Rām, 4, 53
Select a line for its word-by-word analysis.
बुद्ध्या ह्य् अष्टाङ्गया युक्तं चतुर्बलसमन्वितम् । (२।१)
buddhyā hy aṣṭāṅgayā yuktaṃ caturbalasamanvitam |
बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः । (४।१)
bṛhaspatisamaṃ buddhyā vikrame sadṛśaṃ pituḥ |
भर्तुर् अर्थे परिश्रान्तं सर्वशास्त्रविशारदम् । (५।१)
bhartur arthe pariśrāntaṃ sarvaśāstraviśāradam |
भेदयामास तान् सर्वान् वानरान् वाक्यसम्पदा ॥ (६।२)
bhedayāmāsa tān sarvān vānarān vākyasampadā ||
तेषु सर्वेषु भिन्नेषु ततो ऽभीषयद् अङ्गदम् । (७।१)
teṣu sarveṣu bhinneṣu tato 'bhīṣayad aṅgadam |
भीषणैर् बहुभिर् वाक्यैः कोपोपायसमन्वितैः ॥ (७।२)
bhīṣaṇair bahubhir vākyaiḥ kopopāyasamanvitaiḥ ||
त्वं समर्थतरः पित्रा युद्धे तारेय वै धुरम् । (८।१)
tvaṃ samarthataraḥ pitrā yuddhe tāreya vai dhuram |
दृढं धारयितुं शक्तः कपिराज्यं यथा पिता ॥ (८।२)
dṛḍhaṃ dhārayituṃ śaktaḥ kapirājyaṃ yathā pitā ||
नाज्ञाप्यं विषहिष्यन्ति पुत्रदारान् विना त्वया ॥ (९।२)
nājñāpyaṃ viṣahiṣyanti putradārān vinā tvayā ||
त्वां नैते ह्य् अनुयुञ्जेयुः प्रत्यक्षं प्रवदामि ते । (१०।१)
tvāṃ naite hy anuyuñjeyuḥ pratyakṣaṃ pravadāmi te |
यथायं जाम्बवान् नीलः सुहोत्रश् च महाकपिः ॥ (१०।२)
yathāyaṃ jāmbavān nīlaḥ suhotraś ca mahākapiḥ ||
न ह्य् अहं त इमे सर्वे सामदानादिभिर् गुणैः । (११।१)
na hy ahaṃ ta ime sarve sāmadānādibhir guṇaiḥ |
दण्डेन न त्वया शक्याः सुग्रीवाद् अपकर्षितुम् ॥ (११।२)
daṇḍena na tvayā śakyāḥ sugrīvād apakarṣitum ||
विगृह्यासनम् अप्य् आहुर् दुर्बलेन बलीयसः । (१२।१)
vigṛhyāsanam apy āhur durbalena balīyasaḥ |
आत्मरक्षाकरस् तस्मान् न विगृह्णीत दुर्बलः ॥ (१२।२)
ātmarakṣākaras tasmān na vigṛhṇīta durbalaḥ ||
यां चेमां मन्यसे धात्रीम् एतद् बिलम् इति श्रुतम् । (१३।१)
yāṃ cemāṃ manyase dhātrīm etad bilam iti śrutam |
स्वल्पं हि कृतम् इन्द्रेण क्षिपता ह्य् अशनिं पुरा । (१४।१)
svalpaṃ hi kṛtam indreṇa kṣipatā hy aśaniṃ purā |
लक्ष्मणो निशितैर् बाणैर् भिन्द्यात् पत्त्रपुटं यथा । (१४।२)
lakṣmaṇo niśitair bāṇair bhindyāt pattrapuṭaṃ yathā |
लक्ष्मणस्य च नाराचा बहवः सन्ति तद्विधाः ॥ (१४।३)
lakṣmaṇasya ca nārācā bahavaḥ santi tadvidhāḥ ||
तदैव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः ॥ (१५।२)
tadaiva harayaḥ sarve tyakṣyanti kṛtaniścayāḥ ||
स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः । (१६।१)
smarantaḥ putradārāṇāṃ nityodvignā bubhukṣitāḥ |
खेदिता दुःखशय्याभिस् त्वां करिष्यन्ति पृष्ठतः ॥ (१६।२)
kheditā duḥkhaśayyābhis tvāṃ kariṣyanti pṛṣṭhataḥ ||
स त्वं हीनः सुहृद्भिश् च हितकामैश् च बन्धुभिः । (१७।१)
sa tvaṃ hīnaḥ suhṛdbhiś ca hitakāmaiś ca bandhubhiḥ |
तृणाद् अपि भृशोद्विग्नः स्पन्दमानाद् भविष्यसि ॥ (१७।२)
tṛṇād api bhṛśodvignaḥ spandamānād bhaviṣyasi ||
न च जातु न हिंस्युस् त्वां घोरा लक्ष्मणसायकाः । (१८।१)
na ca jātu na hiṃsyus tvāṃ ghorā lakṣmaṇasāyakāḥ |
अस्माभिस् तु गतं सार्धं विनीतवद् उपस्थितम् । (१९।१)
asmābhis tu gataṃ sārdhaṃ vinītavad upasthitam |
आनुपूर्व्यात् तु सुग्रीवो राज्ये त्वां स्थापयिष्यति ॥ (१९।२)
ānupūrvyāt tu sugrīvo rājye tvāṃ sthāpayiṣyati ||
धर्मकामः पितृव्यस् ते प्रीतिकामो दृढव्रतः । (२०।१)
dharmakāmaḥ pitṛvyas te prītikāmo dṛḍhavrataḥ |
शुचिः सत्यप्रतिज्ञश् च ना त्वां जातु जिघांसति ॥ (२०।२)
śuciḥ satyapratijñaś ca nā tvāṃ jātu jighāṃsati ||
प्रियकामश् च ते मातुस् तदर्थं चास्य जीवितम् । (२१।१)
priyakāmaś ca te mātus tadarthaṃ cāsya jīvitam |
तस्यापत्यं च नास्त्य् अन्यत् तस्माद् अङ्गद गम्यताम् ॥ (२१।२)
tasyāpatyaṃ ca nāsty anyat tasmād aṅgada gamyatām ||
Data courtesy of The Digital Corpus of Sanskrit.