महाभारतMahābhārata

MBh, 1, 1

1 of 1995 · 689 verses

Select a line for its word-by-word analysis.

1.1१.१

जयति पराशरसूनुः सत्यवतीहृदयनन्दनो व्यासः । (१।१)

jayati parāśarasūnuḥ satyavatīhṛdayanandano vyāsaḥ |

1.2१.२

यस्यास्यकमलकोशे वाङ्मयम् अमृतं पिबति लोकः । (१।२)

yasyāsyakamalakośe vāṅmayam amṛtaṃ pibati lokaḥ |

1.3१.३

धर्मदृढबद्धमूलो वेदस्कन्धः पुराणशाखाढ्यः । (१।३)

dharmadṛḍhabaddhamūlo vedaskandhaḥ purāṇaśākhāḍhyaḥ |

1.4१.४

क्रतुकुसुमो मोक्षफलो जयति कल्पद्रुमो विष्णुः । (१।४)

kratukusumo mokṣaphalo jayati kalpadrumo viṣṇuḥ |

1.5१.५

पितामहाद्यं प्रवदन्ति षष्ठं महर्षिम् अक्षय्यविभूतियुक्तम् । (१।५)

pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣim akṣayyavibhūtiyuktam |

1.6१.६

नारायणस्यांशजम् एकपुत्रं द्वैपायनं वेदनिधिं नमामि । (१।६)

nārāyaṇasyāṃśajam ekaputraṃ dvaipāyanaṃ vedanidhiṃ namāmi |

1.7१.७

पाराशर्यवचःसरोजम् अमलं गीतार्थगन्धोत्कटं नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम् । (१।७)

pārāśaryavacaḥsarojam amalaṃ gītārthagandhotkaṭaṃ nānākhyānakakesaraṃ harikathāsambodhanābodhitam |

1.8१.८

लोके सज्जनषट्पदैर् अहरहः पेपीयमानं मुदा । (१।८)

loke sajjanaṣaṭpadair aharahaḥ pepīyamānaṃ mudā |

1.9१.९

भूयाद् भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे । (१।९)

bhūyād bhāratapaṅkajaṃ kalimalapradhvaṃsi naḥ śreyase |

1.10१.१०

यः श्वेतत्वम् उपागतः कृतयुगे त्रेतायुगे रक्ततां युग्मे यः कपिलः कलौ च भगवान् कृष्णत्वम् आयाग [॥। औ३ ज़ेइछेन्झ्] । (१।१०)

yaḥ śvetatvam upāgataḥ kṛtayuge tretāyuge raktatāṃ yugme yaḥ kapilaḥ kalau ca bhagavān kṛṣṇatvam āyāga |

1.11१.११

दन्ति [॥। औ५ ज़ेइछेन्झ्] मुनयो यो योगिभिर् गीयते । (१।११)

danti munayo yo yogibhir gīyate |

1.12१.१२

स ब्रह्मा यदि वा हरो यदि शिवो यः को ऽपि तस्मै नमः । (१।१२)

sa brahmā yadi vā haro yadi śivo yaḥ ko 'pi tasmai namaḥ |

1.13१.१३

वागीशाद्याः सुमनसः सर्वार्थानाम् उ॥। । (१।१३)

vāgīśādyāḥ sumanasaḥ sarvārthānām u... |

1.14१.१४

॥ त्वा कृतकृत्याः स्युस् तं नमामि गजाननम् । (१।१४)

.. tvā kṛtakṛtyāḥ syus taṃ namāmi gajānanam |

1.15१.१५

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रम् अकल्मषम् । (१।१५)

vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam |

1.16१.१६

पराशरात्मजं वन्दे शुकतातं तपोनिधिम् । (१।१६)

parāśarātmajaṃ vande śukatātaṃ taponidhim |

1.17१.१७

अचतुर्वदनो ब्रह्मा द्विबाहुर् अ॥। । (१।१७)

acaturvadano brahmā dvibāhur a... |

1.18१.१८

अभाललोचनः शम्भुर् भगवान् बादरायणः । (१।१८)

abhālalocanaḥ śambhur bhagavān bādarāyaṇaḥ |

1.19१.१९

शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् । (१।१९)

śuklāmbaradharaṃ devaṃ śaśivarṇaṃ caturbhujam |

1.20१.२०

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये । (१।२०)

prasannavadanaṃ dhyāyet sarvavighnopaśāntaye |

1.21१.२१

ज्ञानानन्दमयं देवं निर्मलं स्फटिकाकृतिम् । (१।२१)

jñānānandamayaṃ devaṃ nirmalaṃ sphaṭikākṛtim |

1.22१.२२

आधारं सर्वविद्यानां हयग्रीवम् उपास्महे । (१।२२)

ādhāraṃ sarvavidyānāṃ hayagrīvam upāsmahe |

1.23१.२३

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे । (१।२३)

vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇave |

1.24१.२४

नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः । (१।२४)

namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ |

1.25१.२५

नमो धर्माय महते नमः कृष्णाय वेधसे । (१।२५)

namo dharmāya mahate namaḥ kṛṣṇāya vedhase |

1.26१.२६

ब्राह्मणेभ्यो नमस्कृत्वा धर्मान् वक्ष्यामि शाश्वतान् । (१।२६)

brāhmaṇebhyo namaskṛtvā dharmān vakṣyāmi śāśvatān |

1.27१.२७

अभ्रश्यामः पिङ्गजटाबद्धकलापः । (१।२७)

abhraśyāmaḥ piṅgajaṭābaddhakalāpaḥ |

1.28१.२८

प्रांशुर् दण्डी कृष्णमृगत्वक्परिधानः । (१।२८)

prāṃśur daṇḍī kṛṣṇamṛgatvakparidhānaḥ |

1.29१.२९

साक्षाल्लोकान् पावयमानः कविमुख्यः । (१।२९)

sākṣāllokān pāvayamānaḥ kavimukhyaḥ |

1.30१.३०

पाराशर्यः पर्वसु रूपं विवृणोतु । (१।३०)

pārāśaryaḥ parvasu rūpaṃ vivṛṇotu |

1.31१.३१

अशुभानि निराचष्टे तनोति शुभसंततिम् । (१।३१)

aśubhāni nirācaṣṭe tanoti śubhasaṃtatim |

1.32१.३२

स्मृतमात्रेण यः पुंसां ब्रह्म तन् मङ्गलं विदुः । (१।३२)

smṛtamātreṇa yaḥ puṃsāṃ brahma tan maṅgalaṃ viduḥ |

1.33१.३३

धर्मो विवर्धति युधिष्ठिरकीर्तनेन । (१।३३)

dharmo vivardhati yudhiṣṭhirakīrtanena |

1.34१.३४

पापं प्रणश्यति वृकोदरकीर्तनेन । (१।३४)

pāpaṃ praṇaśyati vṛkodarakīrtanena |

1.35१.३५

शत्रुर् विनश्यति धनंजयकीर्तनेन । (१।३५)

śatrur vinaśyati dhanaṃjayakīrtanena |

1.36१.३६

माद्रीसुतौ कथयतां न भवन्ति रोगाः । (१।३६)

mādrīsutau kathayatāṃ na bhavanti rogāḥ |

1.37१.३७

सरस्वतीपदं वन्दे श्रियः पतिम् उमापतिम् । (१।३७)

sarasvatīpadaṃ vande śriyaḥ patim umāpatim |

1.38१.३८

त्विषां पतिं गणपतिं बृहस्पतिमुखान् ऋषीन् । (१।३८)

tviṣāṃ patiṃ gaṇapatiṃ bṛhaspatimukhān ṛṣīn |

1.39१.३९

नारायणं सुरगुरुं जगदेकनाथं भक्तप्रियं सकललोकनमस्कृतं च । (१।३९)

nārāyaṇaṃ suraguruṃ jagadekanāthaṃ bhaktapriyaṃ sakalalokanamaskṛtaṃ ca |

1.40१.४०

त्रैगुण्यवर्जितम् अजं विभुम् आद्यम् ईशं वन्दे भवघ्नम् असुरासुरसिद्धवन्द्यम् । (१।४०)

traiguṇyavarjitam ajaṃ vibhum ādyam īśaṃ vande bhavaghnam asurāsurasiddhavandyam |

1.41१.४१

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । (१।४१)

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam |

1.42१.४२

देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् ॥ (१।४२)

devīṃ sarasvatīṃ caiva tato jayam udīrayet ||

2.1२.१

लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर् द्वादशवार्षिके सत्त्रे ॥ (२।१)

lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike sattre ||

3.1३.१

समासीनान् अभ्यगच्छद् ब्रह्मर्षीन् संशितव्रतान् । (३।१)

samāsīnān abhyagacchad brahmarṣīn saṃśitavratān |

3.2३.२

विनयावनतो भूत्वा कदाचित् सूतनन्दनः ॥ (३।२)

vinayāvanato bhūtvā kadācit sūtanandanaḥ ||

4.1४.१

तम् आश्रमम् अनुप्राप्तं नैमिषारण्यवासिनः । (४।१)

tam āśramam anuprāptaṃ naimiṣāraṇyavāsinaḥ |

4.2४.२

उवाच तान् ऋषीन् सर्वान् धन्यो वो ऽस्म्यद्य दर्शनात् । (४।२)

uvāca tān ṛṣīn sarvān dhanyo vo 'smyadya darśanāt |

4.3४.३

वेद वैयासिकीः सर्वाः कथा धर्मार्थसंहिताः । (४।३)

veda vaiyāsikīḥ sarvāḥ kathā dharmārthasaṃhitāḥ |

4.4४.४

वक्ष्यामि वो द्विजश्रेष्ठाः शृण्वन्त्वद्य तपोधनाः । (४।४)

vakṣyāmi vo dvijaśreṣṭhāḥ śṛṇvantvadya tapodhanāḥ |

4.5४.५

तस्य तद् वचनं श्रुत्वा नैमिषारण्यवासिनः । (४।५)

tasya tad vacanaṃ śrutvā naimiṣāraṇyavāsinaḥ |

4.6४.६

चित्राः श्रोतुं कथास् तत्र परिवव्रुस् तपस्विनः ॥ (४।६)

citrāḥ śrotuṃ kathās tatra parivavrus tapasvinaḥ ||

5.1५.१

अभिवाद्य मुनींस् तांस् तु सर्वान् एव कृताञ्जलिः । (५।१)

abhivādya munīṃs tāṃs tu sarvān eva kṛtāñjaliḥ |

5.2५.२

अपृच्छत् स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः ॥ (५।२)

apṛcchat sa tapovṛddhiṃ sadbhiścaivābhinanditaḥ ||

6.1६.१

अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु । (६।१)

atha teṣūpaviṣṭeṣu sarveṣveva tapasviṣu |

6.2६.२

निर्दिष्टम् आसनं भेजे विनयाल्लोमहर्षणिः ॥ (६।२)

nirdiṣṭam āsanaṃ bheje vinayāllomaharṣaṇiḥ ||

7.1७.१

सुखासीनं ततस् तं तु विश्रान्तम् उपलक्ष्य च । (७।१)

sukhāsīnaṃ tatas taṃ tu viśrāntam upalakṣya ca |

7.2७.२

अथापृच्छद् ऋषिस् तत्र कश्चित् प्रस्तावयन् कथाः ॥ (७।२)

athāpṛcchad ṛṣis tatra kaścit prastāvayan kathāḥ ||

8.1८.१

कुत आगम्यते सौते क्व चायं विहृतस् त्वया । (८।१)

kuta āgamyate saute kva cāyaṃ vihṛtas tvayā |

8.2८.२

कालः कमलपत्त्राक्ष शंसैतत् पृच्छतो मम । (८।२)

kālaḥ kamalapattrākṣa śaṃsaitat pṛcchato mama |

8.3८.३

एवं पृष्टो ऽब्रवीत् सम्यग् यथावल्लोमहर्षणिः । (८।३)

evaṃ pṛṣṭo 'bravīt samyag yathāvallomaharṣaṇiḥ |

8.4८.४

वाक्यं वचनसम्पन्नस् तेषां तु चरिताश्रयम् । (८।४)

vākyaṃ vacanasampannas teṣāṃ tu caritāśrayam |

8.5८.५

तस्मिन् सदसि विस्तीर्णे मुनीनां भावितात्मनाम् ॥ (८।५)

tasmin sadasi vistīrṇe munīnāṃ bhāvitātmanām ||

9.1९.१

सूत उवाच । (९।१)

sūta uvāca

9.2९.२

जनमेजयस्य राजर्षेः सर्पसत्त्रे महात्मनः । (९।२)

janamejayasya rājarṣeḥ sarpasattre mahātmanaḥ |

9.3९.३

समीपे पार्थिवेन्द्रस्य सम्यक् पारिक्षितस्य च ॥ (९।३)

samīpe pārthivendrasya samyak pārikṣitasya ca ||

10.1१०.१

कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः । (१०।१)

kṛṣṇadvaipāyanaproktāḥ supuṇyā vividhāḥ kathāḥ |

10.2१०.२

कथिताश्चापि विधिवद् या वैशम्पायनेन वै ॥ (१०।२)

kathitāścāpi vidhivad yā vaiśampāyanena vai ||

11.1११.१

श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः । (११।१)

śrutvāhaṃ tā vicitrārthā mahābhāratasaṃśritāḥ |

11.2११.२

बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च ॥ (११।२)

bahūni samparikramya tīrthānyāyatanāni ca ||

12.1१२.१

समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् । (१२।१)

samantapañcakaṃ nāma puṇyaṃ dvijaniṣevitam |

12.2१२.२

गतवान् अस्मि तं देशं युद्धं यत्राभवत् पुरा । (१२।२)

gatavān asmi taṃ deśaṃ yuddhaṃ yatrābhavat purā |

12.3१२.३

पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् ॥ (१२।३)

pāṇḍavānāṃ kurūṇāṃ ca sarveṣāṃ ca mahīkṣitām ||

13.1१३.१

दिदृक्षुर् आगतस् तस्मात् समीपं भवताम् इह । (१३।१)

didṛkṣur āgatas tasmāt samīpaṃ bhavatām iha |

13.2१३.२

आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः ॥ (१३।२)

āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ ||

14.1१४.१

अस्मिन् यज्ञे महाभागाः सूर्यपावकवर्चसः । (१४।१)

asmin yajñe mahābhāgāḥ sūryapāvakavarcasaḥ |

14.2१४.२

कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः । (१४।२)

kṛtābhiṣekāḥ śucayaḥ kṛtajapyā hutāgnayaḥ |

14.3१४.३

भवन्त आसते स्वस्था ब्रवीमि किम् अहं द्विजाः ॥ (१४।३)

bhavanta āsate svasthā bravīmi kim ahaṃ dvijāḥ ||

15.1१५.१

पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः । (१५।१)

purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ |

15.2१५.२

इतिवृत्तं नरेन्द्राणाम् ऋषीणां च महात्मनाम् । (१५।२)

itivṛttaṃ narendrāṇām ṛṣīṇāṃ ca mahātmanām |

15.3१५.३

श्रुतं मे भारताख्यानं धर्मकामार्थमोक्षदम् । (१५।३)

śrutaṃ me bhāratākhyānaṃ dharmakāmārthamokṣadam |

15.4१५.४

जनमेजयेन पृष्टः सन् वैशम्पायन उक्तवान् । (१५।४)

janamejayena pṛṣṭaḥ san vaiśampāyana uktavān |

15.5१५.५

ऋषीणाम् अग्रतस् तत्र धर्मिष्ठानां महात्मनाम् । (१५।५)

ṛṣīṇām agratas tatra dharmiṣṭhānāṃ mahātmanām |

15.6१५.६

व्यासदेवाज्ञया तत्र यद् वैशम्पायनस् तदा । (१५।६)

vyāsadevājñayā tatra yad vaiśampāyanas tadā |

15.7१५.७

श्रुतं वै भारताख्यानं वेदार्थैश्चोपबृंहितम् । (१५।७)

śrutaṃ vai bhāratākhyānaṃ vedārthaiścopabṛṃhitam |

15.8१५.८

तत्र मे विदितं सर्वं भारताख्यानम् आदितः ॥ (१५।८)

tatra me viditaṃ sarvaṃ bhāratākhyānam āditaḥ ||

16.1१६.१

ऋषय ऊचुः । (१६।१)

ṛṣaya ūcuḥ |

16.2१६.२

द्वैपायनेन यत् प्रोक्तं पुराणं परमर्षिणा । (१६।२)

dvaipāyanena yat proktaṃ purāṇaṃ paramarṣiṇā |

16.3१६.३

सुरैर् ब्रह्मर्षिभिश्चैव श्रुत्वा यद् अभिपूजितम् ॥ (१६।३)

surair brahmarṣibhiścaiva śrutvā yad abhipūjitam ||

17.1१७.१

तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः । (१७।१)

tasyākhyānavariṣṭhasya vicitrapadaparvaṇaḥ |

17.2१७.२

सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर् भूषितस्य च ॥ (१७।२)

sūkṣmārthanyāyayuktasya vedārthair bhūṣitasya ca ||

18.1१८.१

भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् । (१८।१)

bhāratasyetihāsasya puṇyāṃ granthārthasaṃyutām |

18.2१८.२

संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ॥ (१८।२)

saṃskāropagatāṃ brāhmīṃ nānāśāstropabṛṃhitām ||

19.1१९.१

जनमेजयस्य यां राज्ञो वैशम्पायन उक्तवान् । (१९।१)

janamejayasya yāṃ rājño vaiśampāyana uktavān |

19.2१९.२

यथावत् स ऋषिस् तुष्ट्या सत्त्रे द्वैपायनाज्ञया ॥ (१९।२)

yathāvat sa ṛṣis tuṣṭyā sattre dvaipāyanājñayā ||

20.1२०.१

वेदैश् चतुर्भिः समितां व्यासस्याद्भुतकर्मणः । (२०।१)

vedaiś caturbhiḥ samitāṃ vyāsasyādbhutakarmaṇaḥ |

20.2२०.२

संहितां श्रोतुम् इच्छामो धर्म्यां पापभयापहाम् ॥ (२०।२)

saṃhitāṃ śrotum icchāmo dharmyāṃ pāpabhayāpahām ||

21.1२१.१

सूत उवाच । (२१।१)

sūta uvāca

21.2२१.२

आद्यं पुरुषम् ईशानं पुरुहूतं पुरुष्टुतम् । (२१।२)

