Rām, 2, 65
Select a line for its word-by-word analysis.
स प्राङ्मुखो राजगृहाद् अभिनिर्याय वीर्यवान् । (१।१)
sa prāṅmukho rājagṛhād abhiniryāya vīryavān |
ह्रादिनीं दूरपारां च प्रत्यक्स्रोतस्तरंगिणीम् । (१।२)
hrādinīṃ dūrapārāṃ ca pratyaksrotastaraṃgiṇīm |
शतद्रूम् अतरच् छ्रीमान् नदीम् इक्ष्वाकुनन्दनः ॥ (१।३)
śatadrūm atarac chrīmān nadīm ikṣvākunandanaḥ ||
एलाधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान् । (२।१)
elādhāne nadīṃ tīrtvā prāpya cāparaparpaṭān |
शिलाम् आकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्तनम् ॥ (२।२)
śilām ākurvatīṃ tīrtvā āgneyaṃ śalyakartanam ||
सत्यसंधः शुचिः श्रीमान् प्रेक्षमाणः शिलावहाम् । (३।१)
satyasaṃdhaḥ śuciḥ śrīmān prekṣamāṇaḥ śilāvahām |
अत्ययात् स महाशैलान् वनं चैत्ररथं प्रति ॥ (३।२)
atyayāt sa mahāśailān vanaṃ caitrarathaṃ prati ||
वेगिनीं च कुलिङ्गाख्यां ह्रादिनीं पर्वतावृताम् । (४।१)
veginīṃ ca kuliṅgākhyāṃ hrādinīṃ parvatāvṛtām |
यमुनां प्राप्य संतीर्णो बलम् आश्वासयत् तदा ॥ (४।२)
yamunāṃ prāpya saṃtīrṇo balam āśvāsayat tadā ||
शीतीकृत्य तु गात्राणि क्लान्तान् आश्वास्य वाजिनः । (५।१)
śītīkṛtya tu gātrāṇi klāntān āśvāsya vājinaḥ |
तत्र स्नात्वा च पीत्वा च प्रायाद् आदाय चोदकम् ॥ (५।२)
tatra snātvā ca pītvā ca prāyād ādāya codakam ||
भद्रो भद्रेण यानेन मारुतः खम् इवात्ययात् ॥ (६।२)
bhadro bhadreṇa yānena mārutaḥ kham ivātyayāt ||
तोरणं दक्षिणार्धेन जम्बूप्रस्थम् उपागमत् । (७।१)
toraṇaṃ dakṣiṇārdhena jambūprastham upāgamat |
तत्र रम्ये वने वासं कृत्वासौ प्राङ्मुखो ययौ । (८।१)
tatra ramye vane vāsaṃ kṛtvāsau prāṅmukho yayau |
सालांस् तु प्रियकान् प्राप्य शीघ्रान् आस्थाय वाजिनः । (९।१)
sālāṃs tu priyakān prāpya śīghrān āsthāya vājinaḥ |
वासं कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानिकां नदीम् । (१०।१)
vāsaṃ kṛtvā sarvatīrthe tīrtvā cottānikāṃ nadīm |
अन्या नदीश् च विविधाः पार्वतीयैस् तुरंगमैः ॥ (१०।२)
anyā nadīś ca vividhāḥ pārvatīyais turaṃgamaiḥ ||
भरतः क्षिप्रम् आगच्छत् सुपरिश्रान्तवाहनः ॥ (१२।२)
bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ ||
अयोध्यां मनुना राज्ञा निर्मितां स ददर्श ह ॥ (१३।२)
ayodhyāṃ manunā rājñā nirmitāṃ sa dadarśa ha ||
तां पुरीं पुरुषव्याघ्रः सप्तरात्रोषितः पथि । (१४।१)
tāṃ purīṃ puruṣavyāghraḥ saptarātroṣitaḥ pathi |
अयोध्याम् अग्रतो दृष्ट्वा रथे सारथिम् अब्रवीत् ॥ (१४।२)
ayodhyām agrato dṛṣṭvā rathe sārathim abravīt ||
अयोध्या दृश्यते दूरात् सारथे पाण्डुमृत्तिका ॥ (१५।२)
ayodhyā dṛśyate dūrāt sārathe pāṇḍumṛttikā ||
यज्वभिर् गुणसम्पन्नैर् ब्राह्मणैर् वेदपारगैः । (१६।१)
yajvabhir guṇasampannair brāhmaṇair vedapāragaiḥ |
भूयिष्ठम् ऋद्धैर् आकीर्णा राजर्षिवरपालिता ॥ (१६।२)
