Rām, 1, 52
Select a line for its word-by-word analysis.
विदधे कामधुक् कामान् यस्य यस्य यथेप्सितम् ॥ (१।२)
vidadhe kāmadhuk kāmān yasya yasya yathepsitam ||
इक्षून् मधूंस् तथा लाजान् मैरेयांश् च वरासवान् । (२।१)
ikṣūn madhūṃs tathā lājān maireyāṃś ca varāsavān |
पानानि च महार्हाणि भक्ष्यांश् चोच्चावचांस् तथा ॥ (२।२)
pānāni ca mahārhāṇi bhakṣyāṃś coccāvacāṃs tathā ||
मृष्टान्नानि च सूपाश् च दधिकुल्यास् तथैव च ॥ (३।२)
mṛṣṭānnāni ca sūpāś ca dadhikulyās tathaiva ca ||
सर्वम् आसीत् सुसंतुष्टं हृष्टपुष्टजनाकुलम् । (५।१)
sarvam āsīt susaṃtuṣṭaṃ hṛṣṭapuṣṭajanākulam |
विश्वामित्रो ऽपि राजर्षिर् हृष्टपुष्टस् तदाभवत् । (६।१)
viśvāmitro 'pi rājarṣir hṛṣṭapuṣṭas tadābhavat |
सामात्यो मन्त्रिसहितः सभृत्यः पूजितस् तदा । (७।१)
sāmātyo mantrisahitaḥ sabhṛtyaḥ pūjitas tadā |
युक्तः परेण हर्षेण वसिष्ठम् इदम् अब्रवीत् ॥ (७।२)
yuktaḥ pareṇa harṣeṇa vasiṣṭham idam abravīt ||
पूजितो ऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः । (८।१)
pūjito 'haṃ tvayā brahman pūjārheṇa susatkṛtaḥ |
रत्नं हि भगवन्न् एतद् रत्नहारी च पार्थिवः । (९।२)
ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ |
तस्मान् मे शबलां देहि ममैषा धर्मतो द्विज ॥ (९।३)
tasmān me śabalāṃ dehi mamaiṣā dharmato dvija ||
एवम् उक्तस् तु भगवान् वसिष्ठो मुनिसत्तमः । (१०।१)
evam uktas tu bhagavān vasiṣṭho munisattamaḥ |
विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम् ॥ (१०।२)
viśvāmitreṇa dharmātmā pratyuvāca mahīpatim ||
शाश्वती शबला मह्यं कीर्तिर् आत्मवतो यथा ॥ (१२।२)
śāśvatī śabalā mahyaṃ kīrtir ātmavato yathā ||
अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च । (१३।१)
asyāṃ havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca |
आयत्तम् अग्निहोत्रं च बलिर् होमस् तथैव च ॥ (१३।२)
āyattam agnihotraṃ ca balir homas tathaiva ca ||
स्वाहाकारवषट्कारौ विद्याश् च विविधास् तथा । (१४।१)
svāhākāravaṣaṭkārau vidyāś ca vividhās tathā |
आयत्तम् अत्र राजर्षे सर्वम् एतन् न संशयः ॥ (१४।२)
āyattam atra rājarṣe sarvam etan na saṃśayaḥ ||
कारणैर् बहुभी राजन् न दास्ये शबलां तव ॥ (१५।२)
kāraṇair bahubhī rājan na dāsye śabalāṃ tava ||
वसिष्ठेनैवम् उक्तस् तु विश्वामित्रो ऽब्रवीत् ततः । (१६।१)
vasiṣṭhenaivam uktas tu viśvāmitro 'bravīt tataḥ |
संरब्धतरम् अत्यर्थं वाक्यं वाक्यविशारदः ॥ (१६।२)
saṃrabdhataram atyarthaṃ vākyaṃ vākyaviśāradaḥ ||
हैरण्यकक्ष्याग्रैवेयान् सुवर्णाङ्कुशभूषितान् । (१७।१)
hairaṇyakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān |
हैरण्यानां रथानां च श्वेताश्वानां चतुर्युजाम् । (१८।१)
hairaṇyānāṃ rathānāṃ ca śvetāśvānāṃ caturyujām |
ददामि ते शतान्य् अष्टौ किङ्किणीकविभूषितान् ॥ (१८।२)
dadāmi te śatāny aṣṭau kiṅkiṇīkavibhūṣitān ||
नानावर्णविभक्तानां वयःस्थानां तथैव च । (२०।१)
nānāvarṇavibhaktānāṃ vayaḥsthānāṃ tathaiva ca |
ददाम्य् एकां गवां कोटिं शबला दीयतां मम ॥ (२०।२)
dadāmy ekāṃ gavāṃ koṭiṃ śabalā dīyatāṃ mama ||
एवम् उक्तस् तु भगवान् विश्वामित्रेण धीमता । (२१।१)
evam uktas tu bhagavān viśvāmitreṇa dhīmatā |
एतद् एव हि मे रत्नम् एतद् एव हि मे धनम् । (२२।१)
etad eva hi me ratnam etad eva hi me dhanam |
एतद् एव हि सर्वस्वम् एतद् एव हि जीवितम् ॥ (२२।२)
etad eva hi sarvasvam etad eva hi jīvitam ||
दर्शश् च पूर्णमासश् च यज्ञाश् चैवाप्तदक्षिणाः । (२३।१)
darśaś ca pūrṇamāsaś ca yajñāś caivāptadakṣiṇāḥ |
एतद् एव हि मे राजन् विविधाश् च क्रियास् तथा ॥ (२३।२)
etad eva hi me rājan vividhāś ca kriyās tathā ||
अदोमूलाः क्रियाः सर्वा मम राजन् न संशयः । (२४।१)
adomūlāḥ kriyāḥ sarvā mama rājan na saṃśayaḥ |
बहूनां किं प्रलापेन न दास्ये कामदोहिनीम् ॥ (२४।२)
bahūnāṃ kiṃ pralāpena na dāsye kāmadohinīm ||
Data courtesy of The Digital Corpus of Sanskrit.