ādyaṃ puruṣam īśānaṃ puruhūtaṃ puruṣṭutam |

21.3२१.३

ऋतम् एकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥ (२१।३)

ṛtam ekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam ||

22.1२२.१

असच्च सच्चैव च यद् विश्वं सदसतः परम् । (२२।१)

asacca saccaiva ca yad viśvaṃ sadasataḥ param |

22.2२२.२

परावराणां स्रष्टारं पुराणं परम् अव्ययम् ॥ (२२।२)

parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ param avyayam ||

23.1२३.१

मङ्गल्यं मङ्गलं विष्णुं वरेण्यम् अनघं शुचिम् । (२३।१)

maṅgalyaṃ maṅgalaṃ viṣṇuṃ vareṇyam anaghaṃ śucim |

23.2२३.२

नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥ (२३।२)

namaskṛtya hṛṣīkeśaṃ carācaraguruṃ harim ||

24.1२४.१

महर्षेः पूजितस्येह सर्वलोके महात्मनः । (२४।१)

maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ |

24.2२४.२

प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः । (२४।२)

pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ |

24.3२४.३

नमो भगवते तस्मै व्यासायामिततेजसे । (२४।३)

namo bhagavate tasmai vyāsāyāmitatejase |

24.4२४.४

यस्य प्रसादाद् वक्ष्यामि नारायणकथाम् इमाम् । (२४।४)

yasya prasādād vakṣyāmi nārāyaṇakathām imām |

24.5२४.५

सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् । (२४।५)

sarvāśramābhigamanaṃ sarvatīrthāvagāhanam |

24.6२४.६

न तथा फलदं सूते नारायणकथा यथा । (२४।६)

na tathā phaladaṃ sūte nārāyaṇakathā yathā |

24.7२४.७

नास्ति नारायणसमं न भूतं न भविष्यति । (२४।७)

nāsti nārāyaṇasamaṃ na bhūtaṃ na bhaviṣyati |

24.8२४.८

एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम् ॥ (२४।८)

etena satyavākyena sarvārthān sādhayāmyaham ||

25.1२५.१

आचख्युः कवयः केचित् सम्प्रत्याचक्षते परे । (२५।१)

ācakhyuḥ kavayaḥ kecit sampratyācakṣate pare |

25.2२५.२

आख्यास्यन्ति तथैवान्ये इतिहासम् इमं भुवि ॥ (२५।२)

ākhyāsyanti tathaivānye itihāsam imaṃ bhuvi ||

26.1२६.१

इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् । (२६।१)

idaṃ tu triṣu lokeṣu mahajjñānaṃ pratiṣṭhitam |

26.2२६.२

विस्तरैश्च समासैश्च धार्यते यद् द्विजातिभिः ॥ (२६।२)

vistaraiśca samāsaiśca dhāryate yad dvijātibhiḥ ||

27.1२७.१

अलंकृतं शुभैः शब्दैः समयैर् दिव्यमानुषैः । (२७।१)

alaṃkṛtaṃ śubhaiḥ śabdaiḥ samayair divyamānuṣaiḥ |

27.2२७.२

छन्दोवृत्तैश्च विविधैर् अन्वितं विदुषां प्रियम् । (२७।२)

chandovṛttaiśca vividhair anvitaṃ viduṣāṃ priyam |

27.3२७.३

पुण्ये हिमवतः पादे मेध्ये गिरिगुहालये । (२७।३)

puṇye himavataḥ pāde medhye giriguhālaye |

27.4२७.४

विशोध्य देहं धर्मात्मा दर्भसंस्तरम् आश्रितः । (२७।४)

viśodhya dehaṃ dharmātmā darbhasaṃstaram āśritaḥ |

27.5२७.५

शुचिः सनियमो व्यासः शान्तात्मा तपसि स्थितः । (२७।५)

śuciḥ saniyamo vyāsaḥ śāntātmā tapasi sthitaḥ |

27.6२७.६

भारतस्येतिहासस्य धर्मेणान्वीक्ष्य तां गतिम् । (२७।६)

bhāratasyetihāsasya dharmeṇānvīkṣya tāṃ gatim |

27.7२७.७

प्रविश्य योगं ज्ञानेन सो ऽपश्यत् सर्वम् अन्ततः ॥ (२७।७)

praviśya yogaṃ jñānena so 'paśyat sarvam antataḥ ||

28.1२८.१

निष्प्रभे ऽस्मिन् निरालोके सर्वतस् तमसावृते । (२८।१)

niṣprabhe 'smin nirāloke sarvatas tamasāvṛte |

28.2२८.२

बृहद् अण्डम् अभूद् एकं प्रजानां बीजम् अक्षयम् ॥ (२८।२)

bṛhad aṇḍam abhūd ekaṃ prajānāṃ bījam akṣayam ||

29.1२९.१

युगस्यादौ निमित्तं तन् महद् दिव्यं प्रचक्षते । (२९।१)

yugasyādau nimittaṃ tan mahad divyaṃ pracakṣate |

29.2२९.२

यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर् ब्रह्म सनातनम् ॥ (२९।२)

yasmiṃstacchrūyate satyaṃ jyotir brahma sanātanam ||

30.1३०.१

अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम् । (३०।१)

adbhutaṃ cāpyacintyaṃ ca sarvatra samatāṃ gatam |

30.2३०.२

अव्यक्तं कारणं सूक्ष्मं यत् तत् सदसदात्मकम् ॥ (३०।२)

avyaktaṃ kāraṇaṃ sūkṣmaṃ yat tat sadasadātmakam ||

31.1३१.१

यस्मात् पितामहो जज्ञे प्रभुर् एकः प्रजापतिः । (३१।१)

yasmāt pitāmaho jajñe prabhur ekaḥ prajāpatiḥ |

31.2३१.२

ब्रह्मा सुरगुरुः स्थाणुर् मनुः कः परमेष्ठ्यथ ॥ (३१।२)

brahmā suraguruḥ sthāṇur manuḥ kaḥ parameṣṭhyatha ||

32.1३२.१

प्राचेतसस् तथा दक्षो दक्षपुत्राश्च सप्त ये । (३२।१)

prācetasas tathā dakṣo dakṣaputrāśca sapta ye |

32.2३२.२

ततः प्रजानां पतयः प्राभवन्न् एकविंशतिः ॥ (३२।२)

tataḥ prajānāṃ patayaḥ prābhavann ekaviṃśatiḥ ||

33.1३३.१

पुरुषश्चाप्रमेयात्मा यं सर्वम् ऋषयो विदुः । (३३।१)

puruṣaścāprameyātmā yaṃ sarvam ṛṣayo viduḥ |

33.2३३.२

विश्वेदेवास् तथादित्या वसवो ऽथाश्विनावपि ॥ (३३।२)

viśvedevās tathādityā vasavo 'thāśvināvapi ||

34.1३४.१

यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस् तथा । (३४।१)

yakṣāḥ sādhyāḥ piśācāśca guhyakāḥ pitaras tathā |

34.2३४.२

ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयो ऽमलाः ॥ (३४।२)

tataḥ prasūtā vidvāṃsaḥ śiṣṭā brahmarṣayo 'malāḥ ||

35.1३५.१

राजर्षयश्च बहवः सर्वैः समुदिता गुणैः । (३५।१)

rājarṣayaśca bahavaḥ sarvaiḥ samuditā guṇaiḥ |

35.2३५.२

आपो द्यौः पृथिवी वायुर् अन्तरिक्षं दिशस् तथा ॥ (३५।२)

āpo dyauḥ pṛthivī vāyur antarikṣaṃ diśas tathā ||

36.1३६.१

संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् । (३६।१)

saṃvatsarartavo māsāḥ pakṣāhorātrayaḥ kramāt |

36.2३६.२

क्षणा लवा मुहूर्ताश्च निमेषा युगपर्ययाः । (३६।२)

kṣaṇā lavā muhūrtāśca nimeṣā yugaparyayāḥ |

36.3३६.३

यच्चान्यद् अपि तत् सर्वं सम्भूतं लोकसाक्षिकम् ॥ (३६।३)

yaccānyad api tat sarvaṃ sambhūtaṃ lokasākṣikam ||

37.1३७.१

यद् इदं दृश्यते किंचिद् भूतं स्थावरजङ्गमम् । (३७।१)

yad idaṃ dṛśyate kiṃcid bhūtaṃ sthāvarajaṅgamam |

37.2३७.२

पुनः संक्षिप्यते सर्वं जगत् प्राप्ते युगक्षये ॥ (३७।२)

punaḥ saṃkṣipyate sarvaṃ jagat prāpte yugakṣaye ||

38.1३८.१

यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये । (३८।१)

yathartāvṛtuliṅgāni nānārūpāṇi paryaye |

38.2३८.२

दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ (३८।२)

dṛśyante tāni tānyeva tathā bhāvā yugādiṣu ||

39.1३९.१

एवम् एतद् अनाद्यन्तं भूतसंहारकारकम् । (३९।१)

evam etad anādyantaṃ bhūtasaṃhārakārakam |

39.2३९.२

अनादिनिधनं लोके चक्रं सम्परिवर्तते ॥ (३९।२)

anādinidhanaṃ loke cakraṃ samparivartate ||

40.1४०.१

त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च । (४०।१)

trayastriṃśatsahasrāṇi trayastriṃśacchatāni ca |

40.2४०.२

त्रयस्त्रिंशच्च देवानां सृष्टिः संक्षेपलक्षणा ॥ (४०।२)

trayastriṃśacca devānāṃ sṛṣṭiḥ saṃkṣepalakṣaṇā ||

41.1४१.१

दिवस्पुत्रो बृहद्भानुश्चक्षुर् आत्मा विभावसुः । (४१।१)

divasputro bṛhadbhānuścakṣur ātmā vibhāvasuḥ |

41.2४१.२

सविता च ऋचीको ऽर्को भानुर् आशावहो रविः ॥ (४१।२)

savitā ca ṛcīko 'rko bhānur āśāvaho raviḥ ||

42.1४२.१

पुत्रा विवस्वतः सर्वे मह्यस् तेषां तथावरः । (४२।१)

putrā vivasvataḥ sarve mahyas teṣāṃ tathāvaraḥ |

42.2४२.२

देवभ्राट् तनयस् तस्य तस्मात् सुभ्राड् इति स्मृतः ॥ (४२।२)

devabhrāṭ tanayas tasya tasmāt subhrāḍ iti smṛtaḥ ||

43.1४३.१

सुभ्राजस् तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः । (४३।१)

subhrājas tu trayaḥ putrāḥ prajāvanto bahuśrutāḥ |

43.2४३.२

दशज्योतिः शतज्योतिः सहस्रज्योतिर् आत्मवान् ॥ (४३।२)

daśajyotiḥ śatajyotiḥ sahasrajyotir ātmavān ||

44.1४४.१

दश पुत्रसहस्राणि दशज्योतेर् महात्मनः । (४४।१)

daśa putrasahasrāṇi daśajyoter mahātmanaḥ |

44.2४४.२

ततो दशगुणाश्चान्ये शतज्योतेर् इहात्मजाः ॥ (४४।२)

tato daśaguṇāścānye śatajyoter ihātmajāḥ ||

45.1४५.१

भूयस् ततो दशगुणाः सहस्रज्योतिषः सुताः । (४५।१)

bhūyas tato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ |

45.2४५.२

तेभ्यो ऽयं कुरुवंशश्च यदूनां भरतस्य च ॥ (४५।२)

tebhyo 'yaṃ kuruvaṃśaśca yadūnāṃ bharatasya ca ||

46.1४६.१

ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः । (४६।१)

yayātīkṣvākuvaṃśaśca rājarṣīṇāṃ ca sarvaśaḥ |

46.2४६.२

सम्भूता बहवो वंशा भूतसर्गाः सविस्तराः ॥ (४६।२)

sambhūtā bahavo vaṃśā bhūtasargāḥ savistarāḥ ||

47.1४७.१

भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् । (४७।१)

bhūtasthānāni sarvāṇi rahasyaṃ trividhaṃ ca yat |

47.2४७.२

वेदयोगं सविज्ञानं धर्मो ऽर्थः काम एव च ॥ (४७।२)

vedayogaṃ savijñānaṃ dharmo 'rthaḥ kāma eva ca ||

48.1४८.१

धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च । (४८।१)

dharmakāmārthaśāstrāṇi śāstrāṇi vividhāni ca |

48.2४८.२

लोकयात्राविधानं च सम्भूतं दृष्टवान् ऋषिः । (४८।२)

lokayātrāvidhānaṃ ca sambhūtaṃ dṛṣṭavān ṛṣiḥ |

48.3४८.३

नीतिर् भरतवंशस्य विस्तरश्चैव सर्वशः ॥ (४८।३)

nītir bharatavaṃśasya vistaraścaiva sarvaśaḥ ||

49.1४९.१

इतिहासाः सवैयाख्या विविधाः श्रुतयो ऽपि च । (४९।१)

itihāsāḥ savaiyākhyā vividhāḥ śrutayo 'pi ca |

49.2४९.२

इह सर्वम् अनुक्रान्तम् उक्तं ग्रन्थस्य लक्षणम् । (४९।२)

iha sarvam anukrāntam uktaṃ granthasya lakṣaṇam |

49.3४९.३

संक्षेपेणेतिहासस्य ततो वक्ष्यामि विस्तरम् ॥ (४९।३)

saṃkṣepeṇetihāsasya tato vakṣyāmi vistaram ||

50.1५०.१

विस्तीर्यैतन् महज्ज्ञानम् ऋषिः संक्षेपम् अब्रवीत् । (५०।१)

vistīryaitan mahajjñānam ṛṣiḥ saṃkṣepam abravīt |

50.2५०.२

इष्टं हि विदुषां लोके समासव्यासधारणम् ॥ (५०।२)

iṣṭaṃ hi viduṣāṃ loke samāsavyāsadhāraṇam ||

51.1५१.१

मन्वादि भारतं केचिद् आस्तीकादि तथापरे । (५१।१)

manvādi bhārataṃ kecid āstīkādi tathāpare |

51.2५१.२

तथोपरिचराद्यन्ये विप्राः सम्यग् अधीयते ॥ (५१।२)

tathoparicarādyanye viprāḥ samyag adhīyate ||

52.1५२.१

विविधं संहिताज्ञानं दीपयन्ति मनीषिणः । (५२।१)

vividhaṃ saṃhitājñānaṃ dīpayanti manīṣiṇaḥ |

52.2५२.२

व्याख्यातुं कुशलाः केचिद् ग्रन्थं धारयितुं परे ॥ (५२।२)

vyākhyātuṃ kuśalāḥ kecid granthaṃ dhārayituṃ pare ||

53.1५३.१

तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् । (५३।१)

tapasā brahmacaryeṇa vyasya vedaṃ sanātanam |

53.2५३.२

इतिहासम् इमं चक्रे पुण्यं सत्यवतीसुतः ॥ (५३।२)

itihāsam imaṃ cakre puṇyaṃ satyavatīsutaḥ ||

54.1५४.१

पराशरात्मजो विद्वान् ब्रह्मर्षिः संशितव्रतः । (५४।१)

parāśarātmajo vidvān brahmarṣiḥ saṃśitavrataḥ |

54.2५४.२

कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । (५४।२)

kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum |

54.3५४.३

को ह्यन्यः पुण्डरीकाक्षान् महाभारतकृद् भवेत् । (५४।३)

ko hyanyaḥ puṇḍarīkākṣān mahābhāratakṛd bhavet |

54.4५४.४

भाति सर्वेषु वेदेषु रतिः सर्वेषु जन्तुषु । (५४।४)

bhāti sarveṣu vedeṣu ratiḥ sarveṣu jantuṣu |

54.5५४.५

तरणं सर्वलोकानां तस्माद् भारतम् उच्यते । (५४।५)

taraṇaṃ sarvalokānāṃ tasmād bhāratam ucyate |

54.6५४.६

मातुर् नियोगाद् धर्मात्मा गाङ्गेयस्य च धीमतः ॥ (५४।६)

mātur niyogād dharmātmā gāṅgeyasya ca dhīmataḥ ||

55.1५५.१

क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा । (५५।१)

kṣetre vicitravīryasya kṛṣṇadvaipāyanaḥ purā |

55.2५५.२

त्रीन् अग्नीन् इव कौरव्याञ्जनयामास वीर्यवान् ॥ (५५।२)

trīn agnīn iva kauravyāñjanayāmāsa vīryavān ||

56.1५६.१

उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरम् एव च । (५६।१)

utpādya dhṛtarāṣṭraṃ ca pāṇḍuṃ viduram eva ca |

56.2५६.२

जगाम तपसे धीमान् पुनर् एवाश्रमं प्रति ॥ (५६।२)

jagāma tapase dhīmān punar evāśramaṃ prati ||

57.1५७.१

तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् । (५७।१)

teṣu jāteṣu vṛddheṣu gateṣu paramāṃ gatim |

57.2५७.२

एवं वै संग्रहाध्यायः पूर्वम् एव महर्षिणा । (५७।२)

evaṃ vai saṃgrahādhyāyaḥ pūrvam eva maharṣiṇā |

57.3५७.३

क्रमणप्रस्तरैर् युक्तः कथंचिद् अप्यतीव हि । (५७।३)

kramaṇaprastarair yuktaḥ kathaṃcid apyatīva hi |

57.4५७.४

एतदर्थं च विहितः संग्रहो ऽयं यथाश्रुतः । (५७।४)

etadarthaṃ ca vihitaḥ saṃgraho 'yaṃ yathāśrutaḥ |

57.5५७.५

तच्छ्रुत्वा सर्वम् आख्यातं लोके ज्ञास्यन्ति मानवाः । (५७।५)

tacchrutvā sarvam ākhyātaṃ loke jñāsyanti mānavāḥ |

57.6५७.६

अब्रवीद् भारतं लोके मानुषे ऽस्मिन् महान् ऋषिः ॥ (५७।६)

abravīd bhārataṃ loke mānuṣe 'smin mahān ṛṣiḥ ||

58.1५८.१

जनमेजयेन पृष्टः सन् ब्राह्मणैश्च सहस्रशः । (५८।१)

janamejayena pṛṣṭaḥ san brāhmaṇaiśca sahasraśaḥ |

58.2५८.२

शशास शिष्यम् आसीनं वैशम्पायनम् अन्तिके ॥ (५८।२)

