Rām, 4, 1
Select a line for its word-by-word analysis.
स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् । (१।१)
sa tāṃ puṣkariṇīṃ gatvā padmotpalajhaṣākulām |
तस्य दृष्ट्वैव तां हर्षाद् इन्द्रियाणि चकम्पिरे । (२।१)
tasya dṛṣṭvaiva tāṃ harṣād indriyāṇi cakampire |
स कामवशम् आपन्नः सौमित्रिम् इदम् अब्रवीत् ॥ (२।२)
sa kāmavaśam āpannaḥ saumitrim idam abravīt ||
सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम् । (३।१)
saumitre paśya pampāyāḥ kānanaṃ śubhadarśanam |
अधिकं प्रविभात्य् एतन् नीलपीतं तु शाद्वलम् । (५।१)
adhikaṃ pravibhāty etan nīlapītaṃ tu śādvalam |
द्रुमाणां विविधैः पुष्पैः परिस्तोमैर् इवार्पितम् ॥ (५।२)
drumāṇāṃ vividhaiḥ puṣpaiḥ paristomair ivārpitam ||
सुखानिलो ऽयं सौमित्रे कालः प्रचुरमन्मथः । (६।१)
sukhānilo 'yaṃ saumitre kālaḥ pracuramanmathaḥ |
गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर् मनोरमैः । (१०।१)
giriprastheṣu ramyeṣu puṣpavadbhir manoramaiḥ |
संसक्तशिखराः शैला विराजन्ति महाद्रुमैः ॥ (१०।२)
saṃsaktaśikharāḥ śailā virājanti mahādrumaiḥ ||
पुष्पिताग्रांश् च पश्येमान् कर्णिकारान् समन्ततः । (११।१)
puṣpitāgrāṃś ca paśyemān karṇikārān samantataḥ |
हाटकप्रतिसंछन्नान् नरान् पीताम्बरान् इव ॥ (११।२)
hāṭakapratisaṃchannān narān pītāmbarān iva ||
मां हि शोकसमाक्रान्तं संतापयति मन्मथः । (१३।१)
māṃ hi śokasamākrāntaṃ saṃtāpayati manmathaḥ |
एष दात्यूहको हृष्टो रम्ये मां वननिर्झरे । (१४।१)
eṣa dātyūhako hṛṣṭo ramye māṃ vananirjhare |
प्रणदन् मन्मथाविष्टं शोचयिष्यति लक्ष्मण ॥ (१४।२)
praṇadan manmathāviṣṭaṃ śocayiṣyati lakṣmaṇa ||
विमिश्रा विहगाः पुंभिर् आत्मव्यूहाभिनन्दिताः । (१५।१)
vimiśrā vihagāḥ puṃbhir ātmavyūhābhinanditāḥ |
भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः ॥ (१५।२)
bhṛṅgarājapramuditāḥ saumitre madhurasvarāḥ ||
मां हि सा मृगशावाक्षी चिन्ताशोकबलात्कृतम् । (१६।१)
māṃ hi sā mṛgaśāvākṣī cintāśokabalātkṛtam |
संतापयति सौमित्रे क्रूरश् चैत्रवनानिलः ॥ (१६।२)
saṃtāpayati saumitre krūraś caitravanānilaḥ ||
पश्य लक्ष्मण नृत्यन्तं मयूरम् उपनृत्यति । (१८।१)
paśya lakṣmaṇa nṛtyantaṃ mayūram upanṛtyati |
शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुषु ॥ (१८।२)
śikhinī manmathārtaiṣā bhartāraṃ girisānuṣu ||
मम त्व् अयं विना वासः पुष्पमासे सुदुःसहः ॥ (१९।२)
mama tv ayaṃ vinā vāsaḥ puṣpamāse suduḥsahaḥ ||
पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे । (२०।१)
