Rām, 1, 29
Select a line for its word-by-word analysis.
देशे काले च वाक्यज्ञाव् अब्रूतां कौशिकं वचः ॥ (१।२)
deśe kāle ca vākyajñāv abrūtāṃ kauśikaṃ vacaḥ ||
भगवञ् श्रोतुम् इच्छावो यस्मिन् काले निशाचरौ । (२।१)
bhagavañ śrotum icchāvo yasmin kāle niśācarau |
संरक्षणीयौ तौ ब्रह्मन् नातिवर्तेत तत्क्षणम् ॥ (२।२)
saṃrakṣaṇīyau tau brahman nātivarteta tatkṣaṇam ||
एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया । (३।१)
evaṃ bruvāṇau kākutsthau tvaramāṇau yuyutsayā |
सर्वे ते मुनयः प्रीताः प्रशशंसुर् नृपात्मजौ ॥ (३।२)
sarve te munayaḥ prītāḥ praśaśaṃsur nṛpātmajau ||
अद्य प्रभृति षड्रात्रं रक्षतं राघवौ युवाम् । (४।१)
adya prabhṛti ṣaḍrātraṃ rakṣataṃ rāghavau yuvām |
दीक्षां गतो ह्य् एष मुनिर् मौनित्वं च गमिष्यति ॥ (४।२)
dīkṣāṃ gato hy eṣa munir maunitvaṃ ca gamiṣyati ||
तौ तु तद् वचनं श्रुत्वा राजपुत्रौ यशस्विनौ । (५।१)
tau tu tad vacanaṃ śrutvā rājaputrau yaśasvinau |
सौमित्रम् अब्रवीद् रामो यत्तो भव समाहितः ॥ (७।२)
saumitram abravīd rāmo yatto bhava samāhitaḥ ||
मन्त्रवच् च यथान्यायं यज्ञो ऽसौ सम्प्रवर्तते । (९।१)
mantravac ca yathānyāyaṃ yajño 'sau sampravartate |
तथा मायां विकुर्वाणौ राक्षसाव् अभ्यधावताम् ॥ (१०।२)
tathā māyāṃ vikurvāṇau rākṣasāv abhyadhāvatām ||
मारीचश् च सुबाहुश् च तयोर् अनुचरास् तथा । (११।१)
mārīcaś ca subāhuś ca tayor anucarās tathā |
लक्ष्मणं त्व् अभिसम्प्रेक्ष्य रामो वचनम् अब्रवीत् ॥ (१२।२)
lakṣmaṇaṃ tv abhisamprekṣya rāmo vacanam abravīt ||
पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान् । (१३।१)
paśya lakṣmaṇa durvṛttān rākṣasān piśitāśanān |
सम्पूर्णं योजनशतं क्षिप्तः सागरसम्प्लवे ॥ (१५।२)
sampūrṇaṃ yojanaśataṃ kṣiptaḥ sāgarasamplave ||
निरस्तं दृश्य मारीचं रामो लक्ष्मणम् अब्रवीत् ॥ (१६।२)
nirastaṃ dṛśya mārīcaṃ rāmo lakṣmaṇam abravīt ||
पश्य लक्ष्मण शीतेषुं मानवं धर्मसंहितम् । (१७।१)
paśya lakṣmaṇa śīteṣuṃ mānavaṃ dharmasaṃhitam |
मोहयित्वा नयत्य् एनं न च प्राणैर् वियुज्यते ॥ (१७।२)
mohayitvā nayaty enaṃ na ca prāṇair viyujyate ||
इमान् अपि वधिष्यामि निर्घृणान् दुष्टचारिणः । (१८।१)
imān api vadhiṣyāmi nirghṛṇān duṣṭacāriṇaḥ |
राक्षसान् पापकर्मस्थान् यज्ञघ्नान् रुधिराशनान् ॥ (१८।२)
rākṣasān pāpakarmasthān yajñaghnān rudhirāśanān ||
विगृह्य सुमहच् चास्त्रम् आग्नेयं रघुनन्दनः । (१९।१)
vigṛhya sumahac cāstram āgneyaṃ raghunandanaḥ |
सुबाहूरसि चिक्षेप स विद्धः प्रापतद् भुवि ॥ (१९।२)
subāhūrasi cikṣepa sa viddhaḥ prāpatad bhuvi ||
स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः । (२१।१)
sa hatvā rākṣasān sarvān yajñaghnān raghunandanaḥ |
ऋषिभिः पूजितस् तत्र यथेन्द्रो विजये पुरा ॥ (२१।२)
ṛṣibhiḥ pūjitas tatra yathendro vijaye purā ||
अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः । (२२।१)
atha yajñe samāpte tu viśvāmitro mahāmuniḥ |
निरीतिका दिशो दृष्ट्वा काकुत्स्थम् इदम् अब्रवीत् ॥ (२२।२)
nirītikā diśo dṛṣṭvā kākutstham idam abravīt ||
कृतार्थो ऽस्मि महाबाहो कृतं गुरुवचस् त्वया । (२३।१)
kṛtārtho 'smi mahābāho kṛtaṃ guruvacas tvayā |
सिद्धाश्रमम् इदं सत्यं कृतं राम महायशः ॥ (२३।२)
siddhāśramam idaṃ satyaṃ kṛtaṃ rāma mahāyaśaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.