Rām, 1, 6
Select a line for its word-by-word analysis.
पुर्यां तस्याम् अयोध्यायां वेदवित् सर्वसंग्रहः । (१।१)
puryāṃ tasyām ayodhyāyāṃ vedavit sarvasaṃgrahaḥ |
महर्षिकल्पो राजर्षिस् त्रिषु लोकेषु विश्रुतः ॥ (२।२)
maharṣikalpo rājarṣis triṣu lokeṣu viśrutaḥ ||
बलवान् निहतामित्रो मित्रवान् विजितेन्द्रियः । (३।१)
balavān nihatāmitro mitravān vijitendriyaḥ |
धनैश् च संचयैश् चान्यैः शक्रवैश्रवणोपमः ॥ (३।२)
dhanaiś ca saṃcayaiś cānyaiḥ śakravaiśravaṇopamaḥ ||
तस्मिन् पुरवरे हृष्टा धर्मात्मना बहु श्रुताः । (६।१)
tasmin puravare hṛṣṭā dharmātmanā bahu śrutāḥ |
नरास् तुष्टाधनैः स्वैः स्वैर् अलुब्धाः सत्यवादिनः ॥ (६।२)
narās tuṣṭādhanaiḥ svaiḥ svair alubdhāḥ satyavādinaḥ ||
नाल्पसंनिचयः कश्चिद् आसीत् तस्मिन् पुरोत्तमे । (७।१)
nālpasaṃnicayaḥ kaścid āsīt tasmin purottame |
कुटुम्बी यो ह्य् असिद्धार्थो ऽगवाश्वधनधान्यवान् ॥ (७।२)
kuṭumbī yo hy asiddhārtho 'gavāśvadhanadhānyavān ||
कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् । (८।१)
kāmī vā na kadaryo vā nṛśaṃsaḥ puruṣaḥ kvacit |
द्रष्टुं शक्यम् अयोध्यायां नाविद्वान् न च नास्तिकः ॥ (८।२)
draṣṭuṃ śakyam ayodhyāyāṃ nāvidvān na ca nāstikaḥ ||
सर्वे नराश् च नार्यश् च धर्मशीलाः सुसंयताः । (९।१)
sarve narāś ca nāryaś ca dharmaśīlāḥ susaṃyatāḥ |
नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान् । (१०।१)
nākuṇḍalī nāmukuṭī nāsragvī nālpabhogavān |
नामृष्टो नानुलिप्ताङ्गो नासुगन्धश् च विद्यते ॥ (१०।२)
nāmṛṣṭo nānuliptāṅgo nāsugandhaś ca vidyate ||
नामृष्टभोजी नादाता नाप्य् अनङ्गदनिष्कधृक् । (११।१)
nāmṛṣṭabhojī nādātā nāpy anaṅgadaniṣkadhṛk |
नाहस्ताभरणो वापि दृश्यते नाप्य् अनात्मवान् ॥ (११।२)
nāhastābharaṇo vāpi dṛśyate nāpy anātmavān ||
नानाहिताग्निर् नायज्वा विप्रो नाप्य् असहस्रदः । (१२।१)
nānāhitāgnir nāyajvā vipro nāpy asahasradaḥ |
कश्चिद् आसीद् अयोध्यायां न च निर्वृत्तसंकरः ॥ (१२।२)
kaścid āsīd ayodhyāyāṃ na ca nirvṛttasaṃkaraḥ ||
स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः । (१३।१)
svakarmaniratā nityaṃ brāhmaṇā vijitendriyāḥ |
दानाध्ययनशीलाश् च संयताश् च प्रतिग्रहे ॥ (१३।२)
dānādhyayanaśīlāś ca saṃyatāś ca pratigrahe ||
नासूयको न चाशक्तो नाविद्वान् विद्यते तदा ॥ (१४।२)
nāsūyako na cāśakto nāvidvān vidyate tadā ||