śaśāsa śiṣyam āsīnaṃ vaiśampāyanam antike ||

59.1५९.१

स सदस्यैः सहासीनः श्रावयामास भारतम् । (५९।१)

sa sadasyaiḥ sahāsīnaḥ śrāvayāmāsa bhāratam |

59.2५९.२

कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥ (५९।२)

karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ ||

60.1६०.१

विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम् । (६०।१)

vistaraṃ kuruvaṃśasya gāndhāryā dharmaśīlatām |

60.2६०.२

क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग् द्वैपायनो ऽब्रवीत् ॥ (६०।२)

kṣattuḥ prajñāṃ dhṛtiṃ kuntyāḥ samyag dvaipāyano 'bravīt ||

61.1६१.१

वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् । (६१।१)

vāsudevasya māhātmyaṃ pāṇḍavānāṃ ca satyatām |

61.2६१.२

दुर्वृत्तं धार्तराष्ट्राणाम् उक्तवान् भगवान् ऋषिः । (६१।२)

durvṛttaṃ dhārtarāṣṭrāṇām uktavān bhagavān ṛṣiḥ |

61.3६१.३

इदं शतसहस्राख्यं श्लोकानां पुण्यकर्मणाम् । (६१।३)

idaṃ śatasahasrākhyaṃ ślokānāṃ puṇyakarmaṇām |

61.4६१.४

उपाख्यानैः सह ज्ञेयं श्राव्यं भारतम् उत्तमम् ॥ (६१।४)

upākhyānaiḥ saha jñeyaṃ śrāvyaṃ bhāratam uttamam ||

62.1६२.१

चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् । (६२।१)

caturviṃśatisāhasrīṃ cakre bhāratasaṃhitām |

62.2६२.२

उपाख्यानैर् विना तावद् भारतं प्रोच्यते बुधैः ॥ (६२।२)

upākhyānair vinā tāvad bhārataṃ procyate budhaiḥ ||

63.1६३.१

ततो ऽध्यर्धशतं भूयः संक्षेपं कृतवान् ऋषिः । (६३।१)

tato 'dhyardhaśataṃ bhūyaḥ saṃkṣepaṃ kṛtavān ṛṣiḥ |

63.2६३.२

अनुक्रमणिम् अध्यायं वृत्तान्तानां सपर्वणाम् । (६३।२)

anukramaṇim adhyāyaṃ vṛttāntānāṃ saparvaṇām |

63.3६३.३

सूतः । (६३।३)

sūtaḥ |

63.4६३.४

तस्याख्यानवरिष्ठस्य कृत्वा द्वैपायनः प्रभुः । (६३।४)

tasyākhyānavariṣṭhasya kṛtvā dvaipāyanaḥ prabhuḥ |

63.5६३.५

कथम् अध्यापयानीह शिष्यान् इत्थम् अचिन्तयत् । (६३।५)

katham adhyāpayānīha śiṣyān ittham acintayat |

63.6६३.६

तस्य चिन्तयतश्चापि ऋषेर् द्वैपायनस्य च । (६३।६)

tasya cintayataścāpi ṛṣer dvaipāyanasya ca |

63.7६३.७

स्मृत्वाजगाम भगवान् ब्रह्मा लोकगुरुः स्वयम् । (६३।७)

smṛtvājagāma bhagavān brahmā lokaguruḥ svayam |

63.8६३.८

प्रियार्थं महर्षेश् चापि लोकानां हितकाम्यया । (६३।८)

priyārthaṃ maharṣeś cāpi lokānāṃ hitakāmyayā |

63.9६३.९

तं दृष्ट्वा विस्मितो भूत्वा प्राञ्जलिः प्रणतः स्थितः । (६३।९)

taṃ dṛṣṭvā vismito bhūtvā prāñjaliḥ praṇataḥ sthitaḥ |

63.10६३.१०

आसनं कल्पयामास सर्वदेवगणैर् युतम् । (६३।१०)

āsanaṃ kalpayāmāsa sarvadevagaṇair yutam |

63.11६३.११

हिरण्यगर्भम् आसीनं तस्मिंस् तु परमासने । (६३।११)

hiraṇyagarbham āsīnaṃ tasmiṃs tu paramāsane |

63.12६३.१२

परिवृत्यासनाभ्याशे वासवेयः स्थितो नतः । (६३।१२)

parivṛtyāsanābhyāśe vāsaveyaḥ sthito nataḥ |

63.13६३.१३

अनुज्ञातो ऽथ कृष्णस् तु ब्रह्मणा परमेष्ठिना । (६३।१३)

anujñāto 'tha kṛṣṇas tu brahmaṇā parameṣṭhinā |

63.14६३.१४

निषसादासनाभ्याशे प्रीयमाणः सुविस्मितः । (६३।१४)

niṣasādāsanābhyāśe prīyamāṇaḥ suvismitaḥ |

63.15६३.१५

उवाच स महातेजा ब्रह्माणं परमेष्ठिनम् । (६३।१५)

uvāca sa mahātejā brahmāṇaṃ parameṣṭhinam |

63.16६३.१६

कृतं मयेदं भगवन् काव्यं परमपूजितम् । (६३।१६)

kṛtaṃ mayedaṃ bhagavan kāvyaṃ paramapūjitam |

63.17६३.१७

ब्रह्मन् वेदरहस्यं च यच्चान्यत् ख्यापितं मया । (६३।१७)

brahman vedarahasyaṃ ca yaccānyat khyāpitaṃ mayā |

63.18६३.१८

साङ्गोपनिषदानां च वेदानां विस्तरक्रिया । (६३।१८)

sāṅgopaniṣadānāṃ ca vedānāṃ vistarakriyā |

63.19६३.१९

इतिहासपुराणानाम् उन्मेषं निमिषं च यत् । (६३।१९)

itihāsapurāṇānām unmeṣaṃ nimiṣaṃ ca yat |

63.20६३.२०

भूतं भव्यं भविष्यच्च त्रिविधं कालसंज्ञितम् । (६३।२०)

bhūtaṃ bhavyaṃ bhaviṣyacca trividhaṃ kālasaṃjñitam |

63.21६३.२१

जरामृत्युभयव्याधिभावाभावविनिश्चयम् । (६३।२१)

jarāmṛtyubhayavyādhibhāvābhāvaviniścayam |

63.22६३.२२

विविधस्य च धर्मस्य ह्याश्रमाणां च लक्षणम् । (६३।२२)

vividhasya ca dharmasya hyāśramāṇāṃ ca lakṣaṇam |

63.23६३.२३

चातुर्वर्ण्यविधानं च पुराणार्थं च कृत्स्नशः । (६३।२३)

cāturvarṇyavidhānaṃ ca purāṇārthaṃ ca kṛtsnaśaḥ |

63.24६३.२४

तपसो ब्रह्मचर्यस्य पृथिव्याश्चन्द्रसूर्ययोः । (६३।२४)

tapaso brahmacaryasya pṛthivyāścandrasūryayoḥ |

63.25६३.२५

ग्रहनक्षत्रताराणां प्रमाणं च युगैः सह । (६३।२५)

grahanakṣatratārāṇāṃ pramāṇaṃ ca yugaiḥ saha |

63.26६३.२६

ऋचो यजूंषि सामानि वेदाध्यात्मं तथैव च । (६३।२६)

ṛco yajūṃṣi sāmāni vedādhyātmaṃ tathaiva ca |

63.27६३.२७

न्यायः शिक्षा चिकित्सा च ज्ञानं पाशुपतं तथा । (६३।२७)

nyāyaḥ śikṣā cikitsā ca jñānaṃ pāśupataṃ tathā |

63.28६३.२८

इति नैकाश्रयं जन्म दिव्यमानुषसंश्रितम् । (६३।२८)

iti naikāśrayaṃ janma divyamānuṣasaṃśritam |

63.29६३.२९

तीर्थानां चैव पुण्यानां देशानां चैव कीर्तनम् । (६३।२९)

tīrthānāṃ caiva puṇyānāṃ deśānāṃ caiva kīrtanam |

63.30६३.३०

नदीनां पर्वतानां च वनानां सागरस्य च । (६३।३०)

nadīnāṃ parvatānāṃ ca vanānāṃ sāgarasya ca |

63.31६३.३१

पुराणां चैव दिव्यानां कल्पानां युद्धकौशलम् । (६३।३१)

purāṇāṃ caiva divyānāṃ kalpānāṃ yuddhakauśalam |

63.32६३.३२

वाक्यजातिविशेषांश्च लोकयात्राक्रमश्च यः । (६३।३२)

vākyajātiviśeṣāṃśca lokayātrākramaśca yaḥ |

63.33६३.३३

यच्चापि सर्वगं वस्तु तत् प्रभो क्षन्तुम् अर्हसि । (६३।३३)

yaccāpi sarvagaṃ vastu tat prabho kṣantum arhasi |

63.34६३.३४

तपोविशिष्टाद् अपि वै वसिष्ठान् मुनिपुंगवात् । (६३।३४)

tapoviśiṣṭād api vai vasiṣṭhān munipuṃgavāt |

63.35६३.३५

मन्ये श्रेष्ठतमं त्वाद्य रहस्यज्ञानवेदनात् । (६३।३५)

manye śreṣṭhatamaṃ tvādya rahasyajñānavedanāt |

63.36६३.३६

जन्मप्रभृति सत्यां ते विद्म गां ब्रह्मवादिनीम् । (६३।३६)

janmaprabhṛti satyāṃ te vidma gāṃ brahmavādinīm |

63.37६३.३७

त्वया च काव्यम् इत्युक्तं तस्मात् काव्यं भविष्यति । (६३।३७)

tvayā ca kāvyam ityuktaṃ tasmāt kāvyaṃ bhaviṣyati |

63.38६३.३८

अस्य काव्यस्य कवयो न समर्था विशेषणे । (६३।३८)

asya kāvyasya kavayo na samarthā viśeṣaṇe |

63.39६३.३९

विशेषणे गृहस्थस्य शेषास् त्रय इवाश्रमाः । (६३।३९)

viśeṣaṇe gṛhasthasya śeṣās traya ivāśramāḥ |

63.40६३.४०

जडान्धबधिरोन्मत्तं तमोभूतं जगद् भवेत् । (६३।४०)

jaḍāndhabadhironmattaṃ tamobhūtaṃ jagad bhavet |

63.41६३.४१

यदि ज्ञानहुताशेन त्वया नोज्ज्वलितं भवेत् । (६३।४१)

yadi jñānahutāśena tvayā nojjvalitaṃ bhavet |

63.42६३.४२

तमसान्धस्य लोकस्य वेष्टितस्य स्वकर्मभिः । (६३।४२)

tamasāndhasya lokasya veṣṭitasya svakarmabhiḥ |

63.43६३.४३

ज्ञानाञ्जनशलाकाभिर् बुद्धिनेत्रोत्सवः कृतः । (६३।४३)

jñānāñjanaśalākābhir buddhinetrotsavaḥ kṛtaḥ |

63.44६३.४४

धर्मार्थकाममोक्षार्थैः समासव्यासकीर्तनैः । (६३।४४)

dharmārthakāmamokṣārthaiḥ samāsavyāsakīrtanaiḥ |

63.45६३.४५

त्वया भारतसूर्येण नृणां विनिहतं तमः । (६३।४५)

tvayā bhāratasūryeṇa nṛṇāṃ vinihataṃ tamaḥ |

63.46६३.४६

पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाप्रकाशिना । (६३।४६)

purāṇapūrṇacandreṇa śrutijyotsnāprakāśinā |

63.47६३.४७

नृणां कुमुदसौम्यानां कृतं बुद्धिप्रबोधनम् । (६३।४७)

nṛṇāṃ kumudasaumyānāṃ kṛtaṃ buddhiprabodhanam |

63.48६३.४८

इतिहासप्रदीपेन मोहावरणघातिना । (६३।४८)

itihāsapradīpena mohāvaraṇaghātinā |

63.49६३.४९

लोकगर्भगृहं कृत्स्नं यथावत् संप्रकाशितम् । (६३।४९)

lokagarbhagṛhaṃ kṛtsnaṃ yathāvat saṃprakāśitam |

63.50६३.५०

संग्रहाध्यायबीजो वै पौलोमास्तीकमूलवान् । (६३।५०)

saṃgrahādhyāyabījo vai paulomāstīkamūlavān |

63.51६३.५१

सम्भवस्कन्धविस्तारः सभारण्यविटङ्कवान् । (६३।५१)

sambhavaskandhavistāraḥ sabhāraṇyaviṭaṅkavān |

63.52६३.५२

अरणीपर्वरूपाढ्यो विराटोद्योगसारवान् । (६३।५२)

araṇīparvarūpāḍhyo virāṭodyogasāravān |

63.53६३.५३

भीष्मपर्वमहाशाखो द्रोणपर्वपलाशवान् । (६३।५३)

bhīṣmaparvamahāśākho droṇaparvapalāśavān |

63.54६३.५४

कर्णपर्वचितैः पुष्पैः शल्यपर्वसुगन्धिभिः । (६३।५४)

karṇaparvacitaiḥ puṣpaiḥ śalyaparvasugandhibhiḥ |

63.55६३.५५

स्त्रीपर्वैषीकविश्रामः शान्तिपर्वबृहत्फलः । (६३।५५)

strīparvaiṣīkaviśrāmaḥ śāntiparvabṛhatphalaḥ |

63.56६३.५६

अश्वमेधामृतरसस् त्वाश्रमस्थानसंश्रयः । (६३।५६)

aśvamedhāmṛtarasas tvāśramasthānasaṃśrayaḥ |

63.57६३.५७

मौसलश्रुतिसंक्षेपः शिष्टद्विजनिषेवितः । (६३।५७)

mausalaśrutisaṃkṣepaḥ śiṣṭadvijaniṣevitaḥ |

63.58६३.५८

सर्वेषां कविमुख्यानाम् उपजीव्यो भविष्यति । (६३।५८)

sarveṣāṃ kavimukhyānām upajīvyo bhaviṣyati |

63.59६३.५९

पर्जन्य इव भूतानाम् अक्षयो भारतद्रुमः । (६३।५९)

parjanya iva bhūtānām akṣayo bhāratadrumaḥ |

63.60६३.६०

एवम् आभाष्य तं ब्रह्मा जगाम स्वं निवेशनम् । (६३।६०)

evam ābhāṣya taṃ brahmā jagāma svaṃ niveśanam |

63.61६३.६१

भगवान् स जगत्स्रष्टा ऋषिदेवगणैः सह । (६३।६१)

bhagavān sa jagatsraṣṭā ṛṣidevagaṇaiḥ saha |

63.62६३.६२

तस्य वृक्षस्य वक्ष्यामि शश्वत् पुष्पफलोदयम् । (६३।६२)

tasya vṛkṣasya vakṣyāmi śaśvat puṣpaphalodayam |

63.63६३.६३

स्वादुमेध्यरसोपेतम् अच्छेद्यम् अमरैर् अपि ॥ (६३।६३)

svādumedhyarasopetam acchedyam amarair api ||

64.1६४.१

इदं द्वैपायनः पूर्वं पुत्रम् अध्यापयच्छुकम् । (६४।१)

idaṃ dvaipāyanaḥ pūrvaṃ putram adhyāpayacchukam |

64.2६४.२

ततो ऽन्येभ्यो ऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः । (६४।२)

tato 'nyebhyo 'nurūpebhyaḥ śiṣyebhyaḥ pradadau prabhuḥ |

64.3६४.३

संहितास् तैः पृथक्त्वेन भारतस्य प्रकीर्तिताः । (६४।३)

saṃhitās taiḥ pṛthaktvena bhāratasya prakīrtitāḥ |

64.4६४.४

षष्टिं शतसहस्राणि चकारान्यां स संहिताम् । (६४।४)

ṣaṣṭiṃ śatasahasrāṇi cakārānyāṃ sa saṃhitām |

64.5६४.५

त्रिंशच्छतसहस्रं च देवलोके प्रतिष्ठितम् । (६४।५)

triṃśacchatasahasraṃ ca devaloke pratiṣṭhitam |

64.6६४.६

पित्र्ये पञ्चदश प्रोक्तं रक्षोयक्षे चतुर्दश । (६४।६)

pitrye pañcadaśa proktaṃ rakṣoyakṣe caturdaśa |

64.7६४.७

एकं शतसहस्रं तु मानुषेषु प्रतिष्ठितम् ॥ (६४।७)

ekaṃ śatasahasraṃ tu mānuṣeṣu pratiṣṭhitam ||

65.1६५.१

नारदो ऽश्रावयद् देवान् असितो देवलः पितॄन् । (६५।१)

nārado 'śrāvayad devān asito devalaḥ pitṝn |

65.2६५.२

गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः । (६५।२)

gandharvayakṣarakṣāṃsi śrāvayāmāsa vai śukaḥ |

65.3६५.३

अस्मिंस् तु मानुषे लोके वैशम्पायन उक्तवान् । (६५।३)

asmiṃs tu mānuṣe loke vaiśampāyana uktavān |

65.4६५.४

शिष्यो व्यासस्य धर्मात्मा सर्ववेदविदां वरः । (६५।४)

