Rām, 4, 13
Select a line for its word-by-word analysis.
ऋश्यमूकात् स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः । (१।१)
ṛśyamūkāt sa dharmātmā kiṣkindhāṃ lakṣmaṇāgrajaḥ |
शरांश् चादित्यसंकाशान् गृहीत्वा रणसाधकान् ॥ (२।२)
śarāṃś cādityasaṃkāśān gṛhītvā raṇasādhakān ||
ते वीक्षमाणा वृक्षांश् च पुष्पभारावलम्बिनः । (५।१)
te vīkṣamāṇā vṛkṣāṃś ca puṣpabhārāvalambinaḥ |
कन्दराणि च शैलांश् च निर्दराणि गुहास् तथा । (६।१)
kandarāṇi ca śailāṃś ca nirdarāṇi guhās tathā |
शिखराणि च मुख्यानि दरीश् च प्रियदर्शनाः ॥ (६।२)
śikharāṇi ca mukhyāni darīś ca priyadarśanāḥ ||
वैदूर्यविमलैः पर्णैः पद्मैश् चाकाशकुड्मलैः । (७।१)
vaidūryavimalaiḥ parṇaiḥ padmaiś cākāśakuḍmalaiḥ |
शोभितान् सजलान् मार्गे तटाकांश् च व्यलोकयन् ॥ (७।२)
śobhitān sajalān mārge taṭākāṃś ca vyalokayan ||
कारण्डैः सारसैर् हंसैर् वञ्जुलैर् जलकुक्कुटैः । (८।१)
kāraṇḍaiḥ sārasair haṃsair vañjulair jalakukkuṭaiḥ |
चक्रवाकैस् तथा चान्यैः शकुनैः प्रतिनादितान् ॥ (८।२)
cakravākais tathā cānyaiḥ śakunaiḥ pratināditān ||
चरतः सर्वतो ऽपश्यन् स्थलीषु हरिणान् स्थितान् ॥ (९।२)
carataḥ sarvato 'paśyan sthalīṣu hariṇān sthitān ||
घोरान् एकचरान् वन्यान् द्विरदान् कूलघातिनः ॥ (१०।२)
ghorān ekacarān vanyān dviradān kūlaghātinaḥ ||
वने वनचरांश् चान्यान् खेचरांश् च विहंगमान् । (११।१)
vane vanacarāṃś cānyān khecarāṃś ca vihaṃgamān |
पश्यन्तस् त्वरिता जग्मुः सुग्रीववशवर्तिनः ॥ (११।२)
paśyantas tvaritā jagmuḥ sugrīvavaśavartinaḥ ||
तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः । (१२।१)
teṣāṃ tu gacchatāṃ tatra tvaritaṃ raghunandanaḥ |
द्रुमषण्डं वनं दृष्ट्वा रामः सुग्रीवम् अब्रवीत् ॥ (१२।२)
drumaṣaṇḍaṃ vanaṃ dṛṣṭvā rāmaḥ sugrīvam abravīt ||
किम् एतज् ज्ञातुम् इच्छामि सखे कौतूहलं मम । (१४।१)
kim etaj jñātum icchāmi sakhe kautūhalaṃ mama |
कौतूहलापनयनं कर्तुम् इच्छाम्य् अहं त्वया ॥ (१४।२)
kautūhalāpanayanaṃ kartum icchāmy ahaṃ tvayā ||
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः । (१५।१)
tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ |
गच्छन्न् एवाचचक्षे ऽथ सुग्रीवस् तन् महद् वनम् ॥ (१५।२)
gacchann evācacakṣe 'tha sugrīvas tan mahad vanam ||
एतद् राघव विस्तीर्णम् आश्रमं श्रमनाशनम् । (१६।१)
etad rāghava vistīrṇam āśramaṃ śramanāśanam |
सप्तैवासन्न् अधःशीर्षा नियतं जलशायिनः ॥ (१७।२)
saptaivāsann adhaḥśīrṣā niyataṃ jalaśāyinaḥ ||
दिवं वर्षशतैर् याताः सप्तभिः सकलेवराः ॥ (१८।२)
divaṃ varṣaśatair yātāḥ saptabhiḥ sakalevarāḥ ||
तेषाम् एवं प्रभावेन द्रुमप्राकारसंवृतम् । (१९।१)
teṣām evaṃ prabhāvena drumaprākārasaṃvṛtam |
आश्रमं सुदुराधर्षम् अपि सेन्द्रैः सुरासुरैः ॥ (१९।२)
āśramaṃ sudurādharṣam api sendraiḥ surāsuraiḥ ||
पक्षिणो वर्जयन्त्य् एतत् तथान्ये वनचारिणः । (२०।१)
pakṣiṇo varjayanty etat tathānye vanacāriṇaḥ |
विशन्ति मोहाद् ये ऽप्य् अत्र निवर्तन्ते न ते पुनः ॥ (२०।२)
viśanti mohād ye 'py atra nivartante na te punaḥ ||
तूर्यगीतस्वनाश् चापि गन्धो दिव्यश् च राघव ॥ (२१।२)
tūryagītasvanāś cāpi gandho divyaś ca rāghava ||
त्रेताग्नयो ऽपि दीप्यन्ते धूमो ह्य् एष प्रदृश्यते । (२२।१)
tretāgnayo 'pi dīpyante dhūmo hy eṣa pradṛśyate |
वेष्टयन्न् इव वृक्षाग्रान् कपोताङ्गारुणो घनः ॥ (२२।२)
veṣṭayann iva vṛkṣāgrān kapotāṅgāruṇo ghanaḥ ||
कुरु प्रणामं धर्मात्मंस् तान् समुद्दिश्य राघवः । (२३।१)
kuru praṇāmaṃ dharmātmaṃs tān samuddiśya rāghavaḥ |
लक्ष्मणेन सह भ्रात्रा प्रयतः संयताञ्जलिः ॥ (२३।२)
lakṣmaṇena saha bhrātrā prayataḥ saṃyatāñjaliḥ ||
प्रणमन्ति हि ये तेषाम् ऋषीणां भावितात्मनाम् । (२४।१)
praṇamanti hi ye teṣām ṛṣīṇāṃ bhāvitātmanām |
न तेषाम् अशुभं किंचिच् छरीरे राम दृश्यते ॥ (२४।२)
na teṣām aśubhaṃ kiṃcic charīre rāma dṛśyate ||
ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः । (२५।१)
tato rāmaḥ saha bhrātrā lakṣmaṇena kṛtāñjaliḥ |
समुद्दिश्य महात्मानस् तान् ऋषीन् अभ्यवादयत् ॥ (२५।२)
samuddiśya mahātmānas tān ṛṣīn abhyavādayat ||
अभिवाद्य च धर्मात्मा रामो भ्राता च लक्ष्मणः । (२६।१)
abhivādya ca dharmātmā rāmo bhrātā ca lakṣmaṇaḥ |
सुग्रीवो वानराश् चैव जग्मुः संहृष्टमानसाः ॥ (२६।२)
sugrīvo vānarāś caiva jagmuḥ saṃhṛṣṭamānasāḥ ||
ते गत्वा दूरम् अध्वानं तस्मात् सप्तजनाश्रमात् । (२७।१)
te gatvā dūram adhvānaṃ tasmāt saptajanāśramāt |
ददृशुस् तां दुराधर्षां किष्किन्धां वालिपालिताम् ॥ (२७।२)
dadṛśus tāṃ durādharṣāṃ kiṣkindhāṃ vālipālitām ||
Data courtesy of The Digital Corpus of Sanskrit.