bhūyiṣṭham ṛddhair ākīrṇā rājarṣivarapālitā ||
अयोध्यायां पुरा शब्दः श्रूयते तुमुलो महान् । (१७।१)
ayodhyāyāṃ purā śabdaḥ śrūyate tumulo mahān |
समन्तान् नरनारीणां तम् अद्य न शृणोम्य् अहम् ॥ (१७।२)
samantān naranārīṇāṃ tam adya na śṛṇomy aham ||
उद्यानानि हि सायाह्ने क्रीडित्वोपरतैर् नरैः । (१८।१)
udyānāni hi sāyāhne krīḍitvoparatair naraiḥ |
समन्ताद् विप्रधावद्भिः प्रकाशन्ते ममान्यदा ॥ (१८।२)
samantād vipradhāvadbhiḥ prakāśante mamānyadā ||
तान्य् अद्यानुरुदन्तीव परित्यक्तानि कामिभिः । (१९।१)
tāny adyānurudantīva parityaktāni kāmibhiḥ |
न ह्य् अत्र यानैर् दृश्यन्ते न गजैर् न च वाजिभिः । (२०।१)
na hy atra yānair dṛśyante na gajair na ca vājibhiḥ |
निर्यान्तो वाभियान्तो वा नरमुख्या यथापुरम् ॥ (२०।२)
niryānto vābhiyānto vā naramukhyā yathāpuram ||
निमित्तान्य् अमनोज्ञानि तेन सीदति मे मनः ॥ (२१।२)
nimittāny amanojñāni tena sīdati me manaḥ ||
द्वारेण वैजयन्तेन प्राविशच् छ्रान्तवाहनः । (२२।१)
dvāreṇa vaijayantena prāviśac chrāntavāhanaḥ |
द्वाःस्थैर् उत्थाय विजयं पृष्टस् तैः सहितो ययौ ॥ (२२।२)
dvāḥsthair utthāya vijayaṃ pṛṣṭas taiḥ sahito yayau ||
स त्व् अनेकाग्रहृदयो द्वाःस्थं प्रत्यर्च्य तं जनम् । (२३।१)
sa tv anekāgrahṛdayo dvāḥsthaṃ pratyarcya taṃ janam |
सूतम् अश्वपतेः क्लान्तम् अब्रवीत् तत्र राघवः ॥ (२३।२)
sūtam aśvapateḥ klāntam abravīt tatra rāghavaḥ ||
श्रुता नो यादृशाः पूर्वं नृपतीनां विनाशने । (२४।१)
śrutā no yādṛśāḥ pūrvaṃ nṛpatīnāṃ vināśane |
आकारास् तान् अहं सर्वान् इह पश्यामि सारथे ॥ (२४।२)
ākārās tān ahaṃ sarvān iha paśyāmi sārathe ||
मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम् । (२५।१)
malinaṃ cāśrupūrṇākṣaṃ dīnaṃ dhyānaparaṃ kṛśam |
सस्त्रीपुंसं च पश्यामि जनम् उत्कण्ठितं पुरे ॥ (२५।२)
sastrīpuṃsaṃ ca paśyāmi janam utkaṇṭhitaṃ pure ||
इत्य् एवम् उक्त्वा भरतः सूतं तं दीनमानसः । (२६।१)
ity evam uktvā bharataḥ sūtaṃ taṃ dīnamānasaḥ |
तान्य् अनिष्टान्य् अयोध्यायां प्रेक्ष्य राजगृहं ययौ । (२६।२)
tāny aniṣṭāny ayodhyāyāṃ prekṣya rājagṛhaṃ yayau |
तां शून्यशृङ्गाटकवेश्मरथ्यां रजोऽरुणद्वारकपाटयन्त्राम् । (२६।३)
tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ rajo'ruṇadvārakapāṭayantrām |
दृष्ट्वा पुरीम् इन्द्रपुरीप्रकाशां दुःखेन सम्पूर्णतरो बभूव ॥ (२६।४)
dṛṣṭvā purīm indrapurīprakāśāṃ duḥkhena sampūrṇataro babhūva ||
बहूनि पश्यन् मनसो ऽप्रियाणि यान्य् अन्यदा नास्य पुरे बभूवुः । (२७।१)
bahūni paśyan manaso 'priyāṇi yāny anyadā nāsya pure babhūvuḥ |
अवाक्शिरा दीनमना न हृष्टः पितुर् महात्मा प्रविवेश वेश्म ॥ (२७।२)
avākśirā dīnamanā na hṛṣṭaḥ pitur mahātmā praviveśa veśma ||
Data courtesy of The Digital Corpus of Sanskrit.