Rām, 2, 4
Select a line for its word-by-word analysis.
गतेष्व् अथ नृपो भूयः पौरेषु सह मन्त्रिभिः । (१।१)
gateṣv atha nṛpo bhūyaḥ paureṣu saha mantribhiḥ |
मन्त्रयित्वा ततश् चक्रे निश्चयज्ञः स निश्चयम् ॥ (१।२)
mantrayitvā tataś cakre niścayajñaḥ sa niścayam ||
श्व एव पुष्यो भविता श्वो ऽभिषेच्येत तु मे सुतः । (२।१)
śva eva puṣyo bhavitā śvo 'bhiṣecyeta tu me sutaḥ |
प्रतिगृह्य स तद्वाक्यं सूतः पुनर् उपाययौ । (४।१)
pratigṛhya sa tadvākyaṃ sūtaḥ punar upāyayau |
द्वाःस्थैर् आवेदितं तस्य रामायागमनं पुनः । (५।१)
dvāḥsthair āveditaṃ tasya rāmāyāgamanaṃ punaḥ |
श्रुत्वैव चापि रामस् तं प्राप्तं शङ्कान्वितो ऽभवत् ॥ (५।२)
śrutvaiva cāpi rāmas taṃ prāptaṃ śaṅkānvito 'bhavat ||
प्रवेश्य चैनं त्वरितं रामो वचनम् अब्रवीत् । (६।१)
praveśya cainaṃ tvaritaṃ rāmo vacanam abravīt |
यद् आगमनकृत्यं ते भूयस् तद् ब्रूह्य् अशेषतः ॥ (६।२)
yad āgamanakṛtyaṃ te bhūyas tad brūhy aśeṣataḥ ||
तम् उवाच ततः सूतो राजा त्वां द्रष्टुम् इच्छति । (७।१)
tam uvāca tataḥ sūto rājā tvāṃ draṣṭum icchati |
श्रुत्वा प्रमाणम् अत्र त्वं गमनायेतराय वा ॥ (७।२)
śrutvā pramāṇam atra tvaṃ gamanāyetarāya vā ||
इति सूतवचः श्रुत्वा रामो ऽथ त्वरयान्वितः । (८।१)
iti sūtavacaḥ śrutvā rāmo 'tha tvarayānvitaḥ |
प्रययौ राजभवनं पुनर् द्रष्टुं नरेश्वरम् ॥ (८।२)
prayayau rājabhavanaṃ punar draṣṭuṃ nareśvaram ||
तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः । (९।१)
taṃ śrutvā samanuprāptaṃ rāmaṃ daśaratho nṛpaḥ |
प्रवेशयामास गृहं विविक्षुः प्रियम् उत्तमम् ॥ (९।२)
praveśayāmāsa gṛhaṃ vivikṣuḥ priyam uttamam ||
प्रविशन्न् एव च श्रीमान् राघवो भवनं पितुः । (१०।१)
praviśann eva ca śrīmān rāghavo bhavanaṃ pituḥ |
ददर्श पितरं दूरात् प्रणिपत्य कृताञ्जलिः ॥ (१०।२)
dadarśa pitaraṃ dūrāt praṇipatya kṛtāñjaliḥ ||
प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः । (११।१)
praṇamantaṃ samutthāpya taṃ pariṣvajya bhūmipaḥ |
प्रदिश्य चास्मै रुचिरम् आसनं पुनर् अब्रवीत् ॥ (११।२)
pradiśya cāsmai ruciram āsanaṃ punar abravīt ||
राम वृद्धो ऽस्मि दीर्घायुर् भुक्ता भोगा मयेप्सिताः । (१२।१)
rāma vṛddho 'smi dīrghāyur bhuktā bhogā mayepsitāḥ |
अन्नवद्भिः क्रतुशतैस् तथेष्टं भूरिदक्षिणैः ॥ (१२।२)
annavadbhiḥ kratuśatais tatheṣṭaṃ bhūridakṣiṇaiḥ ||
जातम् इष्टम् अपत्यं मे त्वम् अद्यानुपमं भुवि । (१३।१)
jātam iṣṭam apatyaṃ me tvam adyānupamaṃ bhuvi |
देवर्षिपितृविप्राणाम् अनृणो ऽस्मि तथात्मनः ॥ (१४।२)
devarṣipitṛviprāṇām anṛṇo 'smi tathātmanaḥ ||
न किंचिन् मम कर्तव्यं तवान्यत्राभिषेचनात् । (१५।१)
na kiṃcin mama kartavyaṃ tavānyatrābhiṣecanāt |
अतो यत् त्वाम् अहं ब्रूयां तन् मे त्वं कर्तुम् अर्हसि ॥ (१५।२)
ato yat tvām ahaṃ brūyāṃ tan me tvaṃ kartum arhasi ||