śiṣyo vyāsasya dharmātmā sarvavedavidāṃ varaḥ |

65.5६५.५

एकं शतसहस्रं तु मयोक्तं वै निबोधत । (६५।५)

ekaṃ śatasahasraṃ tu mayoktaṃ vai nibodhata |

65.6६५.६

वैशम्पायनविप्रर्षिः श्रावयामास पार्थिवम् । (६५।६)

vaiśampāyanaviprarṣiḥ śrāvayāmāsa pārthivam |

65.7६५.७

पारिक्षितं महाबाहुं नाम्ना तु जनमेजयम् ॥ (६५।७)

pārikṣitaṃ mahābāhuṃ nāmnā tu janamejayam ||

66.1६६.१

दुर्योधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस् तस्य शाखाः । (६६।१)

duryodhano manyumayo mahādrumaḥ skandhaḥ karṇaḥ śakunis tasya śākhāḥ |

66.2६६.२

दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रो ऽमनीषी ॥ (६६।२)

duḥśāsanaḥ puṣpaphale samṛddhe mūlaṃ rājā dhṛtarāṣṭro 'manīṣī ||

67.1६७.१

युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धो ऽर्जुनो भीमसेनो ऽस्य शाखाः । (६७।१)

yudhiṣṭhiro dharmamayo mahādrumaḥ skandho 'rjuno bhīmaseno 'sya śākhāḥ |

67.2६७.२

माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥ (६७।२)

mādrīsutau puṣpaphale samṛddhe mūlaṃ kṛṣṇo brahma ca brāhmaṇāśca ||

68.1६८.१

पाण्डुर् जित्वा बहून् देशान् युधा विक्रमणेन च । (६८।१)

pāṇḍur jitvā bahūn deśān yudhā vikramaṇena ca |

68.2६८.२

अरण्ये मृगयाशीलो न्यवसत् सजनस् तदा ॥ (६८।२)

araṇye mṛgayāśīlo nyavasat sajanas tadā ||

69.1६९.१

मृगव्यवायनिधने कृच्छ्रां प्राप स आपदम् । (६९।१)

mṛgavyavāyanidhane kṛcchrāṃ prāpa sa āpadam |

69.2६९.२

जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः ॥ (६९।२)

janmaprabhṛti pārthānāṃ tatrācāravidhikramaḥ ||

70.1७०.१

मात्रोर् अभ्युपपत्तिश्च धर्मोपनिषदं प्रति । (७०।१)

mātror abhyupapattiśca dharmopaniṣadaṃ prati |

70.2७०.२

धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः । (७०।२)

dharmasya vāyoḥ śakrasya devayośca tathāśvinoḥ |

70.3७०.३

ततो धर्मोपनिषदं भूत्वा भर्तुः प्रिया पृथा । (७०।३)

tato dharmopaniṣadaṃ bhūtvā bhartuḥ priyā pṛthā |

70.4७०.४

धर्मानिलेन्द्रांस् ताभिः साजुहाव सुतवाञ्छया । (७०।४)

dharmānilendrāṃs tābhiḥ sājuhāva sutavāñchayā |

70.5७०.५

तद्दत्तोपनिषन् माद्री चाश्विनावाजुहाव च । (७०।५)

taddattopaniṣan mādrī cāśvināvājuhāva ca |

70.6७०.६

जाताः पार्थास् ततः सर्वे कुन्त्या माद्र्याश्च मन्त्रतः । (७०।६)

jātāḥ pārthās tataḥ sarve kuntyā mādryāśca mantrataḥ |

70.7७०.७

तेषु जातेषु सर्वेषु पाण्डवेषु महात्मसु । (७०।७)

teṣu jāteṣu sarveṣu pāṇḍaveṣu mahātmasu |

70.8७०.८

माद्र्या तु सह संगम्य ऋषिशापप्रभावतः । (७०।८)

mādryā tu saha saṃgamya ṛṣiśāpaprabhāvataḥ |

70.9७०.९

मृतः पाण्डुर् महापुण्ये शतशृङ्गे महागिरौ ॥ (७०।९)

mṛtaḥ pāṇḍur mahāpuṇye śataśṛṅge mahāgirau ||

71.1७१.१

तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः । (७१।१)

tāpasaiḥ saha saṃvṛddhā mātṛbhyāṃ parirakṣitāḥ |

71.2७१.२

मेध्यारण्येषु पुण्येषु महताम् आश्रमेषु च ॥ (७१।२)

medhyāraṇyeṣu puṇyeṣu mahatām āśrameṣu ca ||

72.1७२.१

ऋषिभिश्च तदानीता धार्तराष्ट्रान् प्रति स्वयम् । (७२।१)

ṛṣibhiśca tadānītā dhārtarāṣṭrān prati svayam |

72.2७२.२

शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ॥ (७२।२)

śiśavaścābhirūpāśca jaṭilā brahmacāriṇaḥ ||

73.1७३.१

पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः । (७३।१)

putrāśca bhrātaraśceme śiṣyāśca suhṛdaśca vaḥ |

73.2७३.२

पाण्डवा एत इत्युक्त्वा मुनयो ऽन्तर्हितास् ततः ॥ (७३।२)

pāṇḍavā eta ityuktvā munayo 'ntarhitās tataḥ ||

74.1७४.१

तांस् तैर् निवेदितान् दृष्ट्वा पाण्डवान् कौरवास् तदा । (७४।१)

tāṃs tair niveditān dṛṣṭvā pāṇḍavān kauravās tadā |

74.2७४.२

शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर् भृशम् ॥ (७४।२)

śiṣṭāśca varṇāḥ paurā ye te harṣāccukruśur bhṛśam ||

75.1७५.१

आहुः केचिन्न तस्यैते तस्यैत इति चापरे । (७५।१)

āhuḥ kecinna tasyaite tasyaita iti cāpare |

75.2७५.२

यदा चिरमृतः पाण्डुः कथं तस्येति चापरे ॥ (७५।२)

yadā ciramṛtaḥ pāṇḍuḥ kathaṃ tasyeti cāpare ||

76.1७६.१

स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम संततिम् । (७६।१)

svāgataṃ sarvathā diṣṭyā pāṇḍoḥ paśyāma saṃtatim |

76.2७६.२

उच्यतां स्वागतम् इति वाचो ऽश्रूयन्त सर्वशः ॥ (७६।२)

ucyatāṃ svāgatam iti vāco 'śrūyanta sarvaśaḥ ||

77.1७७.१

तस्मिन्न् उपरते शब्दे दिशः सर्वा विनादयन् । (७७।१)

tasminn uparate śabde diśaḥ sarvā vinādayan |

77.2७७.२

अन्तर्हितानां भूतानां निस्वनस् तुमुलो ऽभवत् ॥ (७७।२)

antarhitānāṃ bhūtānāṃ nisvanas tumulo 'bhavat ||

78.1७८.१

पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः । (७८।१)

puṣpavṛṣṭiḥ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ |

78.2७८.२

आसन् प्रवेशे पार्थानां तद् अद्भुतम् इवाभवत् ॥ (७८।२)

āsan praveśe pārthānāṃ tad adbhutam ivābhavat ||

79.1७९.१

तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसम्भवः । (७९।१)

tatprītyā caiva sarveṣāṃ paurāṇāṃ harṣasambhavaḥ |

79.2७९.२

शब्द आसीन् महांस् तत्र दिवस्पृक् कीर्तिवर्धनः ॥ (७९।२)

śabda āsīn mahāṃs tatra divaspṛk kīrtivardhanaḥ ||

80.1८०.१

ते ऽप्यधीत्याखिलान् वेदाञ्शास्त्राणि विविधानि च । (८०।१)

te 'pyadhītyākhilān vedāñśāstrāṇi vividhāni ca |

80.2८०.२

न्यवसन् पाण्डवास् तत्र पूजिता अकुतोभयाः ॥ (८०।२)

nyavasan pāṇḍavās tatra pūjitā akutobhayāḥ ||

81.1८१.१

युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयो ऽभवन् । (८१।१)

yudhiṣṭhirasya śaucena prītāḥ prakṛtayo 'bhavan |

81.2८१.२

धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ॥ (८१।२)

dhṛtyā ca bhīmasenasya vikrameṇārjunasya ca ||

82.1८२.१

गुरुशुश्रूषया कुन्त्या यमयोर् विनयेन च । (८२।१)

guruśuśrūṣayā kuntyā yamayor vinayena ca |

82.2८२.२

तुतोष लोकः सकलस् तेषां शौर्यगुणेन च ॥ (८२।२)

tutoṣa lokaḥ sakalas teṣāṃ śauryaguṇena ca ||

83.1८३.१

समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् । (८३।१)

samavāye tato rājñāṃ kanyāṃ bhartṛsvayaṃvarām |

83.2८३.२

प्राप्तवान् अर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ॥ (८३।२)

prāptavān arjunaḥ kṛṣṇāṃ kṛtvā karma suduṣkaram ||

84.1८४.१

ततः प्रभृति लोके ऽस्मिन् पूज्यः सर्वधनुष्मताम् । (८४।१)

tataḥ prabhṛti loke 'smin pūjyaḥ sarvadhanuṣmatām |

84.2८४.२

आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ॥ (८४।२)

āditya iva duṣprekṣyaḥ samareṣvapi cābhavat ||

85.1८५.१

स सर्वान् पार्थिवाञ् जित्वा सर्वांश्च महतो गणान् । (८५।१)

sa sarvān pārthivāñ jitvā sarvāṃśca mahato gaṇān |

85.2८५.२

आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् ॥ (८५।२)

ājahārārjuno rājñe rājasūyaṃ mahākratum ||

86.1८६.१

अन्नवान् दक्षिणावांश्च सर्वैः समुदितो गुणैः । (८६।१)

annavān dakṣiṇāvāṃśca sarvaiḥ samudito guṇaiḥ |

86.2८६.२

युधिष्ठिरेण सम्प्राप्तो राजसूयो महाक्रतुः ॥ (८६।२)

yudhiṣṭhireṇa samprāpto rājasūyo mahākratuḥ ||

87.1८७.१

सुनयाद् वासुदेवस्य भीमार्जुनबलेन च । (८७।१)

sunayād vāsudevasya bhīmārjunabalena ca |

87.2८७.२

घातयित्वा जरासंधं चैद्यं च बलगर्वितम् ॥ (८७।२)

ghātayitvā jarāsaṃdhaṃ caidyaṃ ca balagarvitam ||

88.1८८.१

दुर्योधनम् उपागच्छन्न् अर्हणानि ततस् ततः । (८८।१)

duryodhanam upāgacchann arhaṇāni tatas tataḥ |

88.2८८.२

मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च । (८८।२)

maṇikāñcanaratnāni gohastyaśvadhanāni ca |

88.3८८.३

विचित्राणि च वासांसि प्रावारावरणानि च । (८८।३)

vicitrāṇi ca vāsāṃsi prāvārāvaraṇāni ca |

88.4८८.४

कम्बलाजिनरत्नानि राङ्कवास्तरणानि च ॥ (८८।४)

kambalājinaratnāni rāṅkavāstaraṇāni ca ||

89.1८९.१

समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् । (८९।१)

samṛddhāṃ tāṃ tathā dṛṣṭvā pāṇḍavānāṃ tadā śriyam |

89.2८९.२

ईर्ष्यासमुत्थः सुमहांस् तस्य मन्युर् अजायत ॥ (८९।२)

īrṣyāsamutthaḥ sumahāṃs tasya manyur ajāyata ||

90.1९०.१

विमानप्रतिमां चापि मयेन सुकृतां सभाम् । (९०।१)

vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām |

90.2९०.२

पाण्डवानाम् उपहृतां स दृष्ट्वा पर्यतप्यत ॥ (९०।२)

pāṇḍavānām upahṛtāṃ sa dṛṣṭvā paryatapyata ||

91.1९१.१

यत्रावहसितश्चासीत् प्रस्कन्दन्न् इव सम्भ्रमात् । (९१।१)

yatrāvahasitaścāsīt praskandann iva sambhramāt |

91.2९१.२

प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ॥ (९१।२)

pratyakṣaṃ vāsudevasya bhīmenānabhijātavat ||

92.1९२.१

स भोगान् विविधान् भुञ्जन् रत्नानि विविधानि च । (९२।१)

sa bhogān vividhān bhuñjan ratnāni vividhāni ca |

92.2९२.२

कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ॥ (९२।२)

kathito dhṛtarāṣṭrasya vivarṇo hariṇaḥ kṛśaḥ ||

93.1९३.१

अन्वजानात् ततो द्यूतं धृतराष्ट्रः सुतप्रियः । (९३।१)

anvajānāt tato dyūtaṃ dhṛtarāṣṭraḥ sutapriyaḥ |

93.2९३.२

तच्छ्रुत्वा वासुदेवस्य कोपः समभवन् महान् ॥ (९३।२)

tacchrutvā vāsudevasya kopaḥ samabhavan mahān ||

94.1९४.१

नातिप्रीतमनाश्चासीद् विवादांश्चान्वमोदत । (९४।१)

nātiprītamanāścāsīd vivādāṃścānvamodata |

94.2९४.२

द्यूतादीन् अनयान् घोरान् प्रवृद्धांश्चाप्युपैक्षत ॥ (९४।२)

dyūtādīn anayān ghorān pravṛddhāṃścāpyupaikṣata ||

95.1९५.१

निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम् । (९५।१)

nirasya viduraṃ droṇaṃ bhīṣmaṃ śāradvataṃ kṛpam |

95.2९५.२

विग्रहे तुमुले तस्मिन्न् अहन् क्षत्रं परस्परम् ॥ (९५।२)

vigrahe tumule tasminn ahan kṣatraṃ parasparam ||

96.1९६.१

जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहद् अप्रियम् । (९६।१)

jayatsu pāṇḍuputreṣu śrutvā sumahad apriyam |

96.2९६.२

दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस् तथा । (९६।२)

duryodhanamataṃ jñātvā karṇasya śakunes tathā |

96.3९६.३

धृतराष्ट्रश्चिरं ध्यात्वा संजयं वाक्यम् अब्रवीत् ॥ (९६।३)

dhṛtarāṣṭraściraṃ dhyātvā saṃjayaṃ vākyam abravīt ||

97.1९७.१

शृणु संजय मे सर्वं न मे ऽसूयितुम् अर्हसि । (९७।१)

śṛṇu saṃjaya me sarvaṃ na me 'sūyitum arhasi |

97.2९७.२

श्रुतवान् असि मेधावी बुद्धिमान् प्राज्ञसंमतः ॥ (९७।२)

śrutavān asi medhāvī buddhimān prājñasaṃmataḥ ||

98.1९८.१

न विग्रहे मम मतिर् न च प्रीये कुरुक्षये । (९८।१)

na vigrahe mama matir na ca prīye kurukṣaye |

98.2९८.२

न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च ॥ (९८।२)

na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca ||

99.1९९.१

वृद्धं माम् अभ्यसूयन्ति पुत्रा मन्युपरायणाः । (९९।१)

vṛddhaṃ mām abhyasūyanti putrā manyuparāyaṇāḥ |

99.2९९.२

अहं त्व् अचक्षुः कार्पण्यात् पुत्रप्रीत्या सहामि तत् । (९९।२)

ahaṃ tv acakṣuḥ kārpaṇyāt putraprītyā sahāmi tat |

99.3९९.३

मुह्यन्तं चानुमुह्यामि दुर्योधनम् अचेतनम् ॥ (९९।३)

muhyantaṃ cānumuhyāmi duryodhanam acetanam ||

100.1१००.१

राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः । (१००।१)

rājasūye śriyaṃ dṛṣṭvā pāṇḍavasya mahaujasaḥ |

100.2१००.२

तच्चावहसनं प्राप्य सभारोहणदर्शने ॥ (१००।२)

taccāvahasanaṃ prāpya sabhārohaṇadarśane ||

101.1१०१.१

अमर्षितः स्वयं जेतुम् अशक्तः पाण्डवान् रणे । (१०१।१)

amarṣitaḥ svayaṃ jetum aśaktaḥ pāṇḍavān raṇe |

101.2१०१.२

निरुत्साहश्च सम्प्राप्तुं श्रियम् अक्षत्रियो यथा । (१०१।२)

nirutsāhaśca samprāptuṃ śriyam akṣatriyo yathā |

101.3१०१.३

गान्धारराजसहितश्छद्मद्यूतम् अमन्त्रयत् ॥ (१०१।३)

gāndhārarājasahitaśchadmadyūtam amantrayat ||

102.1१०२.१

तत्र यद् यद् यथा ज्ञातं मया संजय तच्छृणु । (१०२।१)

tatra yad yad yathā jñātaṃ mayā saṃjaya tacchṛṇu |

102.2१०२.२

श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः । (१०२।२)

śrutvā hi mama vākyāni buddhyā yuktāni tattvataḥ |

102.3१०२.३

ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषम् इत्युत ॥ (१०२।३)

tato jñāsyasi māṃ saute prajñācakṣuṣam ityuta ||

103.1१०३.१

यदाश्रौषं धनुर् आयम्य चित्रं विद्धं लक्ष्यं पातितं वै पृथिव्याम् । (१०३।१)

yadāśrauṣaṃ dhanur āyamya citraṃ viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām |

103.2१०३.२

कृष्णां हृतां पश्यतां सर्वराज्ञां तदा नाशंसे विजयाय संजय ॥ (१०३।२)

kṛṣṇāṃ hṛtāṃ paśyatāṃ sarvarājñāṃ tadā nāśaṃse vijayāya saṃjaya ||

104.1१०४.१

यदाश्रौषं द्वारकायां सुभद्रां प्रसह्योढां माधवीम् अर्जुनेन । (१०४।१)

yadāśrauṣaṃ dvārakāyāṃ subhadrāṃ prasahyoḍhāṃ mādhavīm arjunena |

104.2१०४.२

इन्द्रप्रस्थं वृष्णिवीरौ च यातौ तदा नाशंसे विजयाय संजय ॥ (१०४।२)

indraprasthaṃ vṛṣṇivīrau ca yātau tadā nāśaṃse vijayāya saṃjaya ||

105.1१०५.१

यदाश्रौषं देवराजं प्रवृष्टं शरैर् दिव्यैर् वारितं चार्जुनेन । (१०५।१)

yadāśrauṣaṃ devarājaṃ pravṛṣṭaṃ śarair divyair vāritaṃ cārjunena |

105.2१०५.२

अग्निं तथा तर्पितं खाण्डवे च तदा नाशंसे विजयाय संजय । (१०५।२)

agniṃ tathā tarpitaṃ khāṇḍave ca tadā nāśaṃse vijayāya saṃjaya |

105.3१०५.३

यदाश्रौषं जातुषाद् वेश्मनस् तान् मुक्तान् पार्थान् पञ्च कुन्त्या समेतान् । (१०५।३)

yadāśrauṣaṃ jātuṣād veśmanas tān muktān pārthān pañca kuntyā sametān |

105.4१०५.४

युक्तं चैषां विदुरं स्वार्थसिद्ध्यै तदा नाशंसे विजयाय संजय । (१०५।४)

yuktaṃ caiṣāṃ viduraṃ svārthasiddhyai tadā nāśaṃse vijayāya saṃjaya |

105.5१०५.५

यदाश्रौषं द्रौपदीं रङ्गमध्ये लक्ष्यं भित्त्वा निर्जिताम् अर्जुनेन । (१०५।५)

yadāśrauṣaṃ draupadīṃ raṅgamadhye lakṣyaṃ bhittvā nirjitām arjunena |

105.6१०५.६

शूरान् पाञ्चालान् पाण्डवेयांश्च युक्तांस् तदा नाशंसे विजयाय संजय । (१०५।६)

