रामायणRāmāyaṇa

Rām, 4, 34

292 of 606 · 47 verses

Select a line for its word-by-word analysis.

1.1१.१

तथा ब्रुवाणं सौमित्रिं प्रदीप्तम् इव तेजसा । (१।१)

tathā bruvāṇaṃ saumitriṃ pradīptam iva tejasā |

1.2१.२

अब्रवील् लक्ष्मणं तारा ताराधिपनिभानना ॥ (१।२)

abravīl lakṣmaṇaṃ tārā tārādhipanibhānanā ||

2.1२.१

नैवं लक्ष्मण वक्तव्यो नायं परुषम् अर्हति । (२।१)

naivaṃ lakṣmaṇa vaktavyo nāyaṃ paruṣam arhati |

2.2२.२

हरीणाम् ईश्वरः श्रोतुं तव वक्त्राद् विशेषतः ॥ (२।२)

harīṇām īśvaraḥ śrotuṃ tava vaktrād viśeṣataḥ ||

3.1३.१

नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः । (३।१)

naivākṛtajñaḥ sugrīvo na śaṭho nāpi dāruṇaḥ |

3.2३.२

नैवानृतकथो वीर न जिह्मश् च कपीश्वरः ॥ (३।२)

naivānṛtakatho vīra na jihmaś ca kapīśvaraḥ ||

4.1४.१

उपकारं कृतं वीरो नाप्य् अयं विस्मृतः कपिः । (४।१)

upakāraṃ kṛtaṃ vīro nāpy ayaṃ vismṛtaḥ kapiḥ |

4.2४.२

रामेण वीर सुग्रीवो यद् अन्यैर् दुष्करं रणे ॥ (४।२)

rāmeṇa vīra sugrīvo yad anyair duṣkaraṃ raṇe ||

5.1५.१

रामप्रसादात् कीर्तिं च कपिराज्यं च शाश्वतम् । (५।१)

rāmaprasādāt kīrtiṃ ca kapirājyaṃ ca śāśvatam |

5.2५.२

प्राप्तवान् इह सुग्रीवो रुमां मां च परंतप ॥ (५।२)

prāptavān iha sugrīvo rumāṃ māṃ ca paraṃtapa ||

6.1६.१

सुदुःखं शायितः पूर्वं प्राप्येदं सुखम् उत्तमम् । (६।१)

suduḥkhaṃ śāyitaḥ pūrvaṃ prāpyedaṃ sukham uttamam |

6.2६.२

प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः ॥ (६।२)

prāptakālaṃ na jānīte viśvāmitro yathā muniḥ ||

7.1७.१

घृताच्यां किल संसक्तो दशवर्षाणि लक्ष्मण । (७।१)

ghṛtācyāṃ kila saṃsakto daśavarṣāṇi lakṣmaṇa |

7.2७.२

अहो ऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः ॥ (७।२)

aho 'manyata dharmātmā viśvāmitro mahāmuniḥ ||

8.1८.१

स हि प्राप्तं न जानीते कालं कालविदां वरः । (८।१)

sa hi prāptaṃ na jānīte kālaṃ kālavidāṃ varaḥ |

8.2८.२

विश्वामित्रो महातेजाः किं पुनर् यः पृथग्जनः ॥ (८।२)

viśvāmitro mahātejāḥ kiṃ punar yaḥ pṛthagjanaḥ ||

9.1९.१

देहधर्मं गतस्यास्य परिश्रान्तस्य लक्ष्मण । (९।१)

dehadharmaṃ gatasyāsya pariśrāntasya lakṣmaṇa |

9.2९.२

अवितृप्तस्य कामेषु रामः क्षन्तुम् इहार्हति ॥ (९।२)

avitṛptasya kāmeṣu rāmaḥ kṣantum ihārhati ||

10.1१०.१

न च रोषवशं तात गन्तुम् अर्हसि लक्ष्मण । (१०।१)

na ca roṣavaśaṃ tāta gantum arhasi lakṣmaṇa |

10.2१०.२

निश्चयार्थम् अविज्ञाय सहसा प्राकृतो यथा ॥ (१०।२)

niścayārtham avijñāya sahasā prākṛto yathā ||

11.1११.१

सत्त्वयुक्ता हि पुरुषास् त्वद्विधाः पुरुषर्षभ । (११।१)

sattvayuktā hi puruṣās tvadvidhāḥ puruṣarṣabha |

11.2११.२

अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् ॥ (११।२)

avimṛśya na roṣasya sahasā yānti vaśyatām ||

12.1१२.१

प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहिता । (१२।१)

prasādaye tvāṃ dharmajña sugrīvārthe samāhitā |

12.2१२.२

महान् रोषसमुत्पन्नः संरम्भस् त्यज्यताम् अयम् ॥ (१२।२)

mahān roṣasamutpannaḥ saṃrambhas tyajyatām ayam ||

13.1१३.१

रुमां मां कपिराज्यं च धनधान्यवसूनि च । (१३।१)

rumāṃ māṃ kapirājyaṃ ca dhanadhānyavasūni ca |

13.2१३.२

रामप्रियार्थं सुग्रीवस् त्यजेद् इति मतिर् मम ॥ (१३।२)

rāmapriyārthaṃ sugrīvas tyajed iti matir mama ||

14.1१४.१

समानेष्यति सुग्रीवः सीतया सह राघवम् । (१४।१)

samāneṣyati sugrīvaḥ sītayā saha rāghavam |

14.2१४.२

शशाङ्कम् इव रोहिण्या निहत्वा रावणं रणे ॥ (१४।२)