अद्य प्रकृतयः सर्वास् त्वाम् इच्छन्ति नराधिपम् । (१६।१)
adya prakṛtayaḥ sarvās tvām icchanti narādhipam |
अतस् त्वां युवराजानम् अभिषेक्ष्यामि पुत्रक ॥ (१६।२)
atas tvāṃ yuvarājānam abhiṣekṣyāmi putraka ||
अपि चाद्याशुभान् राम स्वप्नान् पश्यामि दारुणान् । (१७।१)
api cādyāśubhān rāma svapnān paśyāmi dāruṇān |
सनिर्घाता महोल्काश् च पतन्तीह महास्वनाः ॥ (१७।२)
sanirghātā maholkāś ca patantīha mahāsvanāḥ ||
अवष्टब्धं च मे राम नक्षत्रं दारुणैर् ग्रहैः । (१८।१)
avaṣṭabdhaṃ ca me rāma nakṣatraṃ dāruṇair grahaiḥ |
प्रायेण हि निमित्तानाम् ईदृशानां समुद्भवे । (१९।१)
prāyeṇa hi nimittānām īdṛśānāṃ samudbhave |
राजा वा मृत्युम् आप्नोति घोरां वापदम् ऋच्छति ॥ (१९।२)
rājā vā mṛtyum āpnoti ghorāṃ vāpadam ṛcchati ||
तावद् एवाभिषिञ्चस्व चला हि प्राणिनां मतिः ॥ (२०।२)
tāvad evābhiṣiñcasva calā hi prāṇināṃ matiḥ ||
अद्य चन्द्रो ऽभ्युपगतः पुष्यात् पूर्वं पुनर् वसुम् । (२१।१)
adya candro 'bhyupagataḥ puṣyāt pūrvaṃ punar vasum |
श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैवचिन्तकाः ॥ (२१।२)
śvaḥ puṣyayogaṃ niyataṃ vakṣyante daivacintakāḥ ||
तत्र पुष्ये ऽभिषिञ्चस्व मनस् त्वरयतीव माम् । (२२।१)
tatra puṣye 'bhiṣiñcasva manas tvarayatīva mām |
श्वस् त्वाहम् अभिषेक्ष्यामि यौवराज्ये परंतप ॥ (२२।२)
śvas tvāham abhiṣekṣyāmi yauvarājye paraṃtapa ||
तस्मात् त्वयाद्य व्रतिना निशेयं नियतात्मना । (२३।१)
tasmāt tvayādya vratinā niśeyaṃ niyatātmanā |
सुहृदश् चाप्रमत्तास् त्वां रक्षन्त्व् अद्य समन्ततः । (२४।१)
suhṛdaś cāpramattās tvāṃ rakṣantv adya samantataḥ |
भवन्ति बहुविघ्नानि कार्याण्य् एवंविधानि हि ॥ (२४।२)
bhavanti bahuvighnāni kāryāṇy evaṃvidhāni hi ||
कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः । (२६।१)
kāmaṃ khalu satāṃ vṛtte bhrātā te bharataḥ sthitaḥ |
ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः ॥ (२६।२)
jyeṣṭhānuvartī dharmātmā sānukrośo jitendriyaḥ ||
किं तु चित्तं मनुष्याणाम् अनित्यम् इति मे मतिः । (२७।१)
kiṃ tu cittaṃ manuṣyāṇām anityam iti me matiḥ |
इत्य् उक्तः सो ऽभ्यनुज्ञातः श्वोभाविन्य् अभिषेचने । (२८।१)
ity uktaḥ so 'bhyanujñātaḥ śvobhāviny abhiṣecane |
व्रजेति रामः पितरम् अभिवाद्याभ्ययाद् गृहम् ॥ (२८।२)
vrajeti rāmaḥ pitaram abhivādyābhyayād gṛham ||
प्रविश्य चात्मनो वेश्म राज्ञोद्दिष्टे ऽभिषेचने । (२९।१)
praviśya cātmano veśma rājñoddiṣṭe 'bhiṣecane |
तस्मिन् क्षणे विनिर्गत्य मातुर् अन्तःपुरं ययौ ॥ (२९।२)
tasmin kṣaṇe vinirgatya mātur antaḥpuraṃ yayau ||
तत्र तां प्रवणाम् एव मातरं क्षौमवासिनीम् । (३०।१)
tatra tāṃ pravaṇām eva mātaraṃ kṣaumavāsinīm |
वाग्यतां देवतागारे ददर्श याचतीं श्रियम् ॥ (३०।२)
vāgyatāṃ devatāgāre dadarśa yācatīṃ śriyam ||