śūrān pāñcālān pāṇḍaveyāṃśca yuktāṃs tadā nāśaṃse vijayāya saṃjaya |

105.7१०५.७

यदाश्रौषं मागधानां वरिष्ठं जरासंधं क्षत्रमध्ये ज्वलन्तम् । (१०५।७)

yadāśrauṣaṃ māgadhānāṃ variṣṭhaṃ jarāsaṃdhaṃ kṣatramadhye jvalantam |

105.8१०५.८

दोर्भ्यां हतं भीमसेनेन गत्वा तदा नाशंसे विजयाय संजय । (१०५।८)

dorbhyāṃ hataṃ bhīmasenena gatvā tadā nāśaṃse vijayāya saṃjaya |

105.9१०५.९

यदाश्रौषं दिग्जये पाण्डुपुत्रैर्वशीकृतान् भूमिपालान् प्रसह्य । (१०५।९)

yadāśrauṣaṃ digjaye pāṇḍuputrairvaśīkṛtān bhūmipālān prasahya |

105.10१०५.१०

महाक्रतुं राजसूयं कृतं च तदा नाशंसे विजयाय संजय । (१०५।१०)

mahākratuṃ rājasūyaṃ kṛtaṃ ca tadā nāśaṃse vijayāya saṃjaya |

105.11१०५.११

यदाश्रौषं सर्वविश्वस्य सारां प्रीत्या राज्ञे निर्मितां तां मयेन । (१०५।११)

yadāśrauṣaṃ sarvaviśvasya sārāṃ prītyā rājñe nirmitāṃ tāṃ mayena |

105.12१०५.१२

गदां चोग्रां भीमसेनाय दत्तां तदा नाशंसे विजयाय संजय ॥ (१०५।१२)

gadāṃ cogrāṃ bhīmasenāya dattāṃ tadā nāśaṃse vijayāya saṃjaya ||

106.1१०६.१

यदाश्रौषं हृतराज्यं युधिष्ठिरं पराजितं सौबलेनाक्षवत्याम् । (१०६।१)

yadāśrauṣaṃ hṛtarājyaṃ yudhiṣṭhiraṃ parājitaṃ saubalenākṣavatyām |

106.2१०६.२

अन्वागतं भ्रातृभिर् अप्रमेयैस् तदा नाशंसे विजयाय संजय ॥ (१०६।२)

anvāgataṃ bhrātṛbhir aprameyais tadā nāśaṃse vijayāya saṃjaya ||

107.1१०७.१

यदाश्रौषं द्रौपदीम् अश्रुकण्ठीं सभां नीतां दुःखिताम् एकवस्त्राम् । (१०७।१)

yadāśrauṣaṃ draupadīm aśrukaṇṭhīṃ sabhāṃ nītāṃ duḥkhitām ekavastrām |

107.2१०७.२

रजस्वलां नाथवतीम् अनाथवत् तदा नाशंसे विजयाय संजय । (१०७।२)

rajasvalāṃ nāthavatīm anāthavat tadā nāśaṃse vijayāya saṃjaya |

107.3१०७.३

यदाश्रौषं वाससां तत्र राशिं समाक्षिपत् कितवो मन्दबुद्धिः । (१०७।३)

yadāśrauṣaṃ vāsasāṃ tatra rāśiṃ samākṣipat kitavo mandabuddhiḥ |

107.4१०७.४

दुःशासनो गतवान् नैव चान्तं तदा नाशंसे विजयाय संजय ॥ (१०७।४)

duḥśāsano gatavān naiva cāntaṃ tadā nāśaṃse vijayāya saṃjaya ||

108.1१०८.१

यदाश्रौषं विविधास् तात चेष्टा धर्मात्मनां प्रस्थितानां वनाय । (१०८।१)

yadāśrauṣaṃ vividhās tāta ceṣṭā dharmātmanāṃ prasthitānāṃ vanāya |

108.2१०८.२

ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां तदा नाशंसे विजयाय संजय । (१०८।२)

jyeṣṭhaprītyā kliśyatāṃ pāṇḍavānāṃ tadā nāśaṃse vijayāya saṃjaya |

108.3१०८.३

यदाश्रौषं द्रौपदीं तां ब्रुवाणां प्रव्रज्यायाम् अश्रुकण्ठीं रुदन्तीम् । (१०८।३)

yadāśrauṣaṃ draupadīṃ tāṃ bruvāṇāṃ pravrajyāyām aśrukaṇṭhīṃ rudantīm |

108.4१०८.४

पत्यौ युक्तां नात्र वस्तुं हि धर्मस्तदा नाशंसे विजयाय संजय ॥ (१०८।४)

patyau yuktāṃ nātra vastuṃ hi dharmastadā nāśaṃse vijayāya saṃjaya ||

109.1१०९.१

यदाश्रौषं स्नातकानां सहस्रैर् अन्वागतं धर्मराजं वनस्थम् । (१०९।१)

yadāśrauṣaṃ snātakānāṃ sahasrair anvāgataṃ dharmarājaṃ vanastham |

109.2१०९.२

भिक्षाभुजां ब्राह्मणानां महात्मनां तदा नाशंसे विजयाय संजय । (१०९।२)

bhikṣābhujāṃ brāhmaṇānāṃ mahātmanāṃ tadā nāśaṃse vijayāya saṃjaya |

109.3१०९.३

यदाश्रौषं वनवासेषु पार्थान् समागतान् ऋषिमुख्यैः पुराणैः । (१०९।३)

yadāśrauṣaṃ vanavāseṣu pārthān samāgatān ṛṣimukhyaiḥ purāṇaiḥ |

109.4१०९.४

उपास्यमानान् सगणैर् जातु सर्वांस्तदा नाशंसे विजयाय संजय ॥ (१०९।४)

upāsyamānān sagaṇair jātu sarvāṃstadā nāśaṃse vijayāya saṃjaya ||

110.1११०.१

यदाश्रौषम् अर्जुनो देवदेवं किरातरूपं त्र्यम्बकं तोष्य युद्धे । (११०।१)

yadāśrauṣam arjuno devadevaṃ kirātarūpaṃ tryambakaṃ toṣya yuddhe |

110.2११०.२

अवाप तत् पाशुपतं महास्त्रं तदा नाशंसे विजयाय संजय ॥ (११०।२)

avāpa tat pāśupataṃ mahāstraṃ tadā nāśaṃse vijayāya saṃjaya ||

111.1१११.१

यदाश्रौषं त्रिदिवस्थं धनंजयं शक्रात् साक्षाद् दिव्यम् अस्त्रं यथावत् । (१११।१)

yadāśrauṣaṃ tridivasthaṃ dhanaṃjayaṃ śakrāt sākṣād divyam astraṃ yathāvat |

111.2१११.२

अधीयानं शंसितं सत्यसंधं तदा नाशंसे विजयाय संजय । (१११।२)

adhīyānaṃ śaṃsitaṃ satyasaṃdhaṃ tadā nāśaṃse vijayāya saṃjaya |

111.3१११.३

यदाश्रौषं कालकेयास् ततस् ते पौलोमानो वरदत्ताश्च दृप्ताः । (१११।३)

yadāśrauṣaṃ kālakeyās tatas te paulomāno varadattāśca dṛptāḥ |

111.4१११.४

देवैर् अजेया निर्जिता अर्जुनेन तदा नाशंसे विजयाय संजय । (१११।४)

devair ajeyā nirjitā arjunena tadā nāśaṃse vijayāya saṃjaya |

111.5१११.५

यदाश्रौषम् असुराणां वधार्थं किरीटिनं यातम् अमित्रकर्षणम् । (१११।५)

yadāśrauṣam asurāṇāṃ vadhārthaṃ kirīṭinaṃ yātam amitrakarṣaṇam |

111.6१११.६

कृतार्थं चाप्यागतं शक्रलोकात्तदा नाशंसे विजयाय संजय । (१११।६)

kṛtārthaṃ cāpyāgataṃ śakralokāttadā nāśaṃse vijayāya saṃjaya |

111.7१११.७

यदाश्रौषं तीर्थयात्राप्रवृत्तं पाण्डोः सुतं सहितं रोमशेन । (१११।७)

yadāśrauṣaṃ tīrthayātrāpravṛttaṃ pāṇḍoḥ sutaṃ sahitaṃ romaśena |

111.8१११.८

तस्माच्छ्रुतं चार्जुनस्यास्त्रलाभं तदा नाशंसे विजयाय संजय ॥ (१११।८)

tasmācchrutaṃ cārjunasyāstralābhaṃ tadā nāśaṃse vijayāya saṃjaya ||

112.1११२.१

यदाश्रौषं वैश्रवणेन सार्धं समागतं भीमम् अन्यांश्च पार्थान् । (११२।१)

yadāśrauṣaṃ vaiśravaṇena sārdhaṃ samāgataṃ bhīmam anyāṃśca pārthān |

112.2११२.२

तस्मिन् देशे मानुषाणाम् अगम्ये तदा नाशंसे विजयाय संजय ॥ (११२।२)

tasmin deśe mānuṣāṇām agamye tadā nāśaṃse vijayāya saṃjaya ||

113.1११३.१

यदाश्रौषं घोषयात्रागतानां बन्धं गन्धर्वैर् मोक्षणं चार्जुनेन । (११३।१)

yadāśrauṣaṃ ghoṣayātrāgatānāṃ bandhaṃ gandharvair mokṣaṇaṃ cārjunena |

113.2११३.२

स्वेषां सुतानां कर्णबुद्धौ रतानां तदा नाशंसे विजयाय संजय । (११३।२)

sveṣāṃ sutānāṃ karṇabuddhau ratānāṃ tadā nāśaṃse vijayāya saṃjaya |

113.3११३.३

यदाश्रौषं द्रौपदीं सैन्धवेन नानीतां मोक्षितां चार्जुनेन । (११३।३)

yadāśrauṣaṃ draupadīṃ saindhavena nānītāṃ mokṣitāṃ cārjunena |

113.4११३.४

जयद्रथं मोक्षितं जीवशेषं तदा नाशंसे विजयाय संजय ॥ (११३।४)

jayadrathaṃ mokṣitaṃ jīvaśeṣaṃ tadā nāśaṃse vijayāya saṃjaya ||

114.1११४.१

यदाश्रौषं यक्षरूपेण धर्मं समागतं धर्मराजेन सूत । (११४।१)

yadāśrauṣaṃ yakṣarūpeṇa dharmaṃ samāgataṃ dharmarājena sūta |

114.2११४.२

प्रश्नान् उक्तान् विब्रुवन्तं च सम्यक् तदा नाशंसे विजयाय संजय । (११४।२)

praśnān uktān vibruvantaṃ ca samyak tadā nāśaṃse vijayāya saṃjaya |

114.3११४.३

यदाश्रौषं न विदुर् मामकास् तान् प्रच्छन्नरूपान् वसतः पाण्डवेयान् । (११४।३)

yadāśrauṣaṃ na vidur māmakās tān pracchannarūpān vasataḥ pāṇḍaveyān |

114.4११४.४

विराटराष्ट्रे सह कृष्णया तांस्तदा नाशंसे विजयाय संजय । (११४।४)

virāṭarāṣṭre saha kṛṣṇayā tāṃstadā nāśaṃse vijayāya saṃjaya |

114.5११४.५

यदाश्रौषं तान् अथाज्ञातवासे त्वपश्यमानान् विविधैर् उपायैः । (११४।५)

yadāśrauṣaṃ tān athājñātavāse tvapaśyamānān vividhair upāyaiḥ |

114.6११४.६

दक्षान् पार्थान् मे सुतैर् अग्निकल्पांस्तदा नाशंसे विजयाय संजय । (११४।६)

dakṣān pārthān me sutair agnikalpāṃstadā nāśaṃse vijayāya saṃjaya |

114.7११४.७

यदाश्रौषं कीचकानां वरिष्ठं निषूदितं भ्रातृशतेन सार्धम् । (११४।७)

yadāśrauṣaṃ kīcakānāṃ variṣṭhaṃ niṣūditaṃ bhrātṛśatena sārdham |

114.8११४.८

द्रौपद्यर्थं भीमसेनेन संख्ये तदा नाशंसे विजयाय संजय । (११४।८)

draupadyarthaṃ bhīmasenena saṃkhye tadā nāśaṃse vijayāya saṃjaya |

114.9११४.९

यदाश्रौषं वसतः पाण्डुपुत्रान् अदृश्यमानान् विविधैर् उपायैः । (११४।९)

yadāśrauṣaṃ vasataḥ pāṇḍuputrān adṛśyamānān vividhair upāyaiḥ |

114.10११४.१०

दक्षान् पार्थान् भीमसेनेन संख्ये तदा नाशंसे विजयाय संजय ॥ (११४।१०)

dakṣān pārthān bhīmasenena saṃkhye tadā nāśaṃse vijayāya saṃjaya ||

115.1११५.१

यदाश्रौषं मामकानां वरिष्ठान् धनंजयेनैकरथेन भग्नान् । (११५।१)

yadāśrauṣaṃ māmakānāṃ variṣṭhān dhanaṃjayenaikarathena bhagnān |

115.2११५.२

विराटराष्ट्रे वसता महात्मना तदा नाशंसे विजयाय संजय ॥ (११५।२)

virāṭarāṣṭre vasatā mahātmanā tadā nāśaṃse vijayāya saṃjaya ||

116.1११६.१

यदाश्रौषं सत्कृतां मत्स्यराज्ञा सुतां दत्ताम् उत्तराम् अर्जुनाय । (११६।१)

yadāśrauṣaṃ satkṛtāṃ matsyarājñā sutāṃ dattām uttarām arjunāya |

116.2११६.२

तां चार्जुनः प्रत्यगृह्णात् सुतार्थे तदा नाशंसे विजयाय संजय ॥ (११६।२)

tāṃ cārjunaḥ pratyagṛhṇāt sutārthe tadā nāśaṃse vijayāya saṃjaya ||

117.1११७.१

यदाश्रौषं निर्जितस्याधनस्य प्रव्राजितस्य स्वजनात् प्रच्युतस्य । (११७।१)

yadāśrauṣaṃ nirjitasyādhanasya pravrājitasya svajanāt pracyutasya |

117.2११७.२

अक्षौहिणीः सप्त युधिष्ठिरस्य तदा नाशंसे विजयाय संजय ॥ (११७।२)

akṣauhiṇīḥ sapta yudhiṣṭhirasya tadā nāśaṃse vijayāya saṃjaya ||

118.1११८.१

यदाश्रौषं नरनारायणौ तौ कृष्णार्जुनौ वदतो नारदस्य । (११८।१)

yadāśrauṣaṃ naranārāyaṇau tau kṛṣṇārjunau vadato nāradasya |

118.2११८.२

अहं द्रष्टा ब्रह्मलोके सदेति तदा नाशंसे विजयाय संजय ॥ (११८।२)

ahaṃ draṣṭā brahmaloke sadeti tadā nāśaṃse vijayāya saṃjaya ||

119.1११९.१

यदाश्रौषं माधवं वासुदेवं सर्वात्मना पाण्डवार्थे निविष्टम् । (११९।१)

yadāśrauṣaṃ mādhavaṃ vāsudevaṃ sarvātmanā pāṇḍavārthe niviṣṭam |

119.2११९.२

यस्येमां गां विक्रमम् एकम् आहुस् तदा नाशंसे विजयाय संजय । (११९।२)

yasyemāṃ gāṃ vikramam ekam āhus tadā nāśaṃse vijayāya saṃjaya |

119.3११९.३

यदाश्रौषं लोकहिताय कृष्णं शमार्थिनम् उपयातं कुरूणाम् । (११९।३)

yadāśrauṣaṃ lokahitāya kṛṣṇaṃ śamārthinam upayātaṃ kurūṇām |

119.4११९.४

शमं कुर्वाणम् अकृतार्थं च यातं तदा नाशंसे विजयाय संजय ॥ (११९।४)

śamaṃ kurvāṇam akṛtārthaṃ ca yātaṃ tadā nāśaṃse vijayāya saṃjaya ||

120.1१२०.१

यदाश्रौषं कर्णदुर्योधनाभ्यां बुद्धिं कृतां निग्रहे केशवस्य । (१२०।१)

yadāśrauṣaṃ karṇaduryodhanābhyāṃ buddhiṃ kṛtāṃ nigrahe keśavasya |

120.2१२०.२

तं चात्मानं बहुधा दर्शयानं तदा नाशंसे विजयाय संजय ॥ (१२०।२)

taṃ cātmānaṃ bahudhā darśayānaṃ tadā nāśaṃse vijayāya saṃjaya ||

121.1१२१.१

यदाश्रौषं वासुदेवे प्रयाते रथस्यैकाम् अग्रतस् तिष्ठमानाम् । (१२१।१)

yadāśrauṣaṃ vāsudeve prayāte rathasyaikām agratas tiṣṭhamānām |

121.2१२१.२

आर्तां पृथां सान्त्वितां केशवेन तदा नाशंसे विजयाय संजय । (१२१।२)