न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन । (१५।१)
na dīnaḥ kṣiptacitto vā vyathito vāpi kaścana |
कश्चिन् नरो वा नारी वा नाश्रीमान् नाप्य् अरूपवान् । (१५।२)
kaścin naro vā nārī vā nāśrīmān nāpy arūpavān |
द्रष्टुं शक्यम् अयोध्यायां नापि राजन्यभक्तिमान् ॥ (१५।३)
draṣṭuṃ śakyam ayodhyāyāṃ nāpi rājanyabhaktimān ||
वर्णेष्व् अग्र्यचतुर्थेषु देवतातिथिपूजकाः । (१६।१)
varṇeṣv agryacaturtheṣu devatātithipūjakāḥ |
दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः ॥ (१६।२)
dīrghāyuṣo narāḥ sarve dharmaṃ satyaṃ ca saṃśritāḥ ||
क्षत्रं ब्रह्ममुखं चासीद् वैश्याः क्षत्रम् अनुव्रताः । (१७।१)
kṣatraṃ brahmamukhaṃ cāsīd vaiśyāḥ kṣatram anuvratāḥ |
शूद्राः स्वधर्मनिरतास् त्रीन् वर्णान् उपचारिणः ॥ (१७।२)
śūdrāḥ svadharmaniratās trīn varṇān upacāriṇaḥ ||
यथा पुरस्तान् मनुना मानवेन्द्रेण धीमता ॥ (१८।२)
yathā purastān manunā mānavendreṇa dhīmatā ||
योधानाम् अग्निकल्पानां पेशलानाम् अमर्षिणाम् । (१९।१)
yodhānām agnikalpānāṃ peśalānām amarṣiṇām |
काम्बोजविषये जातैर् वाह्लीकैश् च हयोत्तमैः । (२०।१)
kāmbojaviṣaye jātair vāhlīkaiś ca hayottamaiḥ |
वनायुजैर् नदीजैश् च पूर्णा हरिहयोपमैः ॥ (२०।२)
vanāyujair nadījaiś ca pūrṇā harihayopamaiḥ ||
विन्ध्यपर्वतजैर् मत्तैः पूर्णा हैमवतैर् अपि । (२१।१)
vindhyaparvatajair mattaiḥ pūrṇā haimavatair api |
मदान्वितैर् अतिबलैर् मातंगैः पर्वतोपमैः ॥ (२१।२)
madānvitair atibalair mātaṃgaiḥ parvatopamaiḥ ||
अञ्जनाद् अपि निष्क्रान्तैर् वामनाद् अपि च द्विपैः । (२२।१)
añjanād api niṣkrāntair vāmanād api ca dvipaiḥ |
भद्रमन्द्रैर् भद्रमृगैर् मृगमन्द्रैश् च सा पुरी ॥ (२२।२)
bhadramandrair bhadramṛgair mṛgamandraiś ca sā purī ||
नित्यमत्तैः सदा पूर्णा नागैर् अचलसंनिभैः । (२३।१)
nityamattaiḥ sadā pūrṇā nāgair acalasaṃnibhaiḥ |
सा योजने च द्वे भूयः सत्यनामा प्रकाशते ॥ (२३।२)
sā yojane ca dve bhūyaḥ satyanāmā prakāśate ||
तां सत्यनामां दृढतोरणार्गलाम् गृहैर् विचित्रैर् उपशोभितां शिवाम् । (२४।१)
tāṃ satyanāmāṃ dṛḍhatoraṇārgalām gṛhair vicitrair upaśobhitāṃ śivām |
पुरीम् अयोध्यां नृसहस्रसंकुलां शशास वै शक्रसमो महीपतिः ॥ (२४।२)
purīm ayodhyāṃ nṛsahasrasaṃkulāṃ śaśāsa vai śakrasamo mahīpatiḥ ||
Data courtesy of The Digital Corpus of Sanskrit.