Rām, 7, 82
Select a line for its word-by-word analysis.
एतद् आख्याय काकुत्स्थो भ्रातृभ्याम् अमितप्रभः । (१।१)
etad ākhyāya kākutstho bhrātṛbhyām amitaprabhaḥ |
लक्ष्मणं पुनर् एवाह धर्मयुक्तम् इदं वचः ॥ (१।२)
lakṣmaṇaṃ punar evāha dharmayuktam idaṃ vacaḥ ||
द्विजांश्च सर्वप्रवरान् अश्वमेधपुरस्कृतान् ॥ (२।२)
dvijāṃśca sarvapravarān aśvamedhapuraskṛtān ||
एतान् सर्वान् समाहूय मन्त्रयित्वा च लक्ष्मण । (३।१)
etān sarvān samāhūya mantrayitvā ca lakṣmaṇa |
हयं लक्ष्मणसम्पन्नं विमोक्ष्यामि समाधिना ॥ (३।२)
hayaṃ lakṣmaṇasampannaṃ vimokṣyāmi samādhinā ||
तद् वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः । (४।१)
tad vākyaṃ rāghaveṇoktaṃ śrutvā tvaritavikramaḥ |
द्विजान् सर्वान् समाहूय दर्शयामास राघवम् ॥ (४।२)
dvijān sarvān samāhūya darśayāmāsa rāghavam ||
प्राञ्जलिस्तु ततो भूत्वा राघवो द्विजसत्तमान् । (६।१)
prāñjalistu tato bhūtvā rāghavo dvijasattamān |
स तेषां द्विजमुख्यानां वाक्यम् अद्भुतदर्शनम् । (७।१)
sa teṣāṃ dvijamukhyānāṃ vākyam adbhutadarśanam |
अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतो ऽभवत् तदा ॥ (७।२)
aśvamedhāśritaṃ śrutvā bhṛśaṃ prīto 'bhavat tadā ||
विज्ञाय तु मतं तेषां रामो लक्ष्मणम् अब्रवीत् । (८।१)
vijñāya tu mataṃ teṣāṃ rāmo lakṣmaṇam abravīt |
शीघ्रं महद्भिर् हरिभिर् बहुभिश्च तदाश्रयैः । (९।१)
śīghraṃ mahadbhir haribhir bahubhiśca tadāśrayaiḥ |
सार्धम् आगच्छ भद्रं ते अनुभोक्तुं मखोत्तमम् ॥ (९।२)
sārdham āgaccha bhadraṃ te anubhoktuṃ makhottamam ||
विभीषणश्च रक्षोभिः कामगैर् बहुभिर् वृतः । (१०।१)
vibhīṣaṇaśca rakṣobhiḥ kāmagair bahubhir vṛtaḥ |
अश्वमेधं महाबाहुः प्राप्नोतु लघुविक्रमः ॥ (१०।२)
aśvamedhaṃ mahābāhuḥ prāpnotu laghuvikramaḥ ||
राजानश्च नरव्याघ्र ये मे प्रियचिकीर्षवः । (११।१)
rājānaśca naravyāghra ye me priyacikīrṣavaḥ |
सानुगाः क्षिप्रम् आयान्तु यज्ञभूमिम् अनुत्तमाम् ॥ (११।२)
sānugāḥ kṣipram āyāntu yajñabhūmim anuttamām ||
निमन्त्रयस्व तान् सर्वान् अश्वमेधाय लक्ष्मण ॥ (१२।२)
nimantrayasva tān sarvān aśvamedhāya lakṣmaṇa ||
आज्ञाप्यतां महाबाहो तद्धि पुण्यम् अनुत्तमम् ॥ (१४।२)
ājñāpyatāṃ mahābāho taddhi puṇyam anuttamam ||
अग्रतो भरतः कृत्वा गच्छत्वग्रे महामतिः ॥ (१६।२)
agrato bharataḥ kṛtvā gacchatvagre mahāmatiḥ ||
नैगमान् बालवृद्धांश्च द्विजांश्च सुसमाहितान् ॥ (१७।२)
naigamān bālavṛddhāṃśca dvijāṃśca susamāhitān ||
कर्मान्तिकांश्च कुशलाञ्शिल्पिनश्च सुपण्डितान् । (१८।१)
karmāntikāṃśca kuśalāñśilpinaśca supaṇḍitān |
मातरश्चैव मे सर्वाः कुमारान्तःपुराणि च ॥ (१८।२)
mātaraścaiva me sarvāḥ kumārāntaḥpurāṇi ca ||
काञ्चनीं मम पत्नीं च दीक्षार्हां यज्ञकर्मणि । (१९।१)
kāñcanīṃ mama patnīṃ ca dīkṣārhāṃ yajñakarmaṇi |
अग्रतो भरतः कृत्वा गच्छत्वग्रे महामतिः ॥ (१९।२)
agrato bharataḥ kṛtvā gacchatvagre mahāmatiḥ ||
Data courtesy of The Digital Corpus of Sanskrit.