ārtāṃ pṛthāṃ sāntvitāṃ keśavena tadā nāśaṃse vijayāya saṃjaya |

121.3१२१.३

यदाश्रौषं वासुदेवे प्रयाते रथाङ्गहस्ते फाल्गुनेनान्विते ऽपि । (१२१।३)

yadāśrauṣaṃ vāsudeve prayāte rathāṅgahaste phālgunenānvite 'pi |

121.4१२१.४

ग्रहीतुकामं मम पुत्रं द्विपेन तदा नाशंसे विजयाय संजय ॥ (१२१।४)

grahītukāmaṃ mama putraṃ dvipena tadā nāśaṃse vijayāya saṃjaya ||

122.1१२२.१

यदाश्रौषं मन्त्रिणं वासुदेवं तथा भीष्मं शांतनवं च तेषाम् । (१२२।१)

yadāśrauṣaṃ mantriṇaṃ vāsudevaṃ tathā bhīṣmaṃ śāṃtanavaṃ ca teṣām |

122.2१२२.२

भारद्वाजं चाशिषो ऽनुब्रुवाणं तदा नाशंसे विजयाय संजय ॥ (१२२।२)

bhāradvājaṃ cāśiṣo 'nubruvāṇaṃ tadā nāśaṃse vijayāya saṃjaya ||

123.1१२३.१

यदाश्रौषं कर्ण उवाच भीष्मं नाहं योत्स्ये युध्यमाने त्वयीति । (१२३।१)

yadāśrauṣaṃ karṇa uvāca bhīṣmaṃ nāhaṃ yotsye yudhyamāne tvayīti |

123.2१२३.२

हित्वा सेनाम् अपचक्राम चैव तदा नाशंसे विजयाय संजय ॥ (१२३।२)

hitvā senām apacakrāma caiva tadā nāśaṃse vijayāya saṃjaya ||

124.1१२४.१

यदाश्रौषं वासुदेवार्जुनौ तौ तथा धनुर् गाण्डिवम् अप्रमेयम् । (१२४।१)

yadāśrauṣaṃ vāsudevārjunau tau tathā dhanur gāṇḍivam aprameyam |

124.2१२४.२

त्रीण्युग्रवीर्याणि समागतानि तदा नाशंसे विजयाय संजय ॥ (१२४।२)

trīṇyugravīryāṇi samāgatāni tadā nāśaṃse vijayāya saṃjaya ||

125.1१२५.१

यदाश्रौषं कश्मलेनाभिपन्ने रथोपस्थे सीदमाने ऽर्जुने वै । (१२५।१)

yadāśrauṣaṃ kaśmalenābhipanne rathopasthe sīdamāne 'rjune vai |

125.2१२५.२

कृष्णं लोकान् दर्शयानं शरीरे तदा नाशंसे विजयाय संजय ॥ (१२५।२)

kṛṣṇaṃ lokān darśayānaṃ śarīre tadā nāśaṃse vijayāya saṃjaya ||

126.1१२६.१

यदाश्रौषं भीष्मम् अमित्रकर्शनं निघ्नन्तम् आजावयुतं रथानाम् । (१२६।१)

yadāśrauṣaṃ bhīṣmam amitrakarśanaṃ nighnantam ājāvayutaṃ rathānām |

126.2१२६.२

नैषां कश्चिद् वध्यते दृश्यरूपस् तदा नाशंसे विजयाय संजय । (१२६।२)

naiṣāṃ kaścid vadhyate dṛśyarūpas tadā nāśaṃse vijayāya saṃjaya |

126.3१२६.३

यदाश्रौषं चापगेयेन संख्ये स्वयं मृत्युं विहितं धार्मिकेण । (१२६।३)

yadāśrauṣaṃ cāpageyena saṃkhye svayaṃ mṛtyuṃ vihitaṃ dhārmikeṇa |

126.4१२६.४

तच्चाकार्षुः पाण्डवेयाः प्रहृष्टास्तदा नाशंसे विजयाय संजय ॥ (१२६।४)

taccākārṣuḥ pāṇḍaveyāḥ prahṛṣṭāstadā nāśaṃse vijayāya saṃjaya ||

127.1१२७.१

यदाश्रौषं भीष्मम् अत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् । (१२७।१)

yadāśrauṣaṃ bhīṣmam atyantaśūraṃ hataṃ pārthenāhaveṣvapradhṛṣyam |

127.2१२७.२

शिखण्डिनं पुरतः स्थापयित्वा तदा नाशंसे विजयाय संजय ॥ (१२७।२)

śikhaṇḍinaṃ purataḥ sthāpayitvā tadā nāśaṃse vijayāya saṃjaya ||

128.1१२८.१

यदाश्रौषं शरतल्पे शयानं वृद्धं वीरं सादितं चित्रपुङ्खैः । (१२८।१)

yadāśrauṣaṃ śaratalpe śayānaṃ vṛddhaṃ vīraṃ sāditaṃ citrapuṅkhaiḥ |

128.2१२८.२

भीष्मं कृत्वा सोमकान् अल्पशेषांस्तदा नाशंसे विजयाय संजय ॥ (१२८।२)

bhīṣmaṃ kṛtvā somakān alpaśeṣāṃstadā nāśaṃse vijayāya saṃjaya ||

129.1१२९.१

यदाश्रौषं शांतनवे शयाने पानीयार्थे चोदितेनार्जुनेन । (१२९।१)

yadāśrauṣaṃ śāṃtanave śayāne pānīyārthe coditenārjunena |

129.2१२९.२

भूमिं भित्त्वा तर्पितं तत्र भीष्मं तदा नाशंसे विजयाय संजय ॥ (१२९।२)

bhūmiṃ bhittvā tarpitaṃ tatra bhīṣmaṃ tadā nāśaṃse vijayāya saṃjaya ||

130.1१३०.१

यदाश्रौषं शुक्रसूर्यौ च युक्तौ कौन्तेयानाम् अनुलोमौ जयाय । (१३०।१)

yadāśrauṣaṃ śukrasūryau ca yuktau kaunteyānām anulomau jayāya |

130.2१३०.२

नित्यं चास्माञ्श्वापदा व्याभषन्तस् तदा नाशंसे विजयाय संजय ॥ (१३०।२)

nityaṃ cāsmāñśvāpadā vyābhaṣantas tadā nāśaṃse vijayāya saṃjaya ||

131.1१३१.१

यदा द्रोणो विविधान् अस्त्रमार्गान् विदर्शयन् समरे चित्रयोधी । (१३१।१)

yadā droṇo vividhān astramārgān vidarśayan samare citrayodhī |

131.2१३१.२

न पाण्डवाञ्श्रेष्ठतमान् निहन्ति तदा नाशंसे विजयाय संजय ॥ (१३१।२)

na pāṇḍavāñśreṣṭhatamān nihanti tadā nāśaṃse vijayāya saṃjaya ||

132.1१३२.१

यदाश्रौषं चास्मदीयान् महारथान् व्यवस्थितान् अर्जुनस्यान्तकाय । (१३२।१)

yadāśrauṣaṃ cāsmadīyān mahārathān vyavasthitān arjunasyāntakāya |

132.2१३२.२

संशप्तकान् निहतान् अर्जुनेन तदा नाशंसे विजयाय संजय ॥ (१३२।२)

saṃśaptakān nihatān arjunena tadā nāśaṃse vijayāya saṃjaya ||

133.1१३३.१

यदाश्रौषं व्यूहम् अभेद्यम् अन्यैर् भारद्वाजेनात्तशस्त्रेण गुप्तम् । (१३३।१)

yadāśrauṣaṃ vyūham abhedyam anyair bhāradvājenāttaśastreṇa guptam |

133.2१३३.२

भित्त्वा सौभद्रं वीरम् एकं प्रविष्टं तदा नाशंसे विजयाय संजय ॥ (१३३।२)

bhittvā saubhadraṃ vīram ekaṃ praviṣṭaṃ tadā nāśaṃse vijayāya saṃjaya ||

134.1१३४.१

यदाभिमन्युं परिवार्य बालं सर्वे हत्वा हृष्टरूपा बभूवुः । (१३४।१)

yadābhimanyuṃ parivārya bālaṃ sarve hatvā hṛṣṭarūpā babhūvuḥ |

134.2१३४.२

महारथाः पार्थम् अशक्नुवन्तस्तदा नाशंसे विजयाय संजय ॥ (१३४।२)

mahārathāḥ pārtham aśaknuvantastadā nāśaṃse vijayāya saṃjaya ||

135.1१३५.१

यदाश्रौषम् अभिमन्युं निहत्य हर्षान् मूढान् क्रोशतो धार्तराष्ट्रान् । (१३५।१)

yadāśrauṣam abhimanyuṃ nihatya harṣān mūḍhān krośato dhārtarāṣṭrān |

135.2१३५.२

क्रोधं मुक्तं सैन्धवे चार्जुनेन तदा नाशंसे विजयाय संजय ॥ (१३५।२)

krodhaṃ muktaṃ saindhave cārjunena tadā nāśaṃse vijayāya saṃjaya ||

136.1१३६.१

यदाश्रौषं सैन्धवार्थे प्रतिज्ञां प्रतिज्ञातां तद्वधायार्जुनेन । (१३६।१)

yadāśrauṣaṃ saindhavārthe pratijñāṃ pratijñātāṃ tadvadhāyārjunena |

136.2१३६.२

सत्यां निस्तीर्णां शत्रुमध्ये च तेन तदा नाशंसे विजयाय संजय ॥ (१३६।२)

satyāṃ nistīrṇāṃ śatrumadhye ca tena tadā nāśaṃse vijayāya saṃjaya ||

137.1१३७.१

यदाश्रौषं श्रान्तहये धनंजये मुक्त्वा हयान् पाययित्वोपवृत्तान् । (१३७।१)

yadāśrauṣaṃ śrāntahaye dhanaṃjaye muktvā hayān pāyayitvopavṛttān |

137.2१३७.२

पुनर् युक्त्वा वासुदेवं प्रयातं तदा नाशंसे विजयाय संजय ॥ (१३७।२)

punar yuktvā vāsudevaṃ prayātaṃ tadā nāśaṃse vijayāya saṃjaya ||

138.1१३८.१

यदाश्रौषं वाहनेष्वाश्वसत्सु रथोपस्थे तिष्ठता गाण्डिवेन । (१३८।१)

yadāśrauṣaṃ vāhaneṣvāśvasatsu rathopasthe tiṣṭhatā gāṇḍivena |

138.2१३८.२

सर्वान् योधान् वारितान् अर्जुनेन तदा नाशंसे विजयाय संजय ॥ (१३८।२)

sarvān yodhān vāritān arjunena tadā nāśaṃse vijayāya saṃjaya ||

139.1१३९.१

यदाश्रौषं नागबलैर् दुरुत्सहं द्रोणानीकं युयुधानं प्रमथ्य । (१३९।१)

yadāśrauṣaṃ nāgabalair durutsahaṃ droṇānīkaṃ yuyudhānaṃ pramathya |

139.2१३९.२

यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ तदा नाशंसे विजयाय संजय ॥ (१३९।२)

yātaṃ vārṣṇeyaṃ yatra tau kṛṣṇapārthau tadā nāśaṃse vijayāya saṃjaya ||

140.1१४०.१

यदाश्रौषं कर्णम् आसाद्य मुक्तं वधाद् भीमं कुत्सयित्वा वचोभिः । (१४०।१)

yadāśrauṣaṃ karṇam āsādya muktaṃ vadhād bhīmaṃ kutsayitvā vacobhiḥ |

140.2१४०.२

धनुष्कोट्या तुद्य कर्णेन वीरं तदा नाशंसे विजयाय संजय ॥ (१४०।२)

dhanuṣkoṭyā tudya karṇena vīraṃ tadā nāśaṃse vijayāya saṃjaya ||

141.1१४१.१

यदा द्रोणः कृतवर्मा कृपश्च कर्णो द्रौणिर् मद्रराजश्च शूरः । (१४१।१)

yadā droṇaḥ kṛtavarmā kṛpaśca karṇo drauṇir madrarājaśca śūraḥ |

141.2१४१.२

अमर्षयन् सैन्धवं वध्यमानं तदा नाशंसे विजयाय संजय ॥ (१४१।२)

amarṣayan saindhavaṃ vadhyamānaṃ tadā nāśaṃse vijayāya saṃjaya ||

142.1१४२.१

यदाश्रौषं देवराजेन दत्तां दिव्यां शक्तिं व्यंसितां माधवेन । (१४२।१)

yadāśrauṣaṃ devarājena dattāṃ divyāṃ śaktiṃ vyaṃsitāṃ mādhavena |

142.2१४२.२

घटोत्कचे राक्षसे घोररूपे तदा नाशंसे विजयाय संजय ॥ (१४२।२)

ghaṭotkace rākṣase ghorarūpe tadā nāśaṃse vijayāya saṃjaya ||

143.1१४३.१

यदाश्रौषं कर्णघटोत्कचाभ्यां युद्धे मुक्तां सूतपुत्रेण शक्तिम् । (१४३।१)

yadāśrauṣaṃ karṇaghaṭotkacābhyāṃ yuddhe muktāṃ sūtaputreṇa śaktim |

143.2१४३.२

यया वध्यः समरे सव्यसाची तदा नाशंसे विजयाय संजय ॥ (१४३।२)

yayā vadhyaḥ samare savyasācī tadā nāśaṃse vijayāya saṃjaya ||

144.1१४४.१

यदाश्रौषं द्रोणम् आचार्यम् एकं धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् । (१४४।१)

yadāśrauṣaṃ droṇam ācāryam ekaṃ dhṛṣṭadyumnenābhyatikramya dharmam |

144.2१४४.२

रथोपस्थे प्रायगतं विशस्तं तदा नाशंसे विजयाय संजय ॥ (१४४।२)

rathopasthe prāyagataṃ viśastaṃ tadā nāśaṃse vijayāya saṃjaya ||

145.1१४५.१

यदाश्रौषं द्रौणिना द्वैरथस्थं माद्रीपुत्रं नकुलं लोकमध्ये । (१४५।१)

yadāśrauṣaṃ drauṇinā dvairathasthaṃ mādrīputraṃ nakulaṃ lokamadhye |

145.2१४५.२

समं युद्धे पाण्डवं युध्यमानं तदा नाशंसे विजयाय संजय ॥ (१४५।२)

samaṃ yuddhe pāṇḍavaṃ yudhyamānaṃ tadā nāśaṃse vijayāya saṃjaya ||

146.1१४६.१

यदा द्रोणे निहते द्रोणपुत्रो नारायणं दिव्यम् अस्त्रं विकुर्वन् । (१४६।१)

yadā droṇe nihate droṇaputro nārāyaṇaṃ divyam astraṃ vikurvan |

146.2१४६.२

नैषाम् अन्तं गतवान् पाण्डवानां तदा नाशंसे विजयाय संजय । (१४६।२)

naiṣām antaṃ gatavān pāṇḍavānāṃ tadā nāśaṃse vijayāya saṃjaya |

146.3१४६.३

यदाश्रौषं भीमसेनेन पीतं रक्तं भ्रातुर् युधि दुःशासनस्य । (१४६।३)

yadāśrauṣaṃ bhīmasenena pītaṃ raktaṃ bhrātur yudhi duḥśāsanasya |

146.4१४६.४

निवारितं नान्यतमेन भीमं तदा नाशंसे विजयाय संजय । (१४६।४)

nivāritaṃ nānyatamena bhīmaṃ tadā nāśaṃse vijayāya saṃjaya |

146.5१४६.५

यदाश्रौषं भीमकर्माणम् उग्रं रणे भीमं शोणितं पीतवन्तम् । (१४६।५)

yadāśrauṣaṃ bhīmakarmāṇam ugraṃ raṇe bhīmaṃ śoṇitaṃ pītavantam |

146.6१४६.६

भित्त्वा वक्षो युवराजस्य सूत तदा नाशंसे विजयाय संजय ॥ (१४६।६)

bhittvā vakṣo yuvarājasya sūta tadā nāśaṃse vijayāya saṃjaya ||

147.1१४७.१

यदाश्रौषं कर्णम् अत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् । (१४७।१)

yadāśrauṣaṃ karṇam atyantaśūraṃ hataṃ pārthenāhaveṣvapradhṛṣyam |

147.2१४७.२

तस्मिन् भ्रातॄणां विग्रहे देवगुह्ये तदा नाशंसे विजयाय संजय ॥ (१४७।२)

tasmin bhrātṝṇāṃ vigrahe devaguhye tadā nāśaṃse vijayāya saṃjaya ||

148.1१४८.१

यदाश्रौषं द्रोणपुत्रं कृपं च दुःशासनं कृतवर्माणम् उग्रम् । (१४८।१)

yadāśrauṣaṃ droṇaputraṃ kṛpaṃ ca duḥśāsanaṃ kṛtavarmāṇam ugram |

148.2१४८.२

युधिष्ठिरं शून्यम् अधर्षयन् तं तदा नाशंसे विजयाय संजय ॥ (१४८।२)

yudhiṣṭhiraṃ śūnyam adharṣayan taṃ tadā nāśaṃse vijayāya saṃjaya ||

149.1१४९.१

यदाश्रौषं निहतं मद्रराजं रणे शूरं धर्मराजेन सूत । (१४९।१)

yadāśrauṣaṃ nihataṃ madrarājaṃ raṇe śūraṃ dharmarājena sūta |

149.2१४९.२

सदा संग्रामे स्पर्धते यः स कृष्णं तदा नाशंसे विजयाय संजय ॥ (१४९।२)

sadā saṃgrāme spardhate yaḥ sa kṛṣṇaṃ tadā nāśaṃse vijayāya saṃjaya ||

150.1१५०.१

यदाश्रौषं कलहद्यूतमूलं मायाबलं सौबलं पाण्डवेन । (१५०।१)

yadāśrauṣaṃ kalahadyūtamūlaṃ māyābalaṃ saubalaṃ pāṇḍavena |

150.2१५०.२

हतं संग्रामे सहदेवेन पापं तदा नाशंसे विजयाय संजय ॥ (१५०।२)

hataṃ saṃgrāme sahadevena pāpaṃ tadā nāśaṃse vijayāya saṃjaya ||

151.1१५१.१

यदाश्रौषं श्रान्तम् एकं शयानं ह्रदं गत्वा स्तम्भयित्वा तद् अम्भः । (१५१।१)

yadāśrauṣaṃ śrāntam ekaṃ śayānaṃ hradaṃ gatvā stambhayitvā tad ambhaḥ |

151.2१५१.२

दुर्योधनं विरथं भग्नदर्पं तदा नाशंसे विजयाय संजय ॥ (१५१।२)

duryodhanaṃ virathaṃ bhagnadarpaṃ tadā nāśaṃse vijayāya saṃjaya ||

152.1१५२.१

यदाश्रौषं पाण्डवांस् तिष्ठमानान् गङ्गाह्रदे वासुदेवेन सार्धम् । (१५२।१)

yadāśrauṣaṃ pāṇḍavāṃs tiṣṭhamānān gaṅgāhrade vāsudevena sārdham |

152.2१५२.२

अमर्षणं धर्षयतः सुतं मे तदा नाशंसे विजयाय संजय ॥ (१५२।२)

amarṣaṇaṃ dharṣayataḥ sutaṃ me tadā nāśaṃse vijayāya saṃjaya ||

153.1१५३.१

यदाश्रौषं विविधांस् तात मार्गान् गदायुद्धे मण्डलं संचरन्तम् । (१५३।१)

yadāśrauṣaṃ vividhāṃs tāta mārgān gadāyuddhe maṇḍalaṃ saṃcarantam |

153.2१५३.२

मिथ्या हतं वासुदेवस्य बुद्ध्या तदा नाशंसे विजयाय संजय ॥ (१५३।२)

