Rām, 2, 64
Select a line for its word-by-word analysis.
भरते ब्रुवति स्वप्नं दूतास् ते क्लान्तवाहनाः । (१।१)
bharate bruvati svapnaṃ dūtās te klāntavāhanāḥ |
राज्ञः पादौ गृहीत्वा तु तम् ऊचुर् भरतं वचः ॥ (२।२)
rājñaḥ pādau gṛhītvā tu tam ūcur bharataṃ vacaḥ ||
पुरोहितस् त्वा कुशलं प्राह सर्वे च मन्त्रिणः । (३।१)
purohitas tvā kuśalaṃ prāha sarve ca mantriṇaḥ |
त्वरमाणश् च निर्याहि कृत्यम् आत्ययिकं त्वया ॥ (३।२)
tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā ||
दशकोट्यस् तु सम्पूर्णास् तथैव च नृपात्मज ॥ (४।२)
daśakoṭyas tu sampūrṇās tathaiva ca nṛpātmaja ||
प्रतिगृह्य च तत् सर्वं स्वनुरक्तः सुहृज्जने । (५।१)
pratigṛhya ca tat sarvaṃ svanuraktaḥ suhṛjjane |
दूतान् उवाच भरतः कामैः सम्प्रतिपूज्य तान् ॥ (५।२)
dūtān uvāca bharataḥ kāmaiḥ sampratipūjya tān ||
कच्चिच् चारोगता रामे लक्ष्मणे वा महात्मनि ॥ (६।२)
kaccic cārogatā rāme lakṣmaṇe vā mahātmani ||
कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या । (८।१)
kaccit sumitrā dharmajñā jananī lakṣmaṇasya yā |
शत्रुघ्नस्य च वीरस्य सारोगा चापि मध्यमा ॥ (८।२)
śatrughnasya ca vīrasya sārogā cāpi madhyamā ||
ऊचुः सम्प्रश्रितं वाक्यम् इदं तं भरतं तदा । (१०।२)
ūcuḥ sampraśritaṃ vākyam idaṃ taṃ bharataṃ tadā |
कुशलास् ते नरव्याघ्र येषां कुशलम् इच्छसि ॥ (१०।३)
kuśalās te naravyāghra yeṣāṃ kuśalam icchasi ||
भरतश् चापि तान् दूतान् एवम् उक्तो ऽभ्यभाषत । (११।१)
bharataś cāpi tān dūtān evam ukto 'bhyabhāṣata |
आपृच्छे ऽहं महाराजं दूताः संत्वरयन्ति माम् ॥ (११।२)
āpṛcche 'haṃ mahārājaṃ dūtāḥ saṃtvarayanti mām ||
एवम् उक्त्वा तु तान् दूतान् भरतः पार्थिवात्मजः । (१२।१)
evam uktvā tu tān dūtān bharataḥ pārthivātmajaḥ |
पुनर् अप्य् अहम् एष्यामि यदा मे त्वं स्मरिष्यसि ॥ (१३।२)
punar apy aham eṣyāmi yadā me tvaṃ smariṣyasi ||
तम् उवाच शुभं वाक्यं शिरस्य् आघ्राय राघवम् ॥ (१४।२)
tam uvāca śubhaṃ vākyaṃ śirasy āghrāya rāghavam ||
गच्छ तातानुजाने त्वां कैकेयी सुप्रजास् त्वया । (१५।१)
gaccha tātānujāne tvāṃ kaikeyī suprajās tvayā |
पुरोहितं च कुशलं ये चान्ये द्विजसत्तमाः । (१६।१)
purohitaṃ ca kuśalaṃ ye cānye dvijasattamāḥ |
तौ च तात महेष्वासौ भ्रातरौ रामलक्ष्मणौ ॥ (१६।२)
tau ca tāta maheṣvāsau bhrātarau rāmalakṣmaṇau ||
तस्मै हस्त्युत्तमांश् चित्रान् कम्बलान् अजिनानि च । (१७।१)
tasmai hastyuttamāṃś citrān kambalān ajināni ca |
सत्कृत्य कैकेयीपुत्रं केकयो धनम् आदिशत् ॥ (१८।२)
satkṛtya kaikeyīputraṃ kekayo dhanam ādiśat ||
तथामात्यान् अभिप्रेतान् विश्वास्यांश् च गुणान्वितान् । (१९।१)
tathāmātyān abhipretān viśvāsyāṃś ca guṇānvitān |
ऐरावतान् ऐन्द्रशिरान् नागान् वै प्रियदर्शनान् । (२०।१)
airāvatān aindraśirān nāgān vai priyadarśanān |
खराञ् शीघ्रान् सुसंयुक्तान् मातुलो ऽस्मै धनं ददौ ॥ (२०।२)
kharāñ śīghrān susaṃyuktān mātulo 'smai dhanaṃ dadau ||
अन्तःपुरे ऽतिसंवृद्धान् व्याघ्रवीर्यबलान्वितान् । (२१।१)
antaḥpure 'tisaṃvṛddhān vyāghravīryabalānvitān |
दंष्ट्रायुधान् महाकायाञ् शुनश् चोपायनं ददौ ॥ (२१।२)
daṃṣṭrāyudhān mahākāyāñ śunaś copāyanaṃ dadau ||
स मातामहम् आपृच्छ्य मातुलं च युधाजितम् । (२२।१)
sa mātāmaham āpṛcchya mātulaṃ ca yudhājitam |
रथान् मण्डलचक्रांश् च योजयित्वा परःशतम् । (२३।१)
rathān maṇḍalacakrāṃś ca yojayitvā paraḥśatam |
उष्ट्रगोऽश्वखरैर् भृत्या भरतं यान्तम् अन्वयुः ॥ (२३।२)
uṣṭrago'śvakharair bhṛtyā bharataṃ yāntam anvayuḥ ||
बलेन गुप्तो भरतो महात्मा सहार्यकस्यात्मसमैर् अमात्यैः । (२४।१)
balena gupto bharato mahātmā sahāryakasyātmasamair amātyaiḥ |
आदाय शत्रुघ्नम् अपेतशत्रुर् गृहाद् ययौ सिद्ध इवेन्द्रलोकात् ॥ (२४।२)
ādāya śatrughnam apetaśatrur gṛhād yayau siddha ivendralokāt ||
Data courtesy of The Digital Corpus of Sanskrit.