Rām, 2, 78
Select a line for its word-by-word analysis.
ततो निविष्टां ध्वजिनीं गङ्गाम् अन्वाश्रितां नदीम् । (१।१)
tato niviṣṭāṃ dhvajinīṃ gaṅgām anvāśritāṃ nadīm |
निषादराजो दृष्ट्वैव ज्ञातीन् संत्वरितो ऽब्रवीत् ॥ (१।२)
niṣādarājo dṛṣṭvaiva jñātīn saṃtvarito 'bravīt ||
बन्धयिष्यति वा दाशान् अथ वास्मान् वधिष्यति ॥ (३।२)
bandhayiṣyati vā dāśān atha vāsmān vadhiṣyati ||
अथ दाशरथिं रामं पित्रा राज्याद् विवासितम् । (४।१)
atha dāśarathiṃ rāmaṃ pitrā rājyād vivāsitam |
तस्यार्थकामाः संनद्धा गङ्गानूपे ऽत्र तिष्ठत ॥ (५।२)
tasyārthakāmāḥ saṃnaddhā gaṅgānūpe 'tra tiṣṭhata ||
तिष्ठन्तु सर्वदाशाश् च गङ्गाम् अन्वाश्रिता नदीम् । (६।१)
tiṣṭhantu sarvadāśāś ca gaṅgām anvāśritā nadīm |
नावां शतानां पञ्चानां कैवर्तानां शतं शतम् । (७।१)
nāvāṃ śatānāṃ pañcānāṃ kaivartānāṃ śataṃ śatam |
संनद्धानां तथा यूनां तिष्ठन्त्व् इत्य् अभ्यचोदयत् ॥ (७।२)
saṃnaddhānāṃ tathā yūnāṃ tiṣṭhantv ity abhyacodayat ||
सेयं स्वस्तिमयी सेना गङ्गाम् अद्य तरिष्यति ॥ (८।२)
seyaṃ svastimayī senā gaṅgām adya tariṣyati ||
इत्य् उक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च । (९।१)
ity uktvopāyanaṃ gṛhya matsyamāṃsamadhūni ca |
तम् आयान्तं तु सम्प्रेक्ष्य सूतपुत्रः प्रतापवान् । (१०।१)
tam āyāntaṃ tu samprekṣya sūtaputraḥ pratāpavān |
कुशलो दण्डकारण्ये वृद्धो भ्रातुश् च ते सखा ॥ (११।२)
kuśalo daṇḍakāraṇye vṛddho bhrātuś ca te sakhā ||
तस्मात् पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः । (१२।१)
tasmāt paśyatu kākutstha tvāṃ niṣādādhipo guhaḥ |
एतत् तु वचनं श्रुत्वा सुमन्त्राद् भरतः शुभम् । (१३।१)
etat tu vacanaṃ śrutvā sumantrād bharataḥ śubham |
उवाच वचनं शीघ्रं गुहः पश्यतु माम् इति ॥ (१३।२)
uvāca vacanaṃ śīghraṃ guhaḥ paśyatu mām iti ||
लब्ध्वाभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितः । (१४।१)
labdhvābhyanujñāṃ saṃhṛṣṭo jñātibhiḥ parivāritaḥ |
आगम्य भरतं प्रह्वो गुहो वचनम् अब्रवीत् ॥ (१४।२)
āgamya bharataṃ prahvo guho vacanam abravīt ||
निष्कुटश् चैव देशो ऽयं वञ्चिताश् चापि ते वयम् । (१५।१)
niṣkuṭaś caiva deśo 'yaṃ vañcitāś cāpi te vayam |
अस्ति मूलं फलं चैव निषादैः समुपाहृतम् । (१६।१)
asti mūlaṃ phalaṃ caiva niṣādaiḥ samupāhṛtam |
आर्द्रं च मांसं शुष्कं च वन्यं चोच्चावचं महत् ॥ (१६।२)
ārdraṃ ca māṃsaṃ śuṣkaṃ ca vanyaṃ coccāvacaṃ mahat ||
आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम् । (१७।१)
āśaṃse svāśitā senā vatsyatīmāṃ vibhāvarīm |
अर्चितो विविधैः कामैः श्वः ससैन्यो गमिष्यसि ॥ (१७।२)
arcito vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi ||
Data courtesy of The Digital Corpus of Sanskrit.