mithyā hataṃ vāsudevasya buddhyā tadā nāśaṃse vijayāya saṃjaya ||

154.1१५४.१

यदाश्रौषं द्रोणपुत्रादिभिस् तैर् हतान् पाञ्चालान् द्रौपदेयांश्च सुप्तान् । (१५४।१)

yadāśrauṣaṃ droṇaputrādibhis tair hatān pāñcālān draupadeyāṃśca suptān |

154.2१५४.२

कृतं बीभत्सम् अयशस्यं च कर्म तदा नाशंसे विजयाय संजय ॥ (१५४।२)

kṛtaṃ bībhatsam ayaśasyaṃ ca karma tadā nāśaṃse vijayāya saṃjaya ||

155.1१५५.१

यदाश्रौषं भीमसेनानुयातेनाश्वत्थाम्ना परमास्त्रं प्रयुक्तम् । (१५५।१)

yadāśrauṣaṃ bhīmasenānuyātenāśvatthāmnā paramāstraṃ prayuktam |

155.2१५५.२

क्रुद्धेनैषीकम् अवधीद् येन गर्भं तदा नाशंसे विजयाय संजय ॥ (१५५।२)

kruddhenaiṣīkam avadhīd yena garbhaṃ tadā nāśaṃse vijayāya saṃjaya ||

156.1१५६.१

यदाश्रौषं ब्रह्मशिरो ऽर्जुनेन मुक्तं स्वस्तीत्यस्त्रम् अस्त्रेण शान्तम् । (१५६।१)

yadāśrauṣaṃ brahmaśiro 'rjunena muktaṃ svastītyastram astreṇa śāntam |

156.2१५६.२

अश्वत्थाम्ना मणिरत्नं च दत्तं तदा नाशंसे विजयाय संजय ॥ (१५६।२)

aśvatthāmnā maṇiratnaṃ ca dattaṃ tadā nāśaṃse vijayāya saṃjaya ||

157.1१५७.१

यदाश्रौषं द्रोणपुत्रेण गर्भे वैराट्या वै पात्यमाने महास्त्रे । (१५७।१)

yadāśrauṣaṃ droṇaputreṇa garbhe vairāṭyā vai pātyamāne mahāstre |

157.2१५७.२

संजीवयामीति हरेः प्रतिज्ञां तदा नाशंसे विजयाय संजय ॥ (१५७।२)

saṃjīvayāmīti hareḥ pratijñāṃ tadā nāśaṃse vijayāya saṃjaya ||

158.1१५८.१

द्वैपायनः केशवो द्रोणपुत्रं परस्परेणाभिशापैः शशाप । (१५८।१)

dvaipāyanaḥ keśavo droṇaputraṃ paraspareṇābhiśāpaiḥ śaśāpa |

158.2१५८.२

बुद्ध्वा चाहं बुद्धिहीनो ऽद्य सूत संतप्ये ऽहं पुत्रपौत्रैश्च हीनः । (१५८।२)

buddhvā cāhaṃ buddhihīno 'dya sūta saṃtapye 'haṃ putrapautraiśca hīnaḥ |

158.3१५८.३

संचिन्तयन्न् अद्य विहीनबुद्धिः कर्तव्यतां नाभिजानामि सूत ॥ (१५८।३)

saṃcintayann adya vihīnabuddhiḥ kartavyatāṃ nābhijānāmi sūta ||

159.1१५९.१

शोच्या गान्धारी पुत्रपौत्रैर् विहीना तथा वध्वः पितृभिर् भ्रातृभिश्च । (१५९।१)

śocyā gāndhārī putrapautrair vihīnā tathā vadhvaḥ pitṛbhir bhrātṛbhiśca |

159.2१५९.२

कृतं कार्यं दुष्करं पाण्डवेयैः प्राप्तं राज्यम् असपत्नं पुनस् तैः ॥ (१५९।२)

kṛtaṃ kāryaṃ duṣkaraṃ pāṇḍaveyaiḥ prāptaṃ rājyam asapatnaṃ punas taiḥ ||

160.1१६०.१

कष्टं युद्धे दश शेषाः श्रुता मे त्रयो ऽस्माकं पाण्डवानां च सप्त । (१६०।१)

kaṣṭaṃ yuddhe daśa śeṣāḥ śrutā me trayo 'smākaṃ pāṇḍavānāṃ ca sapta |

160.2१६०.२

द्व्यूना विंशतिर् आहताक्षौहिणीनां तस्मिन् संग्रामे विग्रहे क्षत्रियाणाम् । (१६०।२)

dvyūnā viṃśatir āhatākṣauhiṇīnāṃ tasmin saṃgrāme vigrahe kṣatriyāṇām |

160.3१६०.३

कालाभिपन्ना समितिर् महात्मनां निषूदिता हेतुर् आसीत् सुतो मे ॥ (१६०।३)

kālābhipannā samitir mahātmanāṃ niṣūditā hetur āsīt suto me ||

161.1१६१.१

तमसा त्वभ्यवस्तीर्णो मोह आविशतीव माम् । (१६१।१)

tamasā tvabhyavastīrṇo moha āviśatīva mām |

161.2१६१.२

संज्ञां नोपलभे सूत मनो विह्वलतीव मे ॥ (१६१।२)

saṃjñāṃ nopalabhe sūta mano vihvalatīva me ||

162.1१६२.१

इत्युक्त्वा धृतराष्ट्रो ऽथ विलप्य बहुदुःखितः । (१६२।१)

ityuktvā dhṛtarāṣṭro 'tha vilapya bahuduḥkhitaḥ |

162.2१६२.२

मूर्छितः पुनर् आश्वस्तः संजयं वाक्यम् अब्रवीत् ॥ (१६२।२)

mūrchitaḥ punar āśvastaḥ saṃjayaṃ vākyam abravīt ||

163.1१६३.१

संजयैवंगते प्राणांस् त्यक्तुम् इच्छामि माचिरम् । (१६३।१)

saṃjayaivaṃgate prāṇāṃs tyaktum icchāmi māciram |

163.2१६३.२

स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे ॥ (१६३।२)

stokaṃ hyapi na paśyāmi phalaṃ jīvitadhāraṇe ||

164.1१६४.१

तं तथावादिनं दीनं विलपन्तं महीपतिम् । (१६४।१)

taṃ tathāvādinaṃ dīnaṃ vilapantaṃ mahīpatim |

164.2१६४.२

निःश्वसन्तं यथा नागं मुह्यमानं पुनः पुनः । (१६४।२)

niḥśvasantaṃ yathā nāgaṃ muhyamānaṃ punaḥ punaḥ |

164.3१६४.३

गावल्गणिर् इदं धीमान् महार्थं वाक्यम् अब्रवीत् ॥ (१६४।३)

gāvalgaṇir idaṃ dhīmān mahārthaṃ vākyam abravīt ||

165.1१६५.१

श्रुतवान् असि वै राज्ञो महोत्साहान् महाबलान् । (१६५।१)

śrutavān asi vai rājño mahotsāhān mahābalān |

165.2१६५.२

द्वैपायनस्य वदतो नारदस्य च धीमतः ॥ (१६५।२)

dvaipāyanasya vadato nāradasya ca dhīmataḥ ||

166.1१६६.१

महत्सु राजवंशेषु गुणैः समुदितेषु च । (१६६।१)

mahatsu rājavaṃśeṣu guṇaiḥ samuditeṣu ca |

166.2१६६.२

जातान् दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः ॥ (१६६।२)

jātān divyāstraviduṣaḥ śakrapratimatejasaḥ ||

167.1१६७.१

धर्मेण पृथिवीं जित्वा यज्ञैर् इष्ट्वाप्तदक्षिणैः । (१६७।१)

dharmeṇa pṛthivīṃ jitvā yajñair iṣṭvāptadakṣiṇaiḥ |

167.2१६७.२

अस्मिंल्लोके यशः प्राप्य ततः कालवशं गताः ॥ (१६७।२)

asmiṃlloke yaśaḥ prāpya tataḥ kālavaśaṃ gatāḥ ||

168.1१६८.१

वैन्यं महारथं वीरं सृञ्जयं जयतां वरम् । (१६८।१)

vainyaṃ mahārathaṃ vīraṃ sṛñjayaṃ jayatāṃ varam |

168.2१६८.२

सुहोत्रं रन्तिदेवं च कक्षीवन्तं तथौशिजम् ॥ (१६८।२)

suhotraṃ rantidevaṃ ca kakṣīvantaṃ tathauśijam ||

169.1१६९.१

वाह्लीकं दमनं शैब्यं शर्यातिम् अजितं जितम् । (१६९।१)

vāhlīkaṃ damanaṃ śaibyaṃ śaryātim ajitaṃ jitam |

169.2१६९.२

विश्वामित्रम् अमित्रघ्नम् अम्बरीषं महाबलम् ॥ (१६९।२)

viśvāmitram amitraghnam ambarīṣaṃ mahābalam ||

170.1१७०.१

मरुत्तं मनुम् इक्ष्वाकुं गयं भरतम् एव च । (१७०।१)

maruttaṃ manum ikṣvākuṃ gayaṃ bharatam eva ca |

170.2१७०.२

रामं दाशरथिं चैव शशबिन्दुं भगीरथम् । (१७०।२)

rāmaṃ dāśarathiṃ caiva śaśabinduṃ bhagīratham |

170.3१७०.३

कृतवीर्यं महाभागं तथैव जनमेजयम् ॥ (१७०।३)

kṛtavīryaṃ mahābhāgaṃ tathaiva janamejayam ||

171.1१७१.१

ययातिं शुभकर्माणं देवैर् यो याजितः स्वयम् । (१७१।१)

yayātiṃ śubhakarmāṇaṃ devair yo yājitaḥ svayam |

171.2१७१.२

चैत्ययूपाङ्किता भूमिर् यस्येयं सवनाकरा ॥ (१७१।२)

caityayūpāṅkitā bhūmir yasyeyaṃ savanākarā ||

172.1१७२.१

इति राज्ञां चतुर्विंशन् नारदेन सुरर्षिणा । (१७२।१)

iti rājñāṃ caturviṃśan nāradena surarṣiṇā |

172.2१७२.२

पुत्रशोकाभितप्ताय पुरा शैब्याय कीर्तिताः ॥ (१७२।२)

putraśokābhitaptāya purā śaibyāya kīrtitāḥ ||

173.1१७३.१

तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः । (१७३।१)

tebhyaścānye gatāḥ pūrvaṃ rājāno balavattarāḥ |

173.2१७३.२

महारथा महात्मानः सर्वैः समुदिता गुणैः ॥ (१७३।२)

mahārathā mahātmānaḥ sarvaiḥ samuditā guṇaiḥ ||

174.1१७४.१

पूरुः कुरुर् यदुः शूरो विष्वगश्वो महाधृतिः । (१७४।१)

pūruḥ kurur yaduḥ śūro viṣvagaśvo mahādhṛtiḥ |

174.2१७४.२

अनेना युवनाश्वश्च ककुत्स्थो विक्रमी रघुः ॥ (१७४।२)

anenā yuvanāśvaśca kakutstho vikramī raghuḥ ||

175.1१७५.१

विजिती वीतिहोत्रश्च भवः श्वेतो बृहद्गुरुः । (१७५।१)

vijitī vītihotraśca bhavaḥ śveto bṛhadguruḥ |

175.2१७५.२

उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः ॥ (१७५।२)

uśīnaraḥ śatarathaḥ kaṅko duliduho drumaḥ ||

176.1१७६.१

दम्भोद्भवः परो वेनः सगरः संकृतिर् निमिः । (१७६।१)

dambhodbhavaḥ paro venaḥ sagaraḥ saṃkṛtir nimiḥ |

176.2१७६.२

अजेयः परशुः पुण्ड्रः शम्भुर् देवावृधो ऽनघः ॥ (१७६।२)

ajeyaḥ paraśuḥ puṇḍraḥ śambhur devāvṛdho 'naghaḥ ||

177.1१७७.१

देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः । (१७७।१)

devāhvayaḥ supratimaḥ supratīko bṛhadrathaḥ |

177.2१७७.२

महोत्साहो विनीतात्मा सुक्रतुर् नैषधो नलः ॥ (१७७।२)

mahotsāho vinītātmā sukratur naiṣadho nalaḥ ||

178.1१७८.१

सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः । (१७८।१)

satyavrataḥ śāntabhayaḥ sumitraḥ subalaḥ prabhuḥ |

178.2१७८.२

जानुजङ्घो ऽनरण्यो ऽर्कः प्रियभृत्यः शुभव्रतः ॥ (१७८।२)

jānujaṅgho 'naraṇyo 'rkaḥ priyabhṛtyaḥ śubhavrataḥ ||

179.1१७९.१

बलबन्धुर् निरामर्दः केतुशृङ्गो बृहद्बलः । (१७९।१)

balabandhur nirāmardaḥ ketuśṛṅgo bṛhadbalaḥ |

179.2१७९.२

धृष्टकेतुर् बृहत्केतुर् दीप्तकेतुर् निरामयः ॥ (१७९।२)

dhṛṣṭaketur bṛhatketur dīptaketur nirāmayaḥ ||

180.1१८०.१

अविक्षित् प्रबलो धूर्तः कृतबन्धुर् दृढेषुधिः । (१८०।१)

avikṣit prabalo dhūrtaḥ kṛtabandhur dṛḍheṣudhiḥ |

180.2१८०.२

महापुराणः संभाव्यः प्रत्यङ्गः परहा श्रुतिः ॥ (१८०।२)

mahāpurāṇaḥ saṃbhāvyaḥ pratyaṅgaḥ parahā śrutiḥ ||

181.1१८१.१

एते चान्ये च बहवः शतशो ऽथ सहस्रशः । (१८१।१)

ete cānye ca bahavaḥ śataśo 'tha sahasraśaḥ |

181.2१८१.२

श्रूयन्ते ऽयुतशश्चान्ये संख्याताश्चापि पद्मशः ॥ (१८१।२)

śrūyante 'yutaśaścānye saṃkhyātāścāpi padmaśaḥ ||

182.1१८२.१

हित्वा सुविपुलान् भोगान् बुद्धिमन्तो महाबलाः । (१८२।१)

hitvā suvipulān bhogān buddhimanto mahābalāḥ |

182.2१८२.२

राजानो निधनं प्राप्तास् तव पुत्रैर् महत्तमाः ॥ (१८२।२)

rājāno nidhanaṃ prāptās tava putrair mahattamāḥ ||

183.1१८३.१

येषां दिव्यानि कर्माणि विक्रमस् त्याग एव च । (१८३।१)

yeṣāṃ divyāni karmāṇi vikramas tyāga eva ca |

183.2१८३.२

माहात्म्यम् अपि चास्तिक्यं सत्यता शौचम् आर्जवम् ॥ (१८३।२)

māhātmyam api cāstikyaṃ satyatā śaucam ārjavam ||

184.1१८४.१

विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः । (१८४।१)

vidvadbhiḥ kathyate loke purāṇaiḥ kavisattamaiḥ |

184.2१८४.२

सर्वर्द्धिगुणसम्पन्नास् ते चापि निधनं गताः ॥ (१८४।२)

sarvarddhiguṇasampannās te cāpi nidhanaṃ gatāḥ ||

185.1१८५.१

तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना । (१८५।१)

tava putrā durātmānaḥ prataptāścaiva manyunā |

185.2१८५.२

लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्शोचितुम् अर्हसि ॥ (१८५।२)

lubdhā durvṛttabhūyiṣṭhā na tāñśocitum arhasi ||

186.1१८६.१

श्रुतवान् असि मेधावी बुद्धिमान् प्राज्ञसंमतः । (१८६।१)

śrutavān asi medhāvī buddhimān prājñasaṃmataḥ |

186.2१८६.२

येषां शास्त्रानुगा बुद्धिर् न ते मुह्यन्ति भारत ॥ (१८६।२)

yeṣāṃ śāstrānugā buddhir na te muhyanti bhārata ||

187.1१८७.१

निग्रहानुग्रहौ चापि विदितौ ते नराधिप । (१८७।१)

nigrahānugrahau cāpi viditau te narādhipa |

187.2१८७.२

नात्यन्तम् एवानुवृत्तिः श्रूयते पुत्ररक्षणे ॥ (१८७।२)

nātyantam evānuvṛttiḥ śrūyate putrarakṣaṇe ||

188.1१८८.१

भवितव्यं तथा तच्च नातः शोचितुम् अर्हसि । (१८८।१)

bhavitavyaṃ tathā tacca nātaḥ śocitum arhasi |

188.2१८८.२

दैवं प्रज्ञाविशेषेण को निवर्तितुम् अर्हति ॥ (१८८।२)

daivaṃ prajñāviśeṣeṇa ko nivartitum arhati ||

189.1१८९.१

विधातृविहितं मार्गं न कश्चिद् अतिवर्तते । (१८९।१)

vidhātṛvihitaṃ mārgaṃ na kaścid ativartate |

189.2१८९.२

कालमूलम् इदं सर्वं भावाभावौ सुखासुखे ॥ (१८९।२)

kālamūlam idaṃ sarvaṃ bhāvābhāvau sukhāsukhe ||

190.1१९०.१

कालः पचति भूतानि कालः संहरति प्रजाः । (१९०।१)

kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ |

190.2१९०.२

निर्दहन्तं प्रजाः कालं कालः शमयते पुनः ॥ (१९०।२)

nirdahantaṃ prajāḥ kālaṃ kālaḥ śamayate punaḥ ||

191.1१९१.१

कालो विकुरुते भावान् सर्वांल्लोके शुभाशुभान् । (१९१।१)

kālo vikurute bhāvān sarvāṃlloke śubhāśubhān |

191.2१९१.२

कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः । (१९१।२)

kālaḥ saṃkṣipate sarvāḥ prajā visṛjate punaḥ |

191.3१९१.३

कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ (१९१।३)

kālaḥ supteṣu jāgarti kālo hi duratikramaḥ ||

192.1१९२.१

संजय उवाच । (१९२।१)

saṃjaya uvāca

192.2१९२.२

अतीतान् आगतान् वापि वर्तमानास् तथा बुधाः । (१९२।२)

atītān āgatān vāpi vartamānās tathā budhāḥ |

192.3१९२.३

नानुशोचन्ति राजेन्द्र कालो हि जगदन्तकः । (१९२।३)

nānuśocanti rājendra kālo hi jagadantakaḥ |

192.4१९२.४

कालः सर्वेषु भूतेषु चरत्यविधृतः समः ॥ (१९२।४)

kālaḥ sarveṣu bhūteṣu caratyavidhṛtaḥ samaḥ ||

193.1१९३.१

अतीतानागता भावा ये च वर्तन्ति साम्प्रतम् । (१९३।१)

atītānāgatā bhāvā ye ca vartanti sāmpratam |

193.2१९३.२

तान् कालनिर्मितान् बुद्ध्वा न संज्ञां हातुम् अर्हसि । (१९३।२)

tān kālanirmitān buddhvā na saṃjñāṃ hātum arhasi |

193.3१९३.३

इत्येवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरम् । (१९३।३)

ityevaṃ putraśokārtaṃ dhṛtarāṣṭraṃ janeśvaram |

193.4१९३.४

आश्वास्य स्वस्थम् अकरोत् सूतो गावल्गणिस् तदा । (१९३।४)

