Rām, 2, 83
Select a line for its word-by-word analysis.
व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः । (१।१)
vyuṣya rātriṃ tu tatraiva gaṅgākūle sa rāghavaḥ |
भरतः काल्यम् उत्थाय शत्रुघ्नम् इदम् अब्रवीत् ॥ (१।२)
bharataḥ kālyam utthāya śatrughnam idam abravīt ||
शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् । (२।१)
śatrughnottiṣṭha kiṃ śeṣe niṣādādhipatiṃ guham |
शीघ्रम् आनय भद्रं ते तारयिष्यति वाहिनीम् ॥ (२।२)
śīghram ānaya bhadraṃ te tārayiṣyati vāhinīm ||
जागर्मि नाहं स्वपिमि तथैवार्यं विचिन्तयन् । (३।१)
jāgarmi nāhaṃ svapimi tathaivāryaṃ vicintayan |
इत्य् एवम् अब्रवीद् भ्रात्रा शत्रुघ्नो ऽपि प्रचोदितः ॥ (३।२)
ity evam abravīd bhrātrā śatrughno 'pi pracoditaḥ ||
आगम्य प्राञ्जलिः काले गुहो भरतम् अब्रवीत् ॥ (४।२)
āgamya prāñjaliḥ kāle guho bharatam abravīt ||
कच्चित् सुखं नदीतीरे ऽवात्सीः काकुत्स्थ शर्वरीम् । (५।१)
kaccit sukhaṃ nadītīre 'vātsīḥ kākutstha śarvarīm |
कच्चिच् च सह सैन्यस्य तव सर्वम् अनामयम् ॥ (५।२)
kaccic ca saha sainyasya tava sarvam anāmayam ||
गुहस्य तत् तु वचनं श्रुत्वा स्नेहाद् उदीरितम् । (६।१)
guhasya tat tu vacanaṃ śrutvā snehād udīritam |
रामस्यानुवशो वाक्यं भरतो ऽपीदम् अब्रवीत् ॥ (६।२)
rāmasyānuvaśo vākyaṃ bharato 'pīdam abravīt ||
सुखा नः शर्वरी राजन् पूजिताश् चापि ते वयम् । (७।१)
sukhā naḥ śarvarī rājan pūjitāś cāpi te vayam |
गङ्गां तु नौभिर् बह्वीभिर् दाशाः संतारयन्तु नः ॥ (७।२)
gaṅgāṃ tu naubhir bahvībhir dāśāḥ saṃtārayantu naḥ ||
प्रतिप्रविश्य नगरं तं ज्ञातिजनम् अब्रवीत् ॥ (८।२)
pratipraviśya nagaraṃ taṃ jñātijanam abravīt ||
उत्तिष्ठत प्रबुध्यध्वं भद्रम् अस्तु हि वः सदा । (९।१)
uttiṣṭhata prabudhyadhvaṃ bhadram astu hi vaḥ sadā |
ते तथोक्ताः समुत्थाय त्वरिता राजशासनात् । (१०।१)
te tathoktāḥ samutthāya tvaritā rājaśāsanāt |
पञ्च नावां शतान्य् एव समानिन्युः समन्ततः ॥ (१०।२)
pañca nāvāṃ śatāny eva samāninyuḥ samantataḥ ||
अन्याः स्वस्तिकविज्ञेया महाघण्टाधरा वराः । (११।१)
anyāḥ svastikavijñeyā mahāghaṇṭādharā varāḥ |
शोभमानाः पताकिन्यो युक्तवाताः सुसंहताः ॥ (११।२)
śobhamānāḥ patākinyo yuktavātāḥ susaṃhatāḥ ||
ततः स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् । (१२।१)
tataḥ svastikavijñeyāṃ pāṇḍukambalasaṃvṛtām |
सनन्दिघोषां कल्याणीं गुहो नावम् उपाहरत् ॥ (१२।२)
sanandighoṣāṃ kalyāṇīṃ guho nāvam upāharat ||
कौसल्या च सुमित्रा च याश् चान्या राजयोषितः ॥ (१३।२)
kausalyā ca sumitrā ca yāś cānyā rājayoṣitaḥ ||
पुरोहितश् च तत् पूर्वं गुरवो ब्राह्मणाश् च ये । (१४।१)
purohitaś ca tat pūrvaṃ guravo brāhmaṇāś ca ye |
भाण्डानि चाददानानां घोषस् त्रिदिवम् अस्पृशत् ॥ (१५।२)
bhāṇḍāni cādadānānāṃ ghoṣas tridivam aspṛśat ||
पताकिन्यस् तु ता नावः स्वयं दाशैर् अधिष्ठिताः । (१६।१)
patākinyas tu tā nāvaḥ svayaṃ dāśair adhiṣṭhitāḥ |
वहन्त्यो जनम् आरूढं तदा संपेतुर् आशुगाः ॥ (१६।२)
vahantyo janam ārūḍhaṃ tadā saṃpetur āśugāḥ ||
नारीणाम् अभिपूर्णास् तु काश्चित् काश्चित् तु वाजिनाम् । (१७।१)
nārīṇām abhipūrṇās tu kāścit kāścit tu vājinām |
काश्चित् तत्र वहन्ति स्म यानयुग्यं महाधनम् ॥ (१७।२)
kāścit tatra vahanti sma yānayugyaṃ mahādhanam ||
ताः स्म गत्वा परं तीरम् अवरोप्य च तं जनम् । (१८।१)
tāḥ sma gatvā paraṃ tīram avaropya ca taṃ janam |
निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः ॥ (१८।२)
nivṛttāḥ kāṇḍacitrāṇi kriyante dāśabandhubhiḥ ||
सवैजयन्तास् तु गजा गजारोहैः प्रचोदिताः । (१९।१)
savaijayantās tu gajā gajārohaiḥ pracoditāḥ |
तरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः ॥ (१९।२)
tarantaḥ sma prakāśante sadhvajā iva parvatāḥ ||
नावश् चारुरुहुस् त्व् अन्ये प्लवैस् तेरुस् तथापरे । (२०।१)
nāvaś cāruruhus tv anye plavais terus tathāpare |
अन्ये कुम्भघटैस् तेरुर् अन्ये तेरुश् च बाहुभिः ॥ (२०।२)
anye kumbhaghaṭais terur anye teruś ca bāhubhiḥ ||
सा पुण्या ध्वजिनी गङ्गां दाशैः संतारिता स्वयम् । (२१।१)
sā puṇyā dhvajinī gaṅgāṃ dāśaiḥ saṃtāritā svayam |
मैत्रे मुहूर्ते प्रययौ प्रयागवनम् उत्तमम् ॥ (२१।२)
maitre muhūrte prayayau prayāgavanam uttamam ||
आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम् । (२२।१)
āśvāsayitvā ca camūṃ mahātmā niveśayitvā ca yathopajoṣam |
द्रष्टुं भरद्वाजम् ऋषिप्रवर्यम् ऋत्विग्वृतः सन् भरतः प्रतस्थे ॥ (२२।२)
draṣṭuṃ bharadvājam ṛṣipravaryam ṛtvigvṛtaḥ san bharataḥ pratasthe ||
Data courtesy of The Digital Corpus of Sanskrit.