śaśāṅkam iva rohiṇyā nihatvā rāvaṇaṃ raṇe ||

15.1१५.१

शतकोटिसहस्राणि लङ्कायां किल रक्षसाम् । (१५।१)

śatakoṭisahasrāṇi laṅkāyāṃ kila rakṣasām |

15.2१५.२

अयुतानि च षट्त्रिंशत् सहस्राणि शतानि च ॥ (१५।२)

ayutāni ca ṣaṭtriṃśat sahasrāṇi śatāni ca ||

16.1१६.१

अहत्वा तांश् च दुर्धर्षान् राक्षसान् कामरूपिणः । (१६।१)

ahatvā tāṃś ca durdharṣān rākṣasān kāmarūpiṇaḥ |

16.2१६.२

न शक्यो रावणो हन्तुं येन सा मैथिली हृता ॥ (१६।२)

na śakyo rāvaṇo hantuṃ yena sā maithilī hṛtā ||

17.1१७.१

ते न शक्या रणे हन्तुम् असहायेन लक्ष्मण । (१७।१)

te na śakyā raṇe hantum asahāyena lakṣmaṇa |

17.2१७.२

रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः ॥ (१७।२)

rāvaṇaḥ krūrakarmā ca sugrīveṇa viśeṣataḥ ||

18.1१८.१

एवम् आख्यातवान् वाली स ह्य् अभिज्ञो हरीश्वरः । (१८।१)

evam ākhyātavān vālī sa hy abhijño harīśvaraḥ |

18.2१८.२

आगमस् तु न मे व्यक्तः श्रवात् तस्य ब्रवीम्य् अहम् ॥ (१८।२)

āgamas tu na me vyaktaḥ śravāt tasya bravīmy aham ||

19.1१९.१

त्वत्सहायनिमित्तं वै प्रेषिता हरिपुंगवाः । (१९।१)

tvatsahāyanimittaṃ vai preṣitā haripuṃgavāḥ |

19.2१९.२

आनेतुं वानरान् युद्धे सुबहून् हरियूथपान् ॥ (१९।२)

ānetuṃ vānarān yuddhe subahūn hariyūthapān ||

20.1२०.१

तांश् च प्रतीक्षमाणो ऽयं विक्रान्तान् सुमहाबलान् । (२०।१)

tāṃś ca pratīkṣamāṇo 'yaṃ vikrāntān sumahābalān |

20.2२०.२

राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः ॥ (२०।२)

rāghavasyārthasiddhyarthaṃ na niryāti harīśvaraḥ ||

21.1२१.१

कृता तु संस्था सौमित्रे सुग्रीवेण यथापुरा । (२१।१)

kṛtā tu saṃsthā saumitre sugrīveṇa yathāpurā |

21.2२१.२

अद्य तैर् वानरैः सर्वैर् आगन्तव्यं महाबलैः ॥ (२१।२)

adya tair vānaraiḥ sarvair āgantavyaṃ mahābalaiḥ ||

22.1२२.१

ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च । (२२।१)

ṛkṣakoṭisahasrāṇi golāṅgūlaśatāni ca |

22.2२२.२

अद्य त्वाम् उपयास्यन्ति जहि कोपम् अरिंदम । (२२।२)

adya tvām upayāsyanti jahi kopam ariṃdama |

22.3२२.३

कोट्यो ऽनेकास् तु काकुत्स्थ कपीनां दीप्ततेजसाम् ॥ (२२।३)

koṭyo 'nekās tu kākutstha kapīnāṃ dīptatejasām ||

23.1२३.१

तव हि मुखम् इदं निरीक्ष्य कोपात् क्षतजनिभे नयने निरीक्षमाणाः । (२३।१)

tava hi mukham idaṃ nirīkṣya kopāt kṣatajanibhe nayane nirīkṣamāṇāḥ |

23.2२३.२

हरिवरवनिता न यान्ति शान्तिं प्रथमभयस्य हि शङ्किताः स्म सर्वाः ॥ (२३।२)

harivaravanitā na yānti śāntiṃ prathamabhayasya hi śaṅkitāḥ sma sarvāḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

Rām, 4, 34

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit