Rām, 3, 42
Select a line for its word-by-word analysis.
तं वञ्चयानो राजेन्द्रम् आपतन्तं निरीक्ष्य वै । (३।१)
taṃ vañcayāno rājendram āpatantaṃ nirīkṣya vai |
बभूवान्तर्हितस् त्रासात् पुनः संदर्शने ऽभवत् ॥ (३।२)
babhūvāntarhitas trāsāt punaḥ saṃdarśane 'bhavat ||
बद्धासिर् धनुर् आदाय प्रदुद्राव यतो मृगः । (४।१)
baddhāsir dhanur ādāya pradudrāva yato mṛgaḥ |
अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिर् महावने । (५।१)
avekṣyāvekṣya dhāvantaṃ dhanuṣpāṇir mahāvane |
शङ्कितं तु समुद्भ्रान्तम् उत्पतन्तम् इवाम्बरे । (६।१)
śaṅkitaṃ tu samudbhrāntam utpatantam ivāmbare |
छिन्नाभ्रैर् इव संवीतं शारदं चन्द्रमण्डलम् । (७।१)
chinnābhrair iva saṃvītaṃ śāradaṃ candramaṇḍalam |
मुहूर्ताद् एव ददृशे मुहुर् दूरात् प्रकाशते ॥ (७।२)
muhūrtād eva dadṛśe muhur dūrāt prakāśate ||
आसीत् क्रुद्धस् तु काकुत्स्थो विवशस् तेन मोहितः ॥ (८।२)
āsīt kruddhas tu kākutstho vivaśas tena mohitaḥ ||
अथावतस्थे सुश्रान्तश् छायाम् आश्रित्य शाद्वले । (९।१)
athāvatasthe suśrāntaś chāyām āśritya śādvale |
मृगैः परिवृतो वन्यैर् अदूरात् प्रत्यदृश्यत ॥ (९।२)
mṛgaiḥ parivṛto vanyair adūrāt pratyadṛśyata ||
दृष्ट्वा रामो महातेजास् तं हन्तुं कृतनिश्चयः । (१०।१)
dṛṣṭvā rāmo mahātejās taṃ hantuṃ kṛtaniścayaḥ |
तम् एव मृगम् उद्दिश्य ज्वलन्तम् इव पन्नगम् । (११।१)
tam eva mṛgam uddiśya jvalantam iva pannagam |
मुमोच ज्वलितं दीप्तम् अस्त्रब्रह्मविनिर्मितम् ॥ (११।२)
mumoca jvalitaṃ dīptam astrabrahmavinirmitam ||
स भृशं मृगरूपस्य विनिर्भिद्य शरोत्तमः । (१२।१)
sa bhṛśaṃ mṛgarūpasya vinirbhidya śarottamaḥ |
तालमात्रम् अथोत्पत्य न्यपतत् स शरातुरः । (१३।१)
tālamātram athotpatya nyapatat sa śarāturaḥ |
व्यनदद् भैरवं नादं धरण्याम् अल्पजीवितः । (१३।२)
vyanadad bhairavaṃ nādaṃ dharaṇyām alpajīvitaḥ |
म्रियमाणस् तु मारीचो जहौ तां कृत्रिमां तनुम् ॥ (१३।३)
mriyamāṇas tu mārīco jahau tāṃ kṛtrimāṃ tanum ||
सम्प्राप्तकालम् आज्ञाय चकार च ततः स्वरम् । (१४।१)
samprāptakālam ājñāya cakāra ca tataḥ svaram |
मृगरूपं तु तत् त्यक्त्वा राक्षसं रूपम् आत्मनः । (१५।२)
mṛgarūpaṃ tu tat tyaktvā rākṣasaṃ rūpam ātmanaḥ |
हेममाली महादंष्ट्रो राक्षसो ऽभूच् छराहतः ॥ (१६।२)
hemamālī mahādaṃṣṭro rākṣaso 'bhūc charāhataḥ ||
तं दृष्ट्वा पतितं भूमौ राक्षसं घोरदर्शनम् । (१७।१)
taṃ dṛṣṭvā patitaṃ bhūmau rākṣasaṃ ghoradarśanam |
जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन् ॥ (१७।२)
jagāma manasā sītāṃ lakṣmaṇasya vacaḥ smaran ||
हा सीते लक्ष्मणेत्य् एवम् आक्रुश्य तु महास्वरम् । (१८।१)
hā sīte lakṣmaṇety evam ākruśya tu mahāsvaram |
ममार राक्षसः सो ऽयं श्रुत्वा सीता कथं भवेत् ॥ (१८।२)
mamāra rākṣasaḥ so 'yaṃ śrutvā sītā kathaṃ bhavet ||
लक्ष्मणश् च महाबाहुः काम् अवस्थां गमिष्यति । (१९।१)
lakṣmaṇaś ca mahābāhuḥ kām avasthāṃ gamiṣyati |
इति संचिन्त्य धर्मात्मा रामो हृष्टतनूरुहः ॥ (१९।२)
iti saṃcintya dharmātmā rāmo hṛṣṭatanūruhaḥ ||
राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत्स्वरम् ॥ (२०।२)
rākṣasaṃ mṛgarūpaṃ taṃ hatvā śrutvā ca tatsvaram ||
निहत्य पृषतं चान्यं मांसम् आदाय राघवः । (२१।१)
nihatya pṛṣataṃ cānyaṃ māṃsam ādāya rāghavaḥ |
Data courtesy of The Digital Corpus of Sanskrit.