āśvāsya svastham akarot sūto gāvalgaṇis tadā |

193.5१९३.५

एवम् उक्त्वा च राजानं संजयो विरराम ह । (१९३।५)

evam uktvā ca rājānaṃ saṃjayo virarāma ha |

193.6१९३.६

धृतराष्ट्रो ऽपि तच्छ्रुत्वा धृतिम् एव समाश्रयत् । (१९३।६)

dhṛtarāṣṭro 'pi tacchrutvā dhṛtim eva samāśrayat |

193.7१९३.७

दिष्ट्येदम् आगतम् इति मत्वा स प्राज्ञसत्तमः ॥ (१९३।७)

diṣṭyedam āgatam iti matvā sa prājñasattamaḥ ||

194.1१९४.१

सूत उवाच । (१९४।१)

sūta uvāca

194.2१९४.२

अत्रोपनिषदं पुण्यां कृष्णद्वैपायनो ऽब्रवीत् । (१९४।२)

atropaniṣadaṃ puṇyāṃ kṛṣṇadvaipāyano 'bravīt |

194.3१९४.३

भारताध्ययनात् पुण्याद् अपि पादम् अधीयतः । (१९४।३)

bhāratādhyayanāt puṇyād api pādam adhīyataḥ |

194.4१९४.४

श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ॥ (१९४।४)

śraddadhānasya pūyante sarvapāpānyaśeṣataḥ ||

195.1१९५.१

लोकानां च हितार्थाय कारुण्यान् मुनिसत्तमः । (१९५।१)

lokānāṃ ca hitārthāya kāruṇyān munisattamaḥ |

195.2१९५.२

भारतं भानुमान् इन्दुर् यदि न स्युर् अमी त्रयः । (१९५।२)

bhārataṃ bhānumān indur yadi na syur amī trayaḥ |

195.3१९५.३

अज्ञानतिमिरान्धस्य कावस्था जगतो भवेत् । (१९५।३)

ajñānatimirāndhasya kāvasthā jagato bhavet |

195.4१९५.४

मतिमन्थानम् आविध्य येन वेदमहार्णवात् । (१९५।४)

matimanthānam āvidhya yena vedamahārṇavāt |

195.5१९५.५

जगद्धिताय जनितो महाभारतचन्द्रमाः ॥ (१९५।५)

jagaddhitāya janito mahābhāratacandramāḥ ||

196.1१९६.१

देवर्षयो ह्यत्र पुण्या ब्रह्मराजर्षयस् तथा । (१९६।१)

devarṣayo hyatra puṇyā brahmarājarṣayas tathā |

196.2१९६.२

कीर्त्यन्ते शुभकर्माणस् तथा यक्षमहोरगाः ॥ (१९६।२)

kīrtyante śubhakarmāṇas tathā yakṣamahoragāḥ ||

197.1१९७.१

भगवान् वासुदेवश्च कीर्त्यते ऽत्र सनातनः । (१९७।१)

bhagavān vāsudevaśca kīrtyate 'tra sanātanaḥ |

197.2१९७.२

स हि सत्यम् ऋतं चैव पवित्रं पुण्यम् एव च ॥ (१९७।२)

sa hi satyam ṛtaṃ caiva pavitraṃ puṇyam eva ca ||

198.1१९८.१

शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् । (१९८।१)

śāśvataṃ brahma paramaṃ dhruvaṃ jyotiḥ sanātanam |

198.2१९८.२

यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः ॥ (१९८।२)

yasya divyāni karmāṇi kathayanti manīṣiṇaḥ ||

199.1१९९.१

असत् सत् सद् असच्चैव यस्माद् देवात् प्रवर्तते । (१९९।१)

asat sat sad asaccaiva yasmād devāt pravartate |

199.2१९९.२

संततिश्च प्रवृत्तिश्च जन्म मृत्युः पुनर्भवः ॥ (१९९।२)

saṃtatiśca pravṛttiśca janma mṛtyuḥ punarbhavaḥ ||

200.1२००.१

अध्यात्मं श्रूयते यच्च पञ्चभूतगुणात्मकम् । (२००।१)

adhyātmaṃ śrūyate yacca pañcabhūtaguṇātmakam |

200.2२००.२

अव्यक्तादि परं यच्च स एव परिगीयते ॥ (२००।२)

avyaktādi paraṃ yacca sa eva parigīyate ||

201.1२०१.१

यत् तद् यतिवरा युक्ता ध्यानयोगबलान्विताः । (२०१।१)

yat tad yativarā yuktā dhyānayogabalānvitāḥ |

201.2२०१.२

प्रतिबिम्बम् इवादर्शे पश्यन्त्यात्मन्यवस्थितम् ॥ (२०१।२)

pratibimbam ivādarśe paśyantyātmanyavasthitam ||

202.1२०२.१

श्रद्दधानः सदोद्युक्तः सत्यधर्मपरायणः । (२०२।१)

śraddadhānaḥ sadodyuktaḥ satyadharmaparāyaṇaḥ |

202.2२०२.२

आसेवन्न् इमम् अध्यायं नरः पापात् प्रमुच्यते ॥ (२०२।२)

āsevann imam adhyāyaṃ naraḥ pāpāt pramucyate ||

203.1२०३.१

अनुक्रमणिम् अध्यायं भारतस्येमम् आदितः । (२०३।१)

anukramaṇim adhyāyaṃ bhāratasyemam āditaḥ |

203.2२०३.२

आस्तिकः सततं शृण्वन् न कृच्छ्रेष्ववसीदति ॥ (२०३।२)

āstikaḥ satataṃ śṛṇvan na kṛcchreṣvavasīdati ||

204.1२०४.१

उभे संध्ये जपन् किंचित् सद्यो मुच्येत किल्बिषात् । (२०४।१)

ubhe saṃdhye japan kiṃcit sadyo mucyeta kilbiṣāt |

204.2२०४.२

अनुक्रमण्या यावत् स्याद् अह्ना रात्र्या च संचितम् ॥ (२०४।२)

anukramaṇyā yāvat syād ahnā rātryā ca saṃcitam ||

205.1२०५.१

भारतस्य वपुर् ह्येतत् सत्यं चामृतम् एव च । (२०५।१)

bhāratasya vapur hyetat satyaṃ cāmṛtam eva ca |

205.2२०५.२

दिव्या यज्ञाश्च निखिला विष्णुश्चोपनिषन् महत् । (२०५।२)

divyā yajñāśca nikhilā viṣṇuścopaniṣan mahat |

205.3२०५.३

आरण्यकं च वेदेभ्य ओषधिभ्यो ऽमृतं यथा । (२०५।३)

āraṇyakaṃ ca vedebhya oṣadhibhyo 'mṛtaṃ yathā |

205.4२०५.४

नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा ॥ (२०५।४)

navanītaṃ yathā dadhno dvipadāṃ brāhmaṇo yathā ||

206.1२०६.१

ह्रदानाम् उदधिः श्रेष्ठो गौर् वरिष्ठा चतुष्पदाम् । (२०६।१)

hradānām udadhiḥ śreṣṭho gaur variṣṭhā catuṣpadām |

206.2२०६.२

यथैतानि वरिष्ठानि तथा भारतम् उच्यते ॥ (२०६।२)

yathaitāni variṣṭhāni tathā bhāratam ucyate ||

207.1२०७.१

यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान् पादम् अन्ततः । (२०७।१)

yaścainaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ |

207.2२०७.२

अक्षय्यम् अन्नपानं तत् पितॄंस् तस्योपतिष्ठति ॥ (२०७।२)

akṣayyam annapānaṃ tat pitṝṃs tasyopatiṣṭhati ||

208.1२०८.१

इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । (२०८।१)

itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet |

208.2२०८.२

बिभेत्यल्पश्रुताद् वेदो माम् अयं प्रतरिष्यति ॥ (२०८।२)

bibhetyalpaśrutād vedo mām ayaṃ pratariṣyati ||

209.1२०९.१

कार्ष्णं वेदम् इमं विद्वाञ् श्रावयित्वार्थम् अश्नुते । (२०९।१)

kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute |

209.2२०९.२

भ्रूणहत्याकृतं चापि पापं जह्यान् न संशयः ॥ (२०९।२)

bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyān na saṃśayaḥ ||

210.1२१०.१

य इमं शुचिर् अध्यायं पठेत् पर्वणि पर्वणि । (२१०।१)

ya imaṃ śucir adhyāyaṃ paṭhet parvaṇi parvaṇi |

210.2२१०.२

अधीतं भारतं तेन कृत्स्नं स्याद् इति मे मतिः ॥ (२१०।२)

adhītaṃ bhārataṃ tena kṛtsnaṃ syād iti me matiḥ ||

211.1२११.१

यश्चेमं शृणुयान् नित्यम् आर्षं श्रद्धासमन्वितः । (२११।१)

yaścemaṃ śṛṇuyān nityam ārṣaṃ śraddhāsamanvitaḥ |

211.2२११.२

स दीर्घम् आयुः कीर्तिं च स्वर्गतिं चाप्नुयान् नरः ॥ (२११।२)

sa dīrgham āyuḥ kīrtiṃ ca svargatiṃ cāpnuyān naraḥ ||

212.1२१२.१

चत्वार एकतो वेदा भारतं चैकम् एकतः । (२१२।१)

catvāra ekato vedā bhārataṃ caikam ekataḥ |

212.2२१२.२

समागतैः सुरर्षिभिस् तुलाम् आरोपितं पुरा । (२१२।२)

samāgataiḥ surarṣibhis tulām āropitaṃ purā |

212.3२१२.३

चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा । (२१२।३)

caturbhyaḥ sarahasyebhyo vedebhyo hyadhikaṃ yadā |

212.4२१२.४

तदा प्रभृति लोके ऽस्मिन् महाभारतम् उच्यते । (२१२।४)

tadā prabhṛti loke 'smin mahābhāratam ucyate |

212.5२१२.५

महत्त्वे च गुरुत्वे च ध्रियमाणं ततो ऽधिकम् ॥ (२१२।५)

mahattve ca gurutve ca dhriyamāṇaṃ tato 'dhikam ||

213.1२१३.१

महत्त्वाद् भारवत्त्वाच्च महाभारतम् उच्यते । (२१३।१)

mahattvād bhāravattvācca mahābhāratam ucyate |

213.2२१३.२

निरुक्तम् अस्य यो वेद सर्वपापैः प्रमुच्यते ॥ (२१३।२)

niruktam asya yo veda sarvapāpaiḥ pramucyate ||

214.1२१४.१

तपो न कल्को ऽध्ययनं न कल्कः स्वाभाविको वेदविधिर् न कल्कः । (२१४।१)

tapo na kalko 'dhyayanaṃ na kalkaḥ svābhāviko vedavidhir na kalkaḥ |

214.2२१४.२

प्रसह्य वित्ताहरणं न कल्कस् तान्येव भावोपहतानि कल्कः । (२१४।२)

prasahya vittāharaṇaṃ na kalkas tānyeva bhāvopahatāni kalkaḥ |

214.3२१४.३

श्रीसूतः । (२१४।३)

śrīsūtaḥ |

214.4२१४.४

कृष्णद्वैपायनं व्यासं विद्धि नारायणं विभुम् । (२१४।४)

kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ vibhum |

214.5२१४.५

को ह्यन्यः पुण्डरीकाक्षान् महाभारतकृद् भवेत् । (२१४।५)

ko hyanyaḥ puṇḍarīkākṣān mahābhāratakṛd bhavet |

214.6२१४.६

मतिमन्थानम् आविध्य येन वेदमहार्णवात् । (२१४।६)

matimanthānam āvidhya yena vedamahārṇavāt |

214.7२१४.७

जगद्धिताय जनितो महाभारतचन्द्रमाः । (२१४।७)

jagaddhitāya janito mahābhāratacandramāḥ |

214.8२१४.८

स्तुत्यं तस्यास्ति किं चान्यत् सर्वलोकहितैषिणः । (२१४।८)

stutyaṃ tasyāsti kiṃ cānyat sarvalokahitaiṣiṇaḥ |

214.9२१४.९

वेदा व्यस्ताः कृतं तेन महाभारतम् अद्भुतम् । (२१४।९)

vedā vyastāḥ kṛtaṃ tena mahābhāratam adbhutam |

214.10२१४.१०

सर्वे तरन्तु दुर्गाणि सर्वो भद्राणि पश्यतु । (२१४।१०)

sarve tarantu durgāṇi sarvo bhadrāṇi paśyatu |

214.11२१४.११

इत्युक्त्वा सर्ववेदार्थान् भारते तेन दर्शिताः । (२१४।११)

ityuktvā sarvavedārthān bhārate tena darśitāḥ |

214.12२१४.१२

श्रूयतां सिंहनादो ऽयम् ऋषभस्य महात्मनः । (२१४।१२)

śrūyatāṃ siṃhanādo 'yam ṛṣabhasya mahātmanaḥ |

214.13२१४.१३

धर्मे चार्थे च कामे च मोक्षे च परमर्षभ । (२१४।१३)

dharme cārthe ca kāme ca mokṣe ca paramarṣabha |

214.14२१४.१४

यद् इहास्ति तद् अन्यत्र यन् नेहास्ति न तत् क्वचित् । (२१४।१४)

yad ihāsti tad anyatra yan nehāsti na tat kvacit |

214.15२१४.१५

एष प्रकृत्यैव यतो लोकः सक्तो ऽर्थकामयोः । (२१४।१५)

eṣa prakṛtyaiva yato lokaḥ sakto 'rthakāmayoḥ |

214.16२१४.१६

धर्ममोक्षपरं तस्मात् करिष्ये ऽहं समुच्चयम् । (२१४।१६)

dharmamokṣaparaṃ tasmāt kariṣye 'haṃ samuccayam |

214.17२१४.१७

कामिनो वर्णयन् कामं लोभं लुब्धस्य वर्णयन् । (२१४।१७)

kāmino varṇayan kāmaṃ lobhaṃ lubdhasya varṇayan |

214.18२१४.१८

नरः किं फलम् आप्नोति कूपे ऽन्धम् इव पातयन् । (२१४।१८)

naraḥ kiṃ phalam āpnoti kūpe 'ndham iva pātayan |

214.19२१४.१९

मुनिनापि च कामार्थौ मत्वा लोकमनोहरौ । (२१४।१९)

munināpi ca kāmārthau matvā lokamanoharau |

214.20२१४.२०

निन्द्यावपि स्थितावेतौ धर्ममोक्षविवक्षया । (२१४।२०)

nindyāvapi sthitāvetau dharmamokṣavivakṣayā |

214.21२१४.२१

अन्यथा घोरसंसारबन्धहेतू जनस्य तौ । (२१४।२१)

anyathā ghorasaṃsārabandhahetū janasya tau |

214.22२१४.२२

वर्णयेत कथं धीमान् महाकारुणिको मुनिः । (२१४।२२)

varṇayeta kathaṃ dhīmān mahākāruṇiko muniḥ |

214.23२१४.२३

लोकचिन्तावतारार्थं वर्णयित्वा च तेन तौ । (२१४।२३)

lokacintāvatārārthaṃ varṇayitvā ca tena tau |

214.24२१४.२४

इतिहासैर् विचित्रार्थैः पुनर् अत्रैव निन्दितौ । (२१४।२४)

itihāsair vicitrārthaiḥ punar atraiva ninditau |

214.25२१४.२५

भारतं भानुमान् इन्दुर् यदि न स्युर् अमी त्रयः । (२१४।२५)

bhārataṃ bhānumān indur yadi na syur amī trayaḥ |

214.26२१४.२६

अज्ञानतिमिरान्धे का व्यवस्था जगतो भवेत् । (२१४।२६)

ajñānatimirāndhe kā vyavasthā jagato bhavet |

214.27२१४.२७

एतद् विज्ञाय विद्वद्भिर् नित्यं श्रद्धासमन्वितैः । (२१४।२७)

etad vijñāya vidvadbhir nityaṃ śraddhāsamanvitaiḥ |

214.28२१४.२८

अध्येयो भारतीयो ऽयम् इतिहाससमुच्चयः । (२१४।२८)

adhyeyo bhāratīyo 'yam itihāsasamuccayaḥ |

214.29२१४.२९

श्लोका ये भारते वापि क्वचित् केचिद् व्यवस्थिताः । (२१४।२९)

ślokā ye bhārate vāpi kvacit kecid vyavasthitāḥ |

214.30२१४.३०

तुल्यार्थाः संहितां पुण्यां योजयिष्ये तु ताम् अहम् । (२१४।३०)

tulyārthāḥ saṃhitāṃ puṇyāṃ yojayiṣye tu tām aham |

214.31२१४.३१

तच्छ्लोकांश्च समुद्धर्तुं कः कृत्स्नान् भारते क्षमः । (२१४।३१)

tacchlokāṃśca samuddhartuṃ kaḥ kṛtsnān bhārate kṣamaḥ |

214.32२१४.३२

योगतः सर्वरत्नानि समुद्धर्तुं महार्णवात् । (२१४।३२)

yogataḥ sarvaratnāni samuddhartuṃ mahārṇavāt |

214.33२१४.३३

न च प्रज्ञाभिमानेन यद् अयं कर्तुम् उद्यतः । (२१४।३३)

na ca prajñābhimānena yad ayaṃ kartum udyataḥ |

214.34२१४.३४

किं तु भारतभक्तिर् मां विवशं समचूचुदत् ॥ (२१४।३४)

kiṃ tu bhāratabhaktir māṃ vivaśaṃ samacūcudat ||

Data courtesy of The Digital Corpus of Sanskrit.

MBh, 1, 1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit