Rām, 5, 15
Select a line for its word-by-word analysis.
ततः कुमुदषण्डाभो निर्मलं निर्मलः स्वयम् । (१।१)
tataḥ kumudaṣaṇḍābho nirmalaṃ nirmalaḥ svayam |
साचिव्यम् इव कुर्वन् स प्रभया निर्मलप्रभः । (२।१)
sācivyam iva kurvan sa prabhayā nirmalaprabhaḥ |
चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम् ॥ (२।२)
candramā raśmibhiḥ śītaiḥ siṣeve pavanātmajam ||
शोकभारैर् इव न्यस्तां भारैर् नावम् इवाम्भसि ॥ (३।२)
śokabhārair iva nyastāṃ bhārair nāvam ivāmbhasi ||
अकर्णां शङ्कुकर्णां च मस्तकोच्छ्वासनासिकाम् ॥ (५।२)
akarṇāṃ śaṅkukarṇāṃ ca mastakocchvāsanāsikām ||
लम्बौष्ठीं चिबुकौष्ठीं च लम्बास्यां लम्बजानुकाम् ॥ (७।२)
lambauṣṭhīṃ cibukauṣṭhīṃ ca lambāsyāṃ lambajānukām ||
ह्रस्वां दीर्घां च कुब्जां च विकटां वामनां तथा । (८।१)
hrasvāṃ dīrghāṃ ca kubjāṃ ca vikaṭāṃ vāmanāṃ tathā |
करालां भुग्नवस्त्रां च पिङ्गाक्षीं विकृताननाम् ॥ (८।२)
karālāṃ bhugnavastrāṃ ca piṅgākṣīṃ vikṛtānanām ||
विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः । (९।१)
vikṛtāḥ piṅgalāḥ kālīḥ krodhanāḥ kalahapriyāḥ |
अतिमात्रास्यनेत्राश्च दीर्घजिह्वानखास्तथा । (१४।१)
atimātrāsyanetrāśca dīrghajihvānakhāstathā |
हयोष्ट्रखरवक्त्राश्च राक्षसीर् घोरदर्शनाः । (१५।१)
hayoṣṭrakharavaktrāśca rākṣasīr ghoradarśanāḥ |
पिबन्तीः सततं पानं सदा मांससुराप्रियाः ॥ (१६।२)
pibantīḥ satataṃ pānaṃ sadā māṃsasurāpriyāḥ ||
स्कन्धवन्तम् उपासीनाः परिवार्य वनस्पतिम् । (१८।१)
skandhavantam upāsīnāḥ parivārya vanaspatim |
तस्याधस्ताच्च तां देवीं राजपुत्रीम् अनिन्दिताम् ॥ (१८।२)
tasyādhastācca tāṃ devīṃ rājaputrīm aninditām ||
लक्षयामास लक्ष्मीवान् हनूमाञ् जनकात्मजाम् । (१९।१)
lakṣayāmāsa lakṣmīvān hanūmāñ janakātmajām |
निष्प्रभां शोकसंतप्तां मलसंकुलमूर्धजाम् ॥ (१९।२)
niṣprabhāṃ śokasaṃtaptāṃ malasaṃkulamūrdhajām ||
क्षीणपुण्यां च्युतां भूमौ तारां निपतिताम् इव । (२०।१)
kṣīṇapuṇyāṃ cyutāṃ bhūmau tārāṃ nipatitām iva |
चारित्र्यव्यपदेशाढ्यां भर्तृदर्शनदुर्गताम् ॥ (२०।२)
cāritryavyapadeśāḍhyāṃ bhartṛdarśanadurgatām ||
भूषणैर् उत्तमैर् हीनां भर्तृवात्सल्यभूषिताम् । (२१।१)
bhūṣaṇair uttamair hīnāṃ bhartṛvātsalyabhūṣitām |
राक्षसाधिपसंरुद्धां बन्धुभिश्च विनाकृताम् ॥ (२१।२)
rākṣasādhipasaṃruddhāṃ bandhubhiśca vinākṛtām ||
वियूथां सिंहसंरुद्धां बद्धां गजवधूम् इव । (२२।१)
viyūthāṃ siṃhasaṃruddhāṃ baddhāṃ gajavadhūm iva |
चन्द्रलेखां पयोदान्ते शारदाभ्रैर् इवावृताम् ॥ (२२।२)
candralekhāṃ payodānte śāradābhrair ivāvṛtām ||
क्लिष्टरूपाम् असंस्पर्शाद् अयुक्ताम् इव वल्लकीम् । (२३।१)
kliṣṭarūpām asaṃsparśād ayuktām iva vallakīm |
सीतां भर्तृहिते युक्ताम् अयुक्तां रक्षसां वशे ॥ (२३।२)
sītāṃ bhartṛhite yuktām ayuktāṃ rakṣasāṃ vaśe ||
ताभिः परिवृतां तत्र सग्रहाम् इव रोहिणीम् ॥ (२४।२)
tābhiḥ parivṛtāṃ tatra sagrahām iva rohiṇīm ||
सा मलेन च दिग्धाङ्गी वपुषा चाप्यलंकृता ॥ (२५।२)
sā malena ca digdhāṅgī vapuṣā cāpyalaṃkṛtā ||
मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् ॥ (२६।२)
malinena tu vastreṇa parikliṣṭena bhāminīm ||
संवृतां मृगशावाक्षीं ददर्श हनुमान् कपिः । (२७।१)
saṃvṛtāṃ mṛgaśāvākṣīṃ dadarśa hanumān kapiḥ |
तां दृष्ट्वा हनुमान् सीतां मृगशावनिभेक्षणाम् ॥ (२८।२)
tāṃ dṛṣṭvā hanumān sītāṃ mṛgaśāvanibhekṣaṇām ||
मृगकन्याम् इव त्रस्तां वीक्षमाणां समन्ततः । (२९।१)
mṛgakanyām iva trastāṃ vīkṣamāṇāṃ samantataḥ |
दहन्तीम् इव निःश्वासैर् वृक्षान् पल्लवधारिणः ॥ (२९।२)
dahantīm iva niḥśvāsair vṛkṣān pallavadhāriṇaḥ ||
संघातम् इव शोकानां दुःखस्योर्मिम् इवोत्थिताम् । (३०।१)
saṃghātam iva śokānāṃ duḥkhasyormim ivotthitām |
तां क्षामां सुविभक्ताङ्गीं विनाभरणशोभिनीम् ॥ (३०।२)
tāṃ kṣāmāṃ suvibhaktāṅgīṃ vinābharaṇaśobhinīm ||
प्रहर्षम् अतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम् । (३१।१)
praharṣam atulaṃ lebhe mārutiḥ prekṣya maithilīm |
हर्षजानि च सो ऽश्रूणि तां दृष्ट्वा मदिरेक्षणाम् ॥ (३१।२)
harṣajāni ca so 'śrūṇi tāṃ dṛṣṭvā madirekṣaṇām ||
नमस्कृत्वा च रामाय लक्ष्मणाय च वीर्यवान् ॥ (३२।२)
namaskṛtvā ca rāmāya lakṣmaṇāya ca vīryavān ||
सीतादर्शनसंहृष्टो हनूमान् संवृतो ऽभवत् ॥ (३३।१)
sītādarśanasaṃhṛṣṭo hanūmān saṃvṛto 'bhavat ||
Data courtesy of The Digital Corpus of Sanskrit.