प्राग् एव चागता तत्र सुमित्रा लक्ष्मणस् तथा । (३१।१)
prāg eva cāgatā tatra sumitrā lakṣmaṇas tathā |
सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् ॥ (३१।२)
sītā cānāyitā śrutvā priyaṃ rāmābhiṣecanam ||
तस्मिन् काले हि कौसल्या तस्थाव् आमीलितेक्षणा । (३२।१)
tasmin kāle hi kausalyā tasthāv āmīlitekṣaṇā |
श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम् । (३३।१)
śrutvā puṣyeṇa putrasya yauvarājyābhiṣecanam |
अम्ब पित्रा नियुक्तो ऽस्मि प्रजापालनकर्मणि । (३५।१)
amba pitrā niyukto 'smi prajāpālanakarmaṇi |
भविता श्वो ऽभिषेको मे यथा मे शासनं पितुः ॥ (३५।२)
bhavitā śvo 'bhiṣeko me yathā me śāsanaṃ pituḥ ||
एवम् ऋत्विगुपाध्यायैः सह माम् उक्तवान् पिता ॥ (३६।२)
evam ṛtvigupādhyāyaiḥ saha mām uktavān pitā ||
यानि यान्य् अत्र योग्यानि श्वोभाविन्य् अभिषेचने । (३७।१)
yāni yāny atra yogyāni śvobhāviny abhiṣecane |
तानि मे मङ्गलान्य् अद्य वैदेह्याश् चैव कारय ॥ (३७।२)
tāni me maṅgalāny adya vaidehyāś caiva kāraya ||
एतच् छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम् । (३८।१)
etac chrutvā tu kausalyā cirakālābhikāṅkṣitam |
वत्स राम चिरं जीव हतास् ते परिपन्थिनः । (३९।१)
vatsa rāma ciraṃ jīva hatās te paripanthinaḥ |
ज्ञातीन् मे त्वं श्रिया युक्तः सुमित्रायाश् च नन्दय ॥ (३९।२)
jñātīn me tvaṃ śriyā yuktaḥ sumitrāyāś ca nandaya ||
कल्याणे बत नक्षत्रे मयि जातो ऽसि पुत्रक । (४०।१)
kalyāṇe bata nakṣatre mayi jāto 'si putraka |
अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे । (४१।१)
amoghaṃ bata me kṣāntaṃ puruṣe puṣkarekṣaṇe |
येयम् इक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति ॥ (४१।२)
yeyam ikṣvākurājyaśrīḥ putra tvāṃ saṃśrayiṣyati ||
इत्य् एवम् उक्तो मात्रेदं रामो भारतम् अब्रवीत् । (४२।१)
ity evam ukto mātredaṃ rāmo bhāratam abravīt |
प्राञ्जलिं प्रह्वम् आसीनम् अभिवीक्ष्य स्मयन्न् इव ॥ (४२।२)
prāñjaliṃ prahvam āsīnam abhivīkṣya smayann iva ||
लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुंधराम् । (४३।१)
lakṣmaṇemāṃ mayā sārdhaṃ praśādhi tvaṃ vasuṃdharām |
द्वितीयं मे ऽन्तरात्मानं त्वाम् इयं श्रीर् उपस्थिता ॥ (४३।२)
dvitīyaṃ me 'ntarātmānaṃ tvām iyaṃ śrīr upasthitā ||
सौमित्रे भुङ्क्ष्व भोगांस् त्वम् इष्टान् राज्यफलानि च । (४४।१)
saumitre bhuṅkṣva bhogāṃs tvam iṣṭān rājyaphalāni ca |
जीवितं च हि राज्यं च त्वदर्थम् अभिकामये ॥ (४४।२)
jīvitaṃ ca hi rājyaṃ ca tvadartham abhikāmaye ||
इत्य् उक्त्वा लक्ष्मणं रामो मातराव् अभिवाद्य च । (४५।१)
ity uktvā lakṣmaṇaṃ rāmo mātarāv abhivādya ca |
अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेशनम् ॥ (४५।२)
abhyanujñāpya sītāṃ ca jagāma svaṃ niveśanam ||
Data courtesy of The Digital Corpus of Sanskrit.