paśya lakṣmaṇa puṣpāṇi niṣphalāni bhavanti me |
वदन्ति रावं मुदिताः शकुनाः संघशः कलम् । (२१।१)
vadanti rāvaṃ muditāḥ śakunāḥ saṃghaśaḥ kalam |
श्यामा पद्मपलाशाक्षी मृदुभाषा च मे प्रिया ॥ (२२।२)
śyāmā padmapalāśākṣī mṛdubhāṣā ca me priyā ||
तां विनाथ विहंगो ऽसौ पक्षी प्रणदितस् तदा । (२४।१)
tāṃ vinātha vihaṃgo 'sau pakṣī praṇaditas tadā |
पक्षी मां तु विशालाक्ष्याः समीपम् उपनेष्यति ॥ (२५।२)
pakṣī māṃ tu viśālākṣyāḥ samīpam upaneṣyati ||
पुष्पिताग्रेषु वृक्षेषु द्विजानाम् उपकूजताम् ॥ (२६।२)
puṣpitāgreṣu vṛkṣeṣu dvijānām upakūjatām ||
सौमित्रे पश्य पम्पायाश् चित्रासु वनराजिषु । (२७।१)
saumitre paśya pampāyāś citrāsu vanarājiṣu |
पद्मकोशपलाशानि द्रष्टुं दृष्टिर् हि मन्यते । (३०।१)
padmakośapalāśāni draṣṭuṃ dṛṣṭir hi manyate |
सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण ॥ (३०।२)
sītāyā netrakośābhyāṃ sadṛśānīti lakṣmaṇa ||
सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुनि । (३२।१)
saumitre paśya pampāyā dakṣiṇe girisānuni |
पुष्पितां कर्णिकारस्य यष्टिं परमशोभनाम् ॥ (३२।२)
puṣpitāṃ karṇikārasya yaṣṭiṃ paramaśobhanām ||
अधिकं शैलराजो ऽयं धातुभिस् तु विभूषितः । (३३।१)
adhikaṃ śailarājo 'yaṃ dhātubhis tu vibhūṣitaḥ |
गिरिप्रस्थास् तु सौमित्रे सर्वतः सम्प्रपुष्पितैः । (३४।१)
giriprasthās tu saumitre sarvataḥ samprapuṣpitaiḥ |
निष्पत्त्रैः सर्वतो रम्यैः प्रदीपा इव किंशुकैः ॥ (३४।२)
niṣpattraiḥ sarvato ramyaiḥ pradīpā iva kiṃśukaiḥ ||
पम्पातीररुहाश् चेमे संसक्ता मधुगन्धिनः । (३५।१)
pampātīraruhāś ceme saṃsaktā madhugandhinaḥ |
मालतीमल्लिकाषण्डाः करवीराश् च पुष्पिताः ॥ (३५।२)
mālatīmallikāṣaṇḍāḥ karavīrāś ca puṣpitāḥ ||
केतक्यः सिन्दुवाराश् च वासन्त्यश् च सुपुष्पिताः । (३६।१)
ketakyaḥ sinduvārāś ca vāsantyaś ca supuṣpitāḥ |
माधव्यो गन्धपूर्णाश् च कुन्दगुल्माश् च सर्वशः ॥ (३६।२)
mādhavyo gandhapūrṇāś ca kundagulmāś ca sarvaśaḥ ||
चिरिबिल्वा मधूकाश् च वञ्जुला बकुलास् तथा । (३७।१)
ciribilvā madhūkāś ca vañjulā bakulās tathā |
चम्पकास् तिलकाश् चैव नागवृक्षाश् च पुष्पिताः ॥ (३७।२)
campakās tilakāś caiva nāgavṛkṣāś ca puṣpitāḥ ||
नीपाश् च वरणाश् चैव खर्जूराश् च सुपुष्पिताः । (३८।१)
nīpāś ca varaṇāś caiva kharjūrāś ca supuṣpitāḥ |
अङ्कोलाश् च कुरण्टाश् च चूर्णकाः पारिभद्रकाः ॥ (३८।२)
aṅkolāś ca kuraṇṭāś ca cūrṇakāḥ pāribhadrakāḥ ||
चूताः पाटलयश् चैव कोविदाराश् च पुष्पिताः । (३९।१)
cūtāḥ pāṭalayaś caiva kovidārāś ca puṣpitāḥ |
मुचुकुन्दार्जुनाश् चैव दृश्यन्ते गिरिसानुषु ॥ (३९।२)
mucukundārjunāś caiva dṛśyante girisānuṣu ||
केतकोद्दालकाश् चैव शिरीषाः शिंशपा धवाः । (४०।१)
ketakoddālakāś caiva śirīṣāḥ śiṃśapā dhavāḥ |
शाल्मल्यः किंशुकाश् चैव रक्ताः कुरबकास् तथा । (४०।२)
śālmalyaḥ kiṃśukāś caiva raktāḥ kurabakās tathā |
तिनिशा नक्तमालाश् च चन्दनाः स्यन्दनास् तथा ॥ (४०।३)
tiniśā naktamālāś ca candanāḥ syandanās tathā ||
विविधा विविधैः पुष्पैस् तैर् एव नगसानुषु । (४१।१)
vividhā vividhaiḥ puṣpais tair eva nagasānuṣu |
विकीर्णैः पीतरक्ताभाः सौमित्रे प्रस्तराः कृताः ॥ (४१।२)
vikīrṇaiḥ pītaraktābhāḥ saumitre prastarāḥ kṛtāḥ ||
हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसम्भवम् । (४२।१)
himānte paśya saumitre vṛkṣāṇāṃ puṣpasambhavam |
पुष्पमासे हि तरवः संघर्षाद् इव पुष्पिताः ॥ (४२।२)
puṣpamāse hi taravaḥ saṃgharṣād iva puṣpitāḥ ||
पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम् । (४३।१)
paśya śītajalāṃ cemāṃ saumitre puṣkarāyutām |
प्लवैः क्रौञ्चैश् च सम्पूर्णां वराहमृगसेविताम् । (४४।१)
plavaiḥ krauñcaiś ca sampūrṇāṃ varāhamṛgasevitām |
अधिकं शोभते पम्पा विकूजद्भिर् विहंगमैः ॥ (४४।२)
adhikaṃ śobhate pampā vikūjadbhir vihaṃgamaiḥ ||
दीपयन्तीव मे कामं विविधा मुदिता द्विजाः । (४५।१)
dīpayantīva me kāmaṃ vividhā muditā dvijāḥ |
श्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम् ॥ (४५।२)
śyāmāṃ candramukhīṃ smṛtvā priyāṃ padmanibhekṣaṇām ||
पश्य सानुषु चित्रेषु मृगीभिः सहितान् मृगान् । (४६।१)
paśya sānuṣu citreṣu mṛgībhiḥ sahitān mṛgān |
मां पुनर् मृगशावाक्ष्या वैदेह्या विरहीकृतम् ॥ (४६।२)
māṃ punar mṛgaśāvākṣyā vaidehyā virahīkṛtam ||
अवेक्षत शिवां पम्पां रम्यवारिवहां शुभाम् ॥ (४७।२)
avekṣata śivāṃ pampāṃ ramyavārivahāṃ śubhām ||
निरीक्षमाणः सहसा महात्मा सर्वं वनं निर्झरकन्दरं च । (४८।१)
nirīkṣamāṇaḥ sahasā mahātmā sarvaṃ vanaṃ nirjharakandaraṃ ca |
उद्विग्नचेताः सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे ॥ (४८।२)
udvignacetāḥ saha lakṣmaṇena vicārya duḥkhopahataḥ pratasthe ||
ताव् ऋष्यमूकं सहितौ प्रयातौ सुग्रीवशाखामृगसेवितं तम् । (४९।१)
tāv ṛṣyamūkaṃ sahitau prayātau sugrīvaśākhāmṛgasevitaṃ tam |
त्रस्तास् तु दृष्ट्वा हरयो बभूवुर् महौजसौ राघवलक्ष्मणौ तौ ॥ (४९।२)
trastās tu dṛṣṭvā harayo babhūvur mahaujasau rāghavalakṣmaṇau tau ||
Data courtesy of The Digital Corpus of Sanskrit.