥ (१५।२)
tad apy astraṃ mahāghoraṃ brāhmaṃ brāhmeṇa tejasā ||
वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव । (१६।१)
vasiṣṭho grasate sarvaṃ brahmadaṇḍena rāghava |
ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः ॥ (१६।२)
brahmāstraṃ grasamānasya vasiṣṭhasya mahātmanaḥ ||
त्रैलोक्यमोहनं रौद्रं रूपम् आसीत् सुदारुणम् । (१७।१)
trailokyamohanaṃ raudraṃ rūpam āsīt sudāruṇam |
मरीच्य इव निष्पेतुर् अग्नेर् धूमाकुलार्चिषः । (१८।१)
marīcya iva niṣpetur agner dhūmākulārciṣaḥ |
प्राज्वलद् ब्रह्मदण्डश् च वसिष्ठस्य करोद्यतः ॥ (१८।२)
prājvalad brahmadaṇḍaś ca vasiṣṭhasya karodyataḥ ||
ततो ऽस्तुवन् मुनिगणा वसिष्ठं जपतां वरम् ॥ (१९।२)
tato 'stuvan munigaṇā vasiṣṭhaṃ japatāṃ varam ||
अमोघं ते बलं ब्रह्मंस् तेजो धारय तेजसा । (२०।१)
amoghaṃ te balaṃ brahmaṃs tejo dhāraya tejasā |
निगृहीतस् त्वया ब्रह्मन् विश्वामित्रो महातपाः ॥ (२०।२)
nigṛhītas tvayā brahman viśvāmitro mahātapāḥ ||
प्रसीद जपतां श्रेष्ठ लोकाः सन्तु गतव्यथाः । (२१।१)
prasīda japatāṃ śreṣṭha lokāḥ santu gatavyathāḥ |
विश्वामित्रो ऽपि निकृतो विनिःश्वस्येदम् अब्रवीत् । (२२।१)
viśvāmitro 'pi nikṛto viniḥśvasyedam abravīt |
धिग् बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् ॥ (२२।२)
dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam ||
एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे । (२३।१)
ekena brahmadaṇḍena sarvāstrāṇi hatāni me |
तद् एतत् समवेक्ष्याहं प्रसन्नेन्द्रियमानसः ॥ (२३।२)
tad etat samavekṣyāhaṃ prasannendriyamānasaḥ ||
तपो महत् समास्थास्ये यद् वै ब्रह्मत्वकारकम् ॥ (२४।१)
tapo mahat samāsthāsye yad vai brahmatvakārakam ||
Data courtesy of The Digital Corpus